वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 164, कुल 192 में से
संदर्भ में पढ़ेंसंस्कृत-हिन्दी-व्याख्योपेतम् १३५
यथा अग्नेः प्रकाशकत्वं स्वरूपं यथा वा अन्तर्यामिणश्चैतन्यं स्वरूपं तथा
सर्वबोधस्य शाश्वती नित्या वाग्रूपता वाग्रूपानुषङ्गः यदि उत्क्रामेत् निर्गच्छेत्
चेत् तदा वाग्रूपतायाम सत्यामुत्पन्नोऽपि प्रकाशः न प्रकाशेत् पररूपानङ्गी-
कारेण प्रकाशक्रियासाधनं न स्यात् हि यतः सा वाग्रूपता प्रत्यवमर्शिनी
प्रकाशस्यापि प्रकाशिका व्यवसायप्रकाशकानुव्यवसाय इव । यदाहुः 'इह त्रीणि
ज्योतींषि त्रयः प्रकाशाः स्वरूपपररूपयोगद्योतकाः तद्यथा योऽयं जातवेदाः यश्च
पुरुषेष्वान्तरः प्रकाशः यश्च प्रकाशाप्रकाशयोः प्रकाशयिता शब्दाख्यः प्रकाशः तत्रैत-
त्सर्वमुपनिबद्धं यावत्स्थाष्णु चरिष्णु च' इति । विमर्शः प्रकाशश्चेति तत्त्वद्वयं तत्र
विमर्शः प्रकाशस्य प्रकाशक इति शैवैरङ्गीक्रियते तत्रास्माभिः विमर्शस्थानीया वाग-
भ्युपेयते इति ॥
जैसे अग्नि का प्रकाशकत्व स्वरूप है और आत्मा का स्वरूप चैतन्य है वैसे अवबोध (ज्ञान)
का वाग्रूप होना भी नित्य स्वरूप है । यह यदि कहीं निकल जाय तब उत्पन्न भी प्रकाश
न प्रकाशित हो । क्योंकि वह वाग्रूपता जैसे अनुव्यवसाय व्यवसायात्मक प्रकाशक है वैसे प्रकाश
का भी प्रकाशक है ॥ १२४ ॥
तद्यथा सर्वः प्रत्यय उपजायमान नानुलिखितशब्दक उपजायते शब्दोल्लेखवि-
रहिणोऽनासादितप्रकाशस्वभासस्य प्रत्ययस्यानुत्पत्तिनिर्विशेषत्वात् इदमीदृशमित्या-
दिपरामर्शमुषितशरीरे वेदने वेदनात्मकतैव न स्यात् । येऽपि हि वृद्धव्यवहारोपयो-
गानासादनेनानासादितशब्दार्थसम्बन्धविशेषव्युत्पत्तयो बालदारकप्रायाः प्रमातार-
स्तेऽपि 'तत्' 'सत्' 'किम्' इत्यादि शब्दजातमनुलिखन्तः न प्रतियन्ति किमपि
प्रमेयमतः शब्दोन्मेषप्रभावाप्तप्रकाशस्वभावता सर्वप्रत्ययानाम् इति वाग्रूपाननुगमे
संविदः प्रकाशशून्यतया अनधिगतविषयः सर्व एवान्धमूकप्रायो लोकः स्यात् । नच
स्वप्ने स्मृतौ च वाग्रूपानुगमो नास्तीति भ्रमितव्यम् सूक्ष्मस्य शब्दभावनात्मकस्य
वाग्रूपानुगमस्य तत्राप्यङ्गीकारात् । एवं निर्विकल्पके स्मृतावपि च सूक्ष्मवाग्रूपानुग-
मोऽस्तीति मन्तव्यम् ॥ १२४ ॥
पुनरपि सर्वस्य वाग्रूपत्वे बीजमाह—
सब व्यवहारों के मूल में वाणी ही है क्योंकि -
सा सर्वविद्याशिल्पानां कलानां चोपबन्धनी ।
तद्वशादभिनिष्पन्नं सर्वं वस्तु विभज्यते ॥ १२५ ॥
सा वाक् सर्वविद्याशिल्पानां सर्वासां विद्यानां सर्वेषां शिल्पानां कलानां
चतुःषष्टिकलानां च उपबध्यते अनया उपबन्धनी बोधिका तद्वशात् वाग्रूप-
तावशाद् अभिनिष्पन्नं सर्वं वस्तु समुत्थाप्यमानं विभज्यते अयं घटः अयं पट
इति निरूप्यते । अत एव वाग्व्यवहारेणानुपगृहीतमर्थरूपमसत्ता तुल्यम् आत्यन्तमप्रच-