वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 166, कुल 192 में से
संदर्भ में पढ़ेंब्रह्मकाण्डम् ] संस्कृत-हिन्दी-व्याख्योपेतम् १३७
किञ्च-
और-
सैषा संसारिणां संज्ञा बहिरन्तश्च वर्तते ।
तन्मात्रामनतिक्रान्तं चैतन्यं सर्वजन्तुषु ॥ १२६ ॥
सा एषा वाक् संसारिणां संज्ञा इत्युच्यते या बहिः बाह्यस्य लोकव्यवहार-
स्य साधनं या च अन्तः सुखदुःखादिसंविद्रूपा वर्तते यतः सर्वजन्तुषु तन्मात्रां
वाङ्मात्राम् अनतिक्रान्तं चैतन्यं वर्तते न स प्राणिविशेषो यस्य चैतन्ये वाग्रूपानु-
गमो नास्तीत्यर्थः ॥
और, यही वाणी प्राणियों में चेतना शक्ति है जो बाह्य लोक-व्यवहार का साधन है तथा
अन्तःकरण के सुख दुःख का ज्ञान कराती है । क्योंकि ऐसा कोई प्राणी नहीं है जहाँ चे तन
हो और वाङ्मात्रा न हो ॥ १२६ ॥
अयं भावः यावद्वाग्रूपतानुवृत्तिस्तावदेव अन्तः संज्ञा सुखदुःखसंविन्मात्रा
बहिः संज्ञा वाङ्निबन्धना लोकव्यवहारश्च वाग्रूपानुगमाभावे नियतमुत्सीदेत् । अतः-
चैतन्येनाविष्टा नहि काचिज्जातिरस्ति यस्यां स्वपरसम्बोधनानुगमो वाचा न क्रियेत
स्थावरेषु स्वसम्बोधनानुगम एव भवति जङ्गमेषु मनुष्येषु स्वपरसम्बोधनानुगमः । स च
वाचा क्रियते इति चितिक्रिया वाक्परिग्रहरहिता न भवति इत्येके । वागेव चिति-
क्रियारूपा इत्यन्ये ।
यदाहुः-
भेदोद्ग्राहविशेषेण लब्धाकारपरिग्रहा ।
आम्नाता सर्वविद्यासु वागेव प्रकृतिः परा ॥
एकत्वमनतिक्रान्ता वाङ्नेत्रा वाङ्निबन्धनाः ।
पृथक् प्रत्यवभासन्ते वाग्विभागा गवादयः ॥
षड्द्वारां षडधिष्ठानां षडवबोधां षडव्ययाम् ।
ते मृत्युमतिवर्तन्ते ये वै वाचमुपासते ॥ इति ।
अयमर्थः-भिद्यन्त इति भेदाः गवादयः तेषामुद्ग्राहः स्वीकारः तदात्मको
यो विशेषो भेदः तेन लब्ध आकारपरिग्रहो यया यतश्च भावनाकारपरिग्रहेण परा
प्रकृतिस्तच्चैतन्यात्मना विवर्तत इति वाक्चैतन्ययोरभेदः ॥ वाचा नीयन्ते इति
वाङ्नेत्राः शब्दा अर्थाश्च शब्दा अपि वाचमर्थरूपापन्नां प्रतिपादयन्ति तन्निबन्धनाः
गवादय वाग्विभागाः वाचोऽभेदमनतिक्रान्ताः वर्तन्ते ॥ षड्द्वारां-स्वभावचरणा-
भ्यासयोगादृष्टोपपादिताम् । विशिष्टोपहितां चेति प्रतिभां षड्विधां विदुः ॥ इति
षड्विधा प्रतिभाद्वारं प्राप्त्युपायो यस्या वाचश्च बहुधा शक्तयो या हि षड्विधां
प्रतिभां जनयन्ति । ये हि प्रतिभायाम् अर्थाकारास्तेऽस्या अधिष्ठानम् ताश्च प्रतिभा