सामग्री पर जाएँ
सर्वकोश
वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

पृष्ठ 89, कुल 192 में से

संदर्भ में पढ़ें
पृष्ठ 89

सहायकके विना अनुमानके आधार पर कार्य करनेवाले व्यक्तिका पतन दुर्लभ नहीं है ॥ ४२ ॥
'न चागमादृते' इत्यारभ्य एतावता प्रबन्धेन धर्माधर्मयोस्तर्कागम्यत्वमार्ष-
ज्ञानस्य च आगमपूर्वकत्वमुपपाद्य धर्माधर्मयोरागमैकवेद्यत्वमुपसंहरति—
तस्मादकृतकं शास्त्रं स्मृतिं च सनिबन्धनाम् ।
आश्रित्यारभ्यते शिष्टैः शब्दानामनुशासनम् ॥ ४३ ॥
तस्मात् तर्कस्यान्यथास्थितत्वेन आर्षज्ञानस्य चागमपूर्वकत्वेन धर्माधर्मयोरा-
गमैकवेद्यत्वात् अकृतकम् अपौरुषेयं शास्त्रं पुरुषहितोपदेशाय प्रवृत्तमाम्नायं
निबध्यतेऽनेनेति निबन्धनं मूलं तेन सहितां सनिबन्धनां शिष्टपरम्पराचरणात्नु-
गृहीतां 'पृषोदरादीनि यथोपदिष्टम्' इत्यादिरूपां स्मृतिं च आश्रित्य प्रमाणीकृत्य
शिष्टैः पाणिन्यादिभिः शब्दानामनुशासनमारभ्यते क्रियते इत्यर्थः ॥
अयं भावः शब्दानुशासनमारभमाणाः पाणिन्यादयः अनादिप्रवृत्तं व्याकरणा-
गममुपजीव्यैवारभन्ते अत एव शाकल्यस्य शाकटायनस्य इति पूर्वांन्स्मर्तॄन्
स्मरन्ति तेऽपि हि स्वपूर्वान् स्मर्तॄन् इति अनादिप्रवृत्तव्याकरणमूलभूतश्रुतिमूलक
एव साध्वसाधुप्रविभाग इति 'तस्मान्निबध्यते पूर्वैः साधुत्वविषया स्मृतिः' इति
यदुकं तदुपपन्नमिति ॥ ४३ ॥
इसीलिए अपौरुषेय शास्त्र और शिष्टाचार परम्परासे स्वीकृत स्मृतियोंको प्रमाण मानकर
पाणिनि, कात्यायन और पतञ्जलि आदि शिष्टमहर्षियोंने शब्दानुशासन ( व्याकरण-शास्त्र )
का निर्माण किया है ॥ ४३ ॥
( वाक्यपदीयकी इस कारिका तक व्याकरणशास्त्रके निर्माणका प्रयोजन कहा गया
है और 'अथशब्दानुशासनम्' वाक्य की यह विस्तृत व्याख्या है। अब वाक्यपदीय
ग्रन्थका आरम्भ विषयकी दृष्टिसे किया जा रहा है । )
लोके नदीघोषतन्त्रीशब्दकाकवाशितादौ, व्यवहर्तृषु, पदार्थबोधकत्वेन प्रसिद्धे
श्रोत्रेन्द्रियग्राह्ये ध्वनौ च शब्दशब्दप्रयोगात् शब्दशब्दस्य सामान्यशब्दतया
प्रकरणादिकं विना विशेषेऽवस्थानासम्भवेन शब्दानुशासनेऽस्मिन् शास्त्रे नदीघोषा-
दीनामप्यनुशासनप्रसङ्ग इति इदानीमनुशासनकर्मभूतं तपरसूत्रभाष्यादावुक्तं
ध्वनिशब्दत्वं शब्दविशेषमभिधातुमाह—
यद्यपि नदीकी हरहराहट, वीणाका नाद और कौवे की काँव काँव भी शब्द ही कही
जाती है। तथापि इस व्याकरण शास्त्रमें हम उन शब्दोंका अनुशासन ( साधुत्व ) बतायेंगे—
द्वावुपादानशब्देषु शब्दौ शब्दविदो विदुः ।
एको निमित्तं शब्दानाम् अपरोऽर्थे प्रयुज्यते ॥ ४४ ॥
उपादीयते स्वरूपेऽध्यारोप्यते अर्थरूपतां विहाय स्वरूपमिव आपाद्यतेऽर्थो येन
स उपादानः वाचकः शब्दस्तस्यार्थरूपेण रजोः सर्परूपेणेव विवर्तनाद्रज्जुरिव सर्पस्य
अर्थस्य विवर्तोपादानं शब्दः, शब्दार्थयोः कार्यकारणभावादेव योऽर्थः स शब्दः यः