वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 180, कुल 192 में से
संदर्भ में पढ़ेंब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् १५१
एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः ।
प्राणापानान्तरे नित्यमेका सर्वस्य तिष्ठति ॥
अन्या स्वप्रेर्यमाणेव विना प्राणेन वर्तते ।
जायते हि ततः प्राणो वाचमाप्याययन् पुनः ॥
प्राणेनाप्यायिता सेयं व्यवहारनिबन्धनम् ।
सर्वस्योच्छ्वासमासाद्य न वाग्वदति कर्हिचित् ॥
घोषिणी जातनिर्घोषा अघोषा च प्रवर्तते ।
तयोरपि च घोषिण्योनिर्घोषैव गरीयसी ॥ इति ।
पुनश्चाह—स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा ।
वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ॥
केवलं बुद्धयुपादाना क्रमस्वरूपानुपातिनी ।
प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते ॥
अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ।
स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ॥
सेयमापीयमानापि नित्यमागन्तु कैर्मलैः ।
अन्त्या कलेव सोमस्य नात्यन्तमभिभूयते ॥
तस्यां दृष्टस्वरूपायामधिकारो निवर्तते ।
पुरुषे षोडशकले तामाहुरमृतां कलाम् ॥
प्राप्तोपरागरूपा सा विप्लवैरनुपप्लवैः ।
वैखरी मध्यमाचैव गुणैर्न व्यपशीर्यते ॥ इति ।
स्थानेष्विति—ताल्वादिस्थानेषु, वायौ—प्राणसंज्ञे, विवृते अभिघातार्थं निरुद्धे
सति कृतवर्णपरिग्रहेति हेतुद्वारा विशेषणं ततः ककारादिवर्णरूपस्वीकारात् वैखरी-
संज्ञा वक्तृभिर्विशिष्टायां खरावस्थायां स्पष्टरूपायां भवा वैखरीति निरुक्तेः, केचित्तु
विखर इति देहेन्द्रियसङ्घात उच्यते तत्रभवा वैखरीति, वाक् प्रयोक्तॄणां सम्बन्धिनी।
यद्वा तेषु स्थानेषु । तस्याश्च प्राणवृत्तिरेव निबन्धनम् । यत्रैव निबद्धा सा तन्म-
यत्वात् । या पुनरन्तः सङ्कल्प्यमाना क्रमवती श्रोत्रग्राह्यवर्णरूपाभिव्यक्तिरहिता
वाक् सा मध्यमेत्युच्यते । तदुक्तं केवलं बुद्धयुपादानेति । अस्यार्थः स्थूलां प्राणवृत्तिं
हेतुत्वेन वैखरीवदनपेक्ष्य केवलं बुद्धिरेवोपादानं हेतुर्यस्याः सा मध्यस्थत्वात् क्रम-
रूपमनुगच्छति अस्याश्च मनो भूमाववस्थानम् । वैखरीपश्यन्त्योर्मध्ये भावाच्चमध्यमा
वागिति । या तु ग्राह्यभेदक्रमादिरहिता स्वप्रकाशा संविद्रूपा वाक् सा पश्यन्ती-
त्युच्यते तदुक्तम् अविभागा त्विति । अस्यार्थः पश्यन्ती वाच्यां वाच्यावाचकयोर्वि-
भागेनावभासो नास्ति सर्वतश्च सजातीयविजातीयापेक्षायां संहृतो वाच्यानां