सामग्री पर जाएँ
सर्वकोश
वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

पृष्ठ 72, कुल 192 में से

संदर्भ में पढ़ें
पृष्ठ 72

Here is the complete line-by-line transcription of the text from the image into Devanagari Markdown:

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् ४१
भासते परमार्थतश्च तत्र वर्णाः पदानि च न सन्तीति मन्यन्ते । तथाच ऐऔच् सूत्रे
भाष्यम्-‘उभयतः स्फोटमात्रं निर्दिश्यते रश्रुतेर्लश्रुतिर्भवतीति । अत्रोद्द्योतः 'वस्तुतः
स्फोट एव श्रोत्रग्राह्यः वायुनिष्ठकत्वादिना च तदभिव्यक्तिः । एवं च साक्षाद्भवतो-
ऽभावेन कहपत इत्यत्रापि अप्रवृत्तावस्य वैयर्थ्यापत्तिः एवं च रेफावभासिनः स्फोटस्य
प्रसङ्गे लकारावभासः स्फोट इत्यर्थः' इति ।
तदयं निष्कर्षः-शब्दर्नित्यतावादिनां मीमांसकानां व्यक्तिस्फोटवादिनां जाति-
स्फोटवादिनां वा वैयाकरणानां मते शब्दर्नित्यत्वं सुपादम् । कार्यशब्दिानां मते
स्वतोऽनित्यत्वेऽपि व्यवहारनित्यतया आकृतिनित्यतया वाऽब्दपदस्य शब्दाकृतिपरतया
वा शब्दस्य नित्यत्वोक्तिरिति ।
ननु अक्रमं वर्णातिरिक्तं पदं वाक्यं वा वाचकमिति वदतो वैयाकरणस्य मते पदा-
देर्नित्यत्वेऽपि मीमांसकमते पदवाक्यादीनां नित्यत्वासंभवः। तथा हि-आनुपूर्वी भेदवन्तो
हि वर्णाः पदम्, पदानि चानुपूर्वीभेदवन्ति वाक्यम्, ध्वनिधर्मश्चानुपूर्वी न वर्णधर्मः
वर्णानां नित्यानां विभूनां च कालतो देशतो वा पौर्वापर्यविरहात् । ध्वनयो हि क्रम-
वर्तिनः क्रमेण शब्दानभिव्यञ्जयन्तः स्वीयं क्रमं वर्णेषु दर्शयन्ति क्रमरचना च पुरुषा-
धीना इति परमाणूनां नित्यत्वेऽपि तदारब्धघटाद्यनित्यत्ववत् वर्णानां नित्यत्वेऽपि पद-
स्यान्नित्यत्वमिति सुतरां वाक्यस्यानित्यत्वम् । किञ्च क्रमं विना वर्णानां प्रतिपादक-
त्वासम्भवात् क्रमस्य च वाचकत्वात् पदत्वं न क्रमविशिष्टानां वर्णानां तस्य च पुरुषा-
धीनत्वेनानित्यत्वमिति चेदुच्यते-क्रमविशिष्टानां वर्णानामेव वाचकत्वं प्राधान्यात् न
वर्णक्रमस्य तस्य सर्वपदार्थाङ्गत्वेनाप्राधान्यात् न चासौ स्वतन्त्र एव वस्त्वन्तरत्वेन
कल्पितुं वदितुं वा शक्यते इति तदुक्तं ‘गकारौकारविसर्जनीयाः पदम्' इति शाबरभाष्ये तथा च
वर्णानां नित्यत्वाद्गौणमकरदानां नित्यत्वमक्षतम् ।
नन्वेवमपि-क्रमस्यानित्यत्वे तद्विशिष्टवर्णानामनित्यतया पदस्यानित्यत्वं पुन-
रापन्नमिति चेन्न, येन क्रमेण पदं परेणोच्यते तेनैवापरेणेति व्यवहारनित्यतया क्रमस्य
नित्यत्वमिति तद्भेदेव पदस्य नित्यत्वमित्यदोषान् । इत्थमेव वेदेऽपि नित्यत्वं बोध्यम् ।
इदमेव च वेदापौरुषेयत्वं नाम यत्स्वीयक्रमे न पुरुषस्वातन्त्र्यं लौकिकवाक्ये तु क्रमस्य
पुरुषतन्त्रत्वात् पौरुषेयत्वमिति तत्त्वम् ।
यद्वा पौर्वापर्यं क्रमः पूर्वोपराश्चिर-क्षिप्रप्रत्ययाश्च कालाल्लक्षणाः तेन ध्वनिभिर्वर्णेषु
व्यज्यमानेषु पूर्वापरभागेन व्यज्यमानः काल एव क्रमः स च नित्य इति तद्विशि-
१. इमे पक्षाः—‘केचित् ध्वनिनित्यत्वे वर्णात्मकं नित्यं शब्दमाहुः । अन्ये वर्णव्यतिरिक्तं पद-
स्फोटमिच्छन्ति । वाक्यस्फोटमपरे सङ्गिरन्ते । अन्ये तु ध्वनिश्चेव शब्दः स च कार्यस्तदृष्यतिरे-
केणान्वयव्यतिरेकाभ्यामित्याचक्षते' इति 'तत्र नित्यः शब्दो जातिस्फोटलक्षणो व्यक्तिस्फोटलक्षणो
वा' इति च कैयटेन उक्ताः ।
६ व्या०