सामग्री पर जाएँ
सर्वकोश
वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

वाक्यपदीयम्: ब्रह्मकाण्ड (भर्तृहरि - शब्दब्रह्म, स्फोट-सिद्धान्त एवं भाषा-दर्शन सटीक)

Vakyapadiya Brahmakanda of Bhartrihari with Commentary

भर्तृहरि (टीकाकार: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished192 पृष्ठ

पृष्ठ 101, कुल 192 में से

संदर्भ में पढ़ें
पृष्ठ 101

७२ वाक्यपदीयम्
'पृथगिव स्थिते' इत्यनेन शक्त्योर्भेद उक्तस्तस्य साम्प्रतमुपयोगमाह—
अतः एकही शब्द संज्ञा और संज्ञी भी बन सकता है। क्योंकि—
भेदेनावगृहीतौ द्वौ शब्दधर्मावपोद्धृतौ ।
भेदकार्येषु हेतुत्वमविरोधेन गच्छतः ॥ ५८ ॥
द्वौ शब्दधर्मौ ग्राह्यग्राहकत्वशक्ती यद्यपि शब्दस्वरूपभूते शक्तिशक्तिमतो-
रभेदात् तथापि अपोद्धृतौ अपोद्धारबुद्ध्या कल्पनया आरोपितभेदौ अतः भेदेना-
वगृहीतौ भिन्नतयाज्ञातौ भेदकार्येषु भेदाधिष्ठानेषु संज्ञासंज्ञिभावेषु अविरोधेन
शब्दभेदमापाद्य विरोधविघटनद्वारा हेतुत्वं गच्छत इत्यर्थः ॥
अयं भावः—लोके देवदत्तशब्दस्य संज्ञात्वं पिण्डस्य च संज्ञित्वं दृष्टमिह तु 'स्वं
रूप'मिति शास्त्रेण अग्निशब्दस्यैव संज्ञात्वं संज्ञित्वं च विरुद्धं कथं बोध्यत इति
शङ्कापरिहाराय यथा राहोः शिर इत्यत्र षष्ठ्युपपादनाय एकस्मिन्नपि वस्तुनि अने-
कावस्थायुक्तशिरसो राहुशब्दार्थत्वं यत्किञ्चिदेकावस्थायुक्तशिरशः शिरः शब्दार्थत्वं
वाश्रित्य शब्दार्थभेदाद्भेदमाश्रित्यावयवावयविभावः एवं ग्राह्यत्वग्राहकत्वशक्तिरूपो-
पाधिकृतमेकस्मिन्नेवाग्निशब्दे भेदमाश्रित्य ग्राह्यत्वशक्तिमतोऽग्निशब्दस्य संज्ञित्वं
ग्राहकत्वशक्तिमतोऽग्निशब्दस्य संज्ञात्वमिति औपाधिकभेदमादाय एकस्मिन्नपि
अग्निशब्दे संज्ञासंज्ञिभावो न विरुध्यत इति ॥ ५८ ॥
जब शब्दमें ग्राह्यत्व और ग्राहकत्व रूप धर्मों की कल्पना करही ली गई और भेदके
रूपमें ज्ञात इन शब्दोंसे जहां भिन्न भिन्न कार्य करना है वहां भी एकही शब्दमें (राहोः शिरः)
की भांति औपाधिक भेद मानने पर बिना विरोधके अनेक धर्मभी कारण बन सकते हैं ॥५८॥
एतदेव स्पष्टयति—
वृद्ध्यादयो यथा शब्दाः स्वरूपोपनिबन्धनाः ।
आदैच्प्रत्यायितैः शब्दैः सम्बन्धं यान्ति संज्ञिभिः ॥५९॥
अग्निशब्दस्तथैवायमग्निशब्दनिबन्धनः ।
अग्निश्रुत्यैति सम्बन्धमग्निशब्दाभिधेयया ॥ ६० ॥
'वृद्धिरादैच्' इत्यादौ यथा वृद्ध्यादयः शब्दाः संज्ञाः स्वरूपमुपनिबध्यते
बोध्यते यैस्ते स्वरूपोपनिबन्धना स्वरूपबोधकाः सन्तः आदैच्प्रत्यायितैः आदै-
च्शब्दबोधितैराकारादिभिः शब्दैः संज्ञिभिः सम्बन्धं तादात्म्यं 'वृद्धिपदाभिन्ना
आदैचः' इत्येवं यान्ति प्राप्नुवन्ति तथैव अग्निशब्दः निबध्यते बोध्यते अनेन इति
अग्निशब्दनिबन्धनः अग्निशब्दरूपस्वस्वरूपबोधकः सूत्रस्थोऽग्निशब्दः अग्निश-
ब्दाभिधेया अग्निशब्दबोध्यया ग्राह्यत्वशक्तिमत्या अग्निश्रुत्या अग्निशब्देन
उच्चरितेन सम्बन्धं तादात्म्यमेति इति सम्बन्धः ॥
जैसे 'वृद्धिरादैच्' इत्यादि सूत्रोंमें 'वृद्धि' आदि शब्द संज्ञा के बोधक हैं और 'आदैच्'