सामग्री पर जाएँ
सर्वकोश
वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

पृष्ठ 172, कुल 192 में से

संदर्भ में पढ़ें
पृष्ठ 172

ब्रह्मकाण्डम् ] संस्कृत-हिन्दी व्याख्योपेतम् १४३
यथाहूरत्नकरणे—
शब्दतत्वमघोषा वाग्ब्रह्म कुण्डलिनी ध्रुवम् ।
त्रिधा शक्तिः परा नादो महामायेति दैशिकैः ॥
बिन्दुरेव समाख्यातो व्योमानाहतमित्यपि ।
चतस्रो वृत्तयस्तस्या याभिर्व्याप्तास्त्रिधाणवः ॥
वैखरी मध्यमाभिख्या पश्यन्ती सूक्ष्मसंज्ञिता ।
तत्र सा वैखरी श्रोत्रग्राह्या यार्थस्य वाचिका ॥
स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा। प्रयोक्तॄणामियं प्रायः प्राणवृत्तिनिबन्धना ॥
केवलं बुद्धयुपादाना क्रमादूर्ध्वानुपासिनी। अन्तः संजल्परूपा तु न श्रोत्रमुपसर्पति ॥
प्राणवृत्तिमतिक्रम्य वर्तते मध्यमाह्वया । अविभागेन वर्णानां सर्वतः संहृतक्रमा ॥
स्वयं प्रकाशा पश्यन्ती मयूराण्डरसोपमा। स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी॥
पश्यां दृष्टस्वरूपायामधिकारो निवर्तते । पुरुषे षोडशकले तामाहुरमृतां कलाम् ॥
तामेव वाणीं सूक्ष्मरूपामाहुरात्मविदो जनाः ।
प्रत्यात्मनियता एता वृत्तयो बन्धनात्मिका ॥
आभ्यो विविक्तमात्मानं न हि पश्यन्ति पुद्गलाः ।
यदा वृत्तिशेषेण विलीना चित्तसंतथा ॥
तदा सूक्ष्मा विशुद्धैव चिदाभास्यविवेकतः ॥ इति ।
त्रिधाणवः — उत्तममध्यमाधमभेदेन ज्ञानादिमन्तः। पुद्गलाः — जीवाः । सूक्ष्मा-
परा। यदा वृत्तिरिति । सूक्ष्मा तु अभिधेयबीजत्वेन सर्वभूतेष्ववस्थिता। पश्यन्त्या
अपि कारणभूता चिद्वा अत्यन्तसंश्लेषात् तद्रूपेव भातीत्यर्थः ॥
अभिनवगुप्तपादाचार्यास्तु प्रकाशः विमर्शश्चेति वस्तुद्वयम्। प्रकाश एव शिवः
विमर्शस्तु तस्य स्वातन्त्र्यशक्तिः उमा इति गीयते । अथापि प्रकाशस्य विमर्शाव्य-
तिरेकेण विमर्शस्य प्रकाशाव्यतिरेकेणासत्त्वादेकमेव तद्वयमिति मन्यन्ते। तन्मता-
नुसारिणोऽद्वैतिन इत्युच्यन्