वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)
Vakyapadiya Brahmakanda of Bhartrihari with Commentary
भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 149, कुल 192 में से
संदर्भ में पढ़ेंखमिति भावः । वर्त्तमानः स्वस्य रूपस्य वृत्त्या एकबुद्धिविषयीभूतार्थविषयक-
बोधेच्छाविशिष्टस्य स्वस्य व्यक्तये प्रकाशाय श्रोतृबोधाय शब्दत्वेन स्थूलशब्दभावेन
विवर्त्तते वृत्तिविशिष्टान्तःकरणस्य शब्दभावापत्तिरेव ज्ञानस्य शब्दभावापत्तिरि-
त्यर्थः । प्रयोक्तृज्ञानस्य शब्देनैवाभिलापसम्भवादिति भावः । केचित्तु —
सूक्ष्मे वागात्मनि स्थिति इति पाठमभिप्रेत्य ज्ञाता जीवः ज्ञानात्मकेऽपि तस्मिन्
ग्रहीतृव्यवहारोऽस्ति यथा शब्दतत्त्वमेवेदं वाङ्मनसाख्यमविभागमिति तेन ज्ञात-
र्यपि वाग्रूपानुवेधः सूक्ष्मे भेदरूपोपसंहारादतीन्द्रिये वागात्मनि स्थितिः व्यक्तये
तस्यामवस्थायां शब्दरूपस्य ज्ञानस्याविवेकेनानवधारणेन शब्दरूपव्यक्त्यर्थं स्थूले-
न्द्रियगम्येन रूपेण विवर्तत इत्यर्थमाहुः । अन्येतु अभेदान्तरं ज्ञानं सूक्ष्मवागा-
त्मना स्थितमिति पाठमभिप्रेत्य