वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
( २२६ ) सिद्धान्तकौमुद्याम्-
कर्णस्य मूलं कर्णजाहम् ॥ पक्षात्तिः । ५ । २ । २५ ॥ मूलग्रहणमात्रमनुवर्तते । पक्षस्य मूलं
पक्षतिः ॥ तेन वित्तश्चुञ्चुप्चणपौ । ५ । २ । २६ ॥ यकारः प्रत्यययोरादौ लुप्तनिर्दिष्ट-
स्तेन चस्य नेत्संज्ञा । विद्यया वित्तौ विद्याचुञ्चुः । विद्याचणः ॥ विन्ञ्भ्यां नानाञौ
नसह । ५ । २ । २७ ॥ असहार्था पृथग्भावे वर्तमानाभ्यां स्वार्थे प्रत्ययौ ॥ विना । नाना ॥
वेः शालच्छङ्कटचौ । ५ । २ । २८ ॥ क्रियाविशिष्टसाधनवाचकात्स्वार्थे ॥ विस्तृतम् । विशा-
लम् । विशङ्कटम् ॥ संप्रोदश्व कटच् । ५ । २ । २९ ॥ सङ्कटम् । प्रकटम् । उत्कटम् ।
चाद्विकटम् ॥ अलाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम् * ॥ अलाबूनां रजः अलाबू-
कटम् ॥ गोष्ठजादयः स्थानादिषु पशुनामभ्यः * ॥ गवां स्थानं गोगोष्ठ
वतुप्त्स्याद्वस्य च घः ॥ कियान् । इयान् ॥ किमः संख्यापरिमाणे डति च ।५।२।
४१ ॥ चाद्वतुप् । तस्य च वस्य घः स्यात् ॥ का संख्या येषां ते कति । कियन्तः ॥
संख्याया अवयवे तयप् ।५।२।४२ ॥ पञ्चावयवा अस्य पञ्चतयं दारु ॥ द्वित्रिभ्यां
तयस्यायज्वा ।५।२ । ४३ ॥ द्वयम् । द्वितयम् । त्रयम् । त्रितयम् ॥ उभा-
दुदात्तो नित्यम् ।५।२।४४ ॥ उभशब्दात्तयपोऽयच् स्यात् स चायुदात्तः ॥ उभयम् ॥
तदस्मिन्नधिकमिति दशान्ताड्डः ।५ । २ । ४५ ॥ एकादश अधिका अस्मिन्नेकाद-
शम् ॥ शतसहस्रयोरेवेष्यते * ॥ नेह । एकादश अधिका अस्यां विंशतौ ॥ प्रकृति-
प्रत्ययार्थयोः समानजातीयत्व एवेष्यते * ॥ नेह । एकादश माषा अधिका अस्मिन्
सुवर्णशते ॥ षडन्तविंशतेश्च ।५।२
( २२५ ) सिद्धान्तकौमुद्याम्-
शतादिमासार्धमाससंवत्सराच्च । ५ । २ । ५७ ॥ शतस्य पूरणः शततमः । एकश-
ततमः ॥ मासादेरत एव डट् । मासतमः ॥ षष्ट्यादेश्चाऽसंख्यादेः । ५ । २ । ५८ ॥
षष्टितमः । संख्यादेस्तु 'विंशत्यादिभ्य' इति विकल्प एव । एकषष्टः । एकषष्टितमः ॥
मतौ छः सूक्तसाम्नोः । ५ । २ । ५९ ॥ मत्वर्थे छः स्यात् ॥ अच्छावाकशब्दोऽस्मिन्नस्ति
अच्छावाकीयं सूक्तम् । वारवन्तीयं साम ॥ अध्यायानुवाकयोर्लुक् । ५ । २।६० ॥
मत्वर्थस्य छस्य ॥ अत एव ज्ञापकात्तत्र छः । विधानसामर्थ्याच्च विकल्पेन लुक् ॥ गर्द-
भाण्डः । गर्दभाण्डीयः ॥ Aविमुक्तादिभ्योऽण् । ५।२।६१ ? ॥ मत्वर्थेऽण् स्यादध्यायानु-
वाक्ययोः ॥ विमुक्तः शब्दोऽस्मिन्नस्ति वैमुक्तः । दैवासुरः ॥ Bगोषदादिभ्यो वुन् । ५ । २।
६२ ॥ मत्वर्थेऽध्यायानुवाकयोः ॥ गोषदकः । इषेत्वकः ॥ तत्र कुशलः पथः । ५ । २ ।
६३ ॥ वुन् स्यात् ॥ पथि कुशलः पथकः ॥ Cआकर्षादिभ्यः कन् । ५ । २।६४ ॥
आकर्षे कुशल आकर्षकः । आकषादिभ्य इति रेफरहितो मुख्यः पाठः । आकषो निक-
षोपलः ॥ धनहिरण्यात्कामे । ५ । २ । ६५ ॥ काम इच्छा । धने कामो धनको देवद-
त्तस्य । हिरण्यकः ॥ स्वाङ्गेभ्यः प्रसिते । ५ । २ । ६६ ॥ केशेषु प्रसितः केशकः । तद्र-
चनायां तत्पर इत्यर्थः ॥ उदराट्ठगाच्यूने । ५ । २ । ६७ ॥ अविजिगीषौ ठक् स्यात् ।
कनोऽपवादः ॥ बुभुक्षयात्यन्तपीडित उदरे प्रसित औदरिकः ॥ आच्यूने किम् ? उदरकः ।
उदरपरिमार्जनादौ प्रसक्त इत्यर्थः ॥ सस्येन परिजातः । ५ । २ । ६८ ॥ कन् स्वर्यते नतु
ठक् ॥ सस्यशब्दो गुणवाची नतु धान्यवाची ॥ शस्येनेति पाठान्तरम् ॥ सस्येन गुणेन
परिजातः संबद्धः सस्यकः साधुः ॥ अंशं हारी । ५ । २ । ६९ ॥ हारीत्यावश्यके णिनिः ।
अत एव तद्योगे षष्ठी न । अंशको दायादः ॥ तन्त्रादचिरापहृते । ५ । २।७० ॥ तन्त्रकः
पटः । प्रत्यग्र इत्यर्थः ॥ ब्राह्मणकोष्णिके संज्ञायाम् । ५ । २ । ७१ ॥ आयुधजीविनो
ब्राह्मणा यस्मिन्देशे स ब्राह्मणकः । अल्पमन्नं यस्यां सा उष्णिका यवागूः । अन्नशब्दस्य
उष्णादेशो निपात्यते ॥ शीतोष्णाभ्यां कारिणि । ५ । २ । ७२ ॥ शीतं करोतीति
शीतकोऽलसः । उष्णं करोतीति उष्णकः शीघ्रकारी ॥ अधिकम् । ५ । २।७३ ॥ अध्या-
रूढशब्दात्कन् उत्तरपदलोपश्च ॥ अनुकाभिकाभीकः कमिता । ५ । २ । ७४ ॥ अन्व-
A विमुक्त, दैवासुर, रक्षोसुर, उपसद्, सुवर्ण, परिसारक, सदसत, वस्तु, मरुत, पत्नीवत्, वसुमत,
महीयत्व, सत्त्ववत, बर्हिवत, दशार्ण, दशार्ह, वयसु, हविर्धान, पतत्रिन्, महित्री, अस्वहत्य, सोमापूषन्,
इडा, अग्नाविष्णू, उर्वशी, वृत्रहन् । इति विमुक्तादिः ॥
B गोषद, इषेत्वा, मातरिश्वनः, देव्यत्वा, देवीरापः, कृष्णोस्याखरेष्ठः, दैवीं धियम्, रक्षोहण, युञ्जान,
अञ्जन्, प्रभूत, प्रतूर्तं, कृशानु । इति गोषदादिः ॥
C आकर्ष ( आकष ), त्सरु, पिशाच, पिचण्ड, अशनि, अश्मन्, निचाय, चय, विजय, जय, आचय,
नय, पाद, दीप, हृद, हाद, गद्गद, शकुनि । इत्याकर्षादिः ॥
१ अध्यारूढो द्रोणः खारीमिति अधिकः खार्या द्रोणः । अधिका खारी द्रोणेन । इत्यधिकः कचित् पाठः ॥
भिम्यां कन् । अभेः पाक्षिको दीर्घश्च ॥ अनुकामयते अनुकः । अभिकामयते अभिकः ।
अभीकः ॥ पार्श्वेनान्विच्छति । ५ । २ । ७५ ॥ अनृजुरुपायः पार्श्वं तेनान्विच्छति पा-
र्श्वकः ॥ अयःशूलदण्डाजिनाभ्यां ठक्ठञौ । ५ । २ । ७६ ॥ तीक्ष्ण उपायोऽयःशूलं
तेनान्विच्छति आयःशूलिकः साहसिकः । दण्डाजिनं दम्भः तेनान्विच्छति दाण्डाजि-
निकः ॥ तावतिथं ग्रहणमिति लुग्वा । ५ । २ । ७७ ॥ कन् स्यात्पूरणप्रत्ययस्य च
लुग्वा ॥ द्वितीयकं द्विकं वा ग्रहणं देवदत्तस्य । द्वितीयेन रूपेण ग्रहणमित्यर्थः ॥ तावतिथेन
गृह्णातीति कन्वक्तव्यो नित्यं च लुक् * ॥ षष्ठेन रूपेण गृह्णाति षट्को देवदत्तः । पञ्चकः॥
स एषां ग्रामणीः । ५ । २ । ७८ ॥ देवदत्तो मुख्यो येषां ते देवदत्तकाः । त्वत्काः ।
( २३० ) सिद्धान्तकौमुद्याम्-
अथ मतुबर्थीयप्रकरणम् ।
तदस्यास्त्यस्मिन्निति मतुप् ॥ ५।२।९४ ॥ गावोऽस्यास्मिन्वा सन्ति गोमान् ॥ भूमनि-
न्दाप्रशंसासु नित्ययोगेऽतिशायने ॥ संबन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥ १ ॥ Aरसा-
दिभ्यश्च ॥ ५।२।९५ ॥ मतुप् ॥ रसवान् । रूपवान् ॥ अन्यमतुबर्थीयनिवृत्त्यर्थं वचनम् ॥
रस, रूप, वर्ण, गन्ध, स्पर्श, शब्द, स्नेह, गुणात् ॥ गुणग्रहणं रसादीनां विशेषणम् ॥
एकाचः ॥ स्ववान् ॥ तसौ मत्वर्थे । १।४।१९ ॥ तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये
परे । वसोः संप्रसारणम् । विदुष्मान् ॥ गुणवचनेभ्यो मतुपो लुगिष्टः * ॥ शुक्लो गुणो-
ऽस्यास्तीति शुक्लः पटः । कृष्णः ॥ Bमादुपधायाश्च मतोर्वोऽयवादिभ्यः । ८।२।९ ॥ मवर्णा-
द्वर्णात्तान्मवर्णावर्णोपधायाश्च यवादिवर्जितात्परस्य मतोर्मस्य वः स्यात् । किंवान् । ज्ञानवान् ।
विद्यावान् । लक्ष्मीवान् । यशस्वान् । भास्वान् ॥ यवादेस्तु-यवमान् । भूमिमान् ॥ झयः ।
८।२।१० ॥ झयन्तान्मतोर्मस्य वः स्यात् ॥ अपदान्तत्वान्न जश्त्वम् । विद्युत्वान् ॥ संज्ञा-
याम् । ८।२।११ ॥ मतोर्मस्य वः स्यात् ॥ अहीवती । मुनीवती । शरदीनां चेति दीर्घः ॥
आसन्दीवद्दष्ठीवच्चक्रीवत् [ ५कक्षीवद् ] रुमण्वच्चर्मण्वती । ८।२।१२ ॥ एते षट् संज्ञायां
निपात्यन्ते । आसन्नशब्दस्यासन्दीभावः । आसन्दीवान् ग्रामः । अन्यत्रासन्नवान् ॥ अस्थिश-
ब्दस्याष्ठीभावः । अष्ठीवान् नाम ऋषिः । अस्थिमानन्यत्र ॥ चक्रशब्दस्य चक्रीभावः । चक्री-
वान्नाम राजा । चक्रवानन्यत्र ॥ [ ६कक्ष्यायाः संप्रसारणम् । कक्षीवान्नाम ऋषिः । कक्ष्यावान-
न्यत्र ] ७लवणशब्दस्य रुमणभावः । रुमण्वान्नाम पर्वतः । लवणवानन्यत्र ॥ चर्मणो नलोपाभावो
णत्वं च । चर्मण्वती नाम नदी चर्मवत्यन्यत्र ॥ उदन्वानुदधौ च । ८।२।१३ ॥ उद-
कस्य उदन्भावो मतौ उदधौ संज्ञायां च । उदन्वान् समुद्रः ऋषिश्च ॥ राजन्वान् सौ-
राज्ये । ८।२।१४ ॥ राजन्वती भूः । राजवानन्यत्र ॥ प्राणिस्थादातो लजन्यतर-
स्याम् । ५।२।९६ ॥ चूडालः । चूडावान् ॥ प्राणिस्थात्किम्? शिखावान्दीपः ॥ अतः किम् ?
हस्तवान् ॥ प्राण्यङ्गादेव । नेह-मेधावान् । प्रत्ययस्वरेणैव सिद्धे अन्तोदात्तत्वे चूडालोऽसी-
A अयं गणो मूल एवोक्तः ॥
B यव, दल्मि, ऊर्मि, भूमि, कृमि, कुञ्चा, वशा, द्राक्षा, त्राक्षा, ऋजि, व्रजि, ध्वजि, निजि, सञ्जि,
हरित्, ककुद्, मरुत्, गरुत्, इक्षु, द्रु, मधु, । आकृतिगणोऽयं यवादिः ॥
१ यवमान् । ककुदावर्तिनी कन्या । रूपवान् । क्षीरिणो वृक्षाः । उदारिणी कन्या । दण्डी । मतुबर्थानां
भूमादीनां क्रमेणोदाहरणानि ॥ २ रसिको नटः 'उर्वशी वै रूपिण्यप्सरसाम्' 'स्पर्शीको वायुः' इत्यादा-
वन्यस्यापि प्रत्ययस्य दर्शनात्प्रत्याख्यातं भाष्यकृता ॥ ३ तेन जलादिवाचकेभ्यो रसादिभ्यो द्रव्यवचनगन्धा-
दिभ्यश्च नेति भावः ॥ ४ 'एकाचः' इति गणसूत्रमुदाहरति-स्ववानिति ॥ ५-६ 'कोष्ठकान्तर्गतो-
ऽत्रापाठः' इति 'न संप्रसारणे' इति सूत्रभाष्यप्रामाण्यतोऽवगम्यते ॥ ७ 'रुमा स्त्री लवणाकरः' इति
कोशे 'सीमा' इतिवद् डाबन्तन्कारान्तयोर्निर्देशस्त्यैवेष्टसाधकत्वेन रुमन् शब्दे नलोपाभावनत्वे निपात्येते इत्येव
तूचितम् ॥ ८ अत्रापि 'पद्दनः' इत्युदकस्योदन्नादेशे सिद्धे नलोपाभावमात्रं राजन्वच्छब्द इव निपात्यते
-इत्येव तत्त्वम् ॥
स्यादौ ‘स्वरितो वानुदात्ते पदादाविति स्वरितवावनार्थश्चकारः॥ ^Aसिध्मादिभ्यश्च ।५।२।९७॥
लच्वा स्यात् ॥ सिध्मलः । सिध्मवान् । अन्यतरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते नतु प्रत्यय-
विकल्पार्थम् । तेनाकारान्तेभ्य इनिठनौ न । वातदन्तवलललाटानामूङ् च ॥ वातूलः ॥
वत्सांसाभ्यां कामबले ।५।२।९८ ॥ आभ्यां लच्वा स्याद्यथासंख्यं कामवति बलवति चार्थे ॥
वत्सलः । अंसलः ॥ फेनादिलच्च ।५।२।९९ ॥ चालच्च । अन्यतरस्यांग्रहणं मतुप्समुच्च-
यार्थमनुवर्तते ॥ फेनिलः । फेनलः । फेनवान् ॥ ^Bलोमादिपामा^Cदिपिच्छा^Dदिभ्यः शने-
लचः ।५।२।१०० ॥ लोमादिभ्यः शः ॥ लोमशः । लोमवान् । रोमशः रोमवान् ॥ पामा-
दिभ्यो नः । पामनः ॥ अङ्गात्
ख्यानम् * ॥ खरः । मुखरः । कुञ्जो हस्तिहनुः, कुञ्जरः ॥ नगपांसुपाण्डुभ्यश्च * ॥
नगरम् । पांसुरः । पाण्डुरः । पाण्डरशब्दस्तु अव्युत्पन्न एव ॥ कच्छ्वा ह्रस्वत्वं च
कच्छुरः ॥ द्युद्रुभ्यां मः । ५ । २ । १०८ ॥ द्युमः । द्रुमः ॥ केशाद्वोऽन्य-
तरस्याम् । ५ । २ । १०९ ॥ प्रकृतेनान्यतरस्यांग्रहणेन मतुपि सिद्धे पुनर्ग्रहणमिनिठन्योः
समावेशार्थम् । केशवः । केशी । केशिकः । केशवान् ॥ अन्येभ्योऽपि दृश्यते * ॥ मणिवो
नागविशेषः । हिरण्यवो निधिविशेषः ॥ अर्णसो लोपश्च * ॥ अर्णवः ॥ गाण्ड्यजग-
त्संज्ञायाम् । ५।२।११०॥ ह्रस्वदीर्घयोरेणा तन्त्रेण निर्देशः ॥ गाण्डिवम्—गाण्डीवम्
अर्जुनस्य धनुः । अजगवं पिनाकः ॥ काण्डाण्डादीरन्नीरचौ । ५ । २ । १११ ॥ का-
ण्डीरः । आण्डीरः ॥ रजःकृष्यासुतिपरिषदो वलच् । ५।२।११२ ॥ रजस्वला
स्त्री । कृषीवलः—'वले' इति दीर्घः । आसुतीवलः शौण्डिकः । परिषद्वलः । पर्षदिति पाठा-
न्तरम् । पर्षद्वलम् ॥ अन्येभ्योऽपि दृश्यते * ॥ आतृवलः । पुत्रवलः । शत्रुवलः 'वले'
इत्यत्र संज्ञायामित्यनुवृत्तेर्नेह दीर्घः ॥ दन्तशिखात्संज्ञायाम् । ५।२।११३ ॥ दन्तावलो
हस्ती । शिखावलः केकी ॥ ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्म-
लिनमलीमसाः । ५।२।११४ ॥ मत्वर्थे निपात्यन्ते ॥ ज्योतिष उपधालोपो नश्च
प्रत्ययः ॥ ज्योत्स्ना ॥ तमस उपधाया इत्वं रश्च । तमिस्रा । स्त्रीत्वमतन्त्रम् ॥ शृङ्गादिनच् ।
शृङ्गिणः ॥ ऊर्जसो वलच् । तेन बाधा मा भूदिति विनिरपि । ऊर्जस्वी । ऊर्जस्वलः । ऊर्जोऽ-
सुगागम इति वृत्तिस्तु चिन्त्या । ऊर्जस्वतीतिवदसुन्नन्तेनैवोपपत्तेः ॥ गोशब्दान्मिनिः । गोमी ॥
मलशब्दादिनच्
तद्धितेषु मत्वर्थीयप्रकरणम् । (२३३)
काङ्क स्यान्मत्वर्थे ॥ नैष्कशतिकः । नैष्कसहस्रिकः ॥ रूपादाहतप्रशंसयोर्यप् ।५।२।
१२० ॥ आहतं रूपमस्यास्तीति रूप्यः कार्षापणः । प्रशस्तं रूपमस्यास्तीति रूप्यो गौः ॥
आहतेति किम् ? रूपवान् ॥ अन्येभ्योऽपि दृश्यते * ॥ हिम्याः पर्वताः । गुण्या ब्राह्मणाः ॥
अस्मायामेधास्रजो विनिः ।५।२।१२१ ॥ यशस्वी । यशस्वान् । मायावी । माया-
वान् । व्रीह्यादिपाठादिनिठनौ । मायी । मायिकः । क्विन्नन्तत्वात्कुः । स्रग्वी ॥ आमयस्योप-
संख्यानं दीर्घश्च * ॥ आमयावी ॥ शृङ्गवृन्दाभ्यामारकन् * ॥ शृङ्गारकः । वृन्दारकः ॥
फलवर्हिभ्यामिनच् * ॥ फलिनः । बर्हिणः ॥ हृदयाच्चालुरन्यतरस्याम् * ॥ इनूठनौ
मतुप् च ॥ हृदयालुः । हृदयी । हृदयिकः । हृदयवान् ॥ शीतोष्णतृप्रेभ्यस्तदसहने * ॥
शीतं न सहते शीतालुः । उष्णालुः । स्फायितञ्चीति रक् । तृप्रः पुरोडाशः तं न सहते
तृप्रालुः । तृप्रं दुःखमिति माधवः ॥ हिमाच्चेलुः * ॥ हिमं न सहते हिमेलुः ॥ बलादूलः * ॥
बलं न सहते बद्दूलः ॥ वातात्समूहे च * ॥ वातं न सहते वातस्य समूहो वा वातूलः ॥
तप्पूर्वमरुद्वच्चाम् * ॥ पर्वतः । मरुत्तः ॥ ऊर्णाया युस् ।५।२।१२३ ॥ सित्त्वात्पदत्वम् ।
ऊर्णायुः । अत्र छन्दसीति केचिदनुवर्तयन्ति । युक्तं चैतत् । अन्यथा हि 'अंशुशममोरित्यत्रैवो-
र्णाग्रहणं कुर्यात् ॥ वाचो ग्मिनिः ।५।२।१२४ ॥ वाग्मी ॥ आलजाटचौ बहुभा-
षिणि ।५।२।१२५ ॥ कुत्सित इति वक्तव्यम् * ॥ कुत्सितं बहु भाषते वाचालः ।
वाचाटः । यस्तु सम्यग्बहु भाषते स वाग्मीत्येव ॥ स्वामिन्नैश्वर्ये । ५ । २। १२६ ॥ ऐश्वर्य-
वाचकात्स्वशब्दान्मत्वर्थे आमिनच् ॥ स्वामी ॥ ᴬअर्शआदिभ्योऽच् ।५।२।१२७ ॥ अर्शा-
स्यस्य विद्यन्ते अर्शसः । आकृतिगणोऽयम् ॥ द्वन्द्वोपतापगर्ह्यात्प्राणिस्थादिनिः
।५।२।१२८ ॥ द्वन्द्वः–कटकवलयिनी । शङ्खनूपुरिणी । उपतापो रोगः–कुष्ठी । किलासी ।
गर्ह्यं निन्द्यम्–ककुदावर्ती । काकतालूकी ॥ प्राणिस्थात्किम् ? पुष्पफलवान्वटः ॥ प्राण्य-
ङ्गाच्च * ॥ पाणिपादवती ॥ अत इत्येव । चित्रकलालाटिकावती । सिद्धे प्रत्यये पुनर्वचनं ठना-
दिबाधनार्थम् ॥ वातातीसाराभ्यां कुक् च ।५।२।१२९ ॥ चादिनिः । वातकी ।
अतीसारकी ॥ रोगे चायमिष्यते * ॥ नेह–वातवती गुहा ॥ पिशाचाच्च * ॥ पिशा-
चकी ॥ वयसि पूरणात् ।५।२।१३० ॥ पूरणप्रत्ययान्तान्मत्वर्थे इनिः स्याद्वयसि
द्योत्ये ॥ मासः संवत्सरो वा पञ्चमोऽस्यास्तीति पञ्चमी उष्ट्रः । टन्बाधनार्थमिदम् ॥ वयसि
किम् ? पञ्चमवान् ग्रामः ॥ ᴮसुखादिभ्यश्च ।५।२।१३१ ॥ इनिर्मत्वर्थे ॥ सुखी । दुःखी ।
माला क्षेपे ॥ माली ॥ धर्मशीलवर्णान्ताच्च ।५।२।१३२ ॥ धर्माद्यन्तादिनिर्मत्वर्थे ॥
ब्राह्मणधर्मी । ब्राह्मणशैली । ब्राह्मणवर्णी ॥ हस्ताज्जातौ ।५।२।१३३ ॥ हस्ती ॥ जातौ
˙A अर्शस्, उरस्, तुन्द, चतुर, पलित, जटा, घटा, घाटा, अघ, कर्दम, अम्ल, लवण, 'स्वाङ्गाद्धीनात्'
वर्णात् । अर्शआदिराकृतिगणः ॥
B सुख, दुःख, तृप्त, कृच्छ्र, अह्न, आह्व, अलीक, करुण, कठण, सोढ, प्रतीप, शील, हल, 'माला क्षेपे,'
कृपण, प्रणय, दल, कक्ष । इति सुखादिः ॥
( ३३४ ) सिद्धान्तकौमुद्याम्-
किम् ? हस्तवान्पुरुषः ॥ वर्णाद्ब्रह्मचारिणि ५।२।१३४ ॥ वर्णी ॥ $^A$पुष्करादिभ्यो
देशे । ५।२।१३५ ॥ पुष्करिणी । पद्मिनी ॥ देशे किम् ? पुष्करवान्करी ॥ बाहुरूपपूर्वपदा-
द्बलात् * ॥ बाहुबली । ऊरुबली ॥ सर्वादेश्च * ॥ सर्वधनी । सर्वबीजी ॥ अर्थाच्चासन्नि-
हिते * ॥ अर्थी । संनिहिते तु अर्थवान् ॥ तदन्ताच्च * ॥ धान्यार्थी । हिरण्यार्थी ॥ $^B$बला-
दिभ्यो मतुबन्यतरस्याम् । ५ । २ । १३६ ॥ बलवान् । उत्साहवान् । उत्साही ॥
संज्ञायां मन्मभ्याम् । ५ । २।१३७ ॥ मन्नन्तान्मान्ताच्चेन्निर्मत्वर्थे ॥ प्रथमिनी । दामिनी ।
होमिनी । सोमिनी ॥ संज्ञायां किम् ? सोमवान् ॥ कंशंभ्यां बभयुस्तितुतयसः । ५ । २ ।
१३८ ॥ कंशमिति मान्तौ । कमित्युदकसुखयोः । श
तद्धितेषु विभक्तिसंज्ञकप्रकरणम् । (२३५)
ततः । अतः । इतः । अमुतः । बहुतः । द्व्यादेस्तु—द्वाभ्याम् ॥ तसेश्च । ५ । ३ । ८ ॥
किंसर्वनामबहुभ्यः परस्य तसेस्तसिलादेशः स्यात् । स्वार्थे विभक्त्यर्थे च वचनम् ॥ पर्य-
भिभ्यां च । ५।३।९ ॥ आभ्यां तसिल् स्यात् ॥ सर्वोभयार्थाभ्यामेव * ॥ परितः । सर्वत
इत्यर्थः । अभितः । उभयत इत्यर्थः ॥ सप्तम्यास्त्रल् । ५ । ३ । १० ॥ कुत्र । यत्र । तत्र ।
बहुत्र ॥ इदमो हः । ५।३।११ ॥ त्रलोऽपवादः ॥ इशादेशः । इह ॥ किमोऽत् । ५।३।
१२ ॥ वाग्रहणमपकृष्यते । सप्तम्यन्तात्किमोऽद्वा स्यात्पक्षे त्रल् ॥ क्वाति । ७ । २ । १०५ ॥
किमः क्वादेशः स्यादति ॥ क्व । कुत्र ॥ वा ह च छन्दसि । ५।३।१३ ॥ कुह स्थः कुह
जग्मथुः ॥ एतदस्त्रतसोरेतस्रौ चानुदात्तौ । २ । ४ । ३३ ॥ अन्वादेशविषये एतदोऽश्
स्यात्स चानुदात्तस्त्रतसोः परतः तौ चानुदात्तौ स्तः ॥ एतस्मिन् ग्रामे सुखं वत्स्यामः । अथो अत्रा-
धीमहे । अतो न गन्तास्मः ॥ इतराभ्योऽपि दृश्यन्ते । ५ । ३ । १४ ॥ पञ्चमीसप्तमीतर-
विभक्त्यन्तादपि तसिलादयो दृश्यन्ते ॥ दृशिग्रहणाद्भवदादियोग एव । स भवान् । ततो
भवान् । तत्र भवान् । तं भवन्तम् । ततो भवन्तम् । तत्र भवन्तम् । एवं दीर्घायुः । देवो-
नांप्रियः । आयुष्मान् ॥ सर्वैकान्यकिंयत्तदः काले दा । ५ । ३ । १५ ॥ सप्तम्यन्तेभ्यः
कालार्थेभ्यः स्वार्थे दा स्यात् ॥ सर्वस्मिन्काले सदा । सर्वदा । एकदा । अन्यदा । कदा ।
यदा । तदा । काले किम् ? सर्वत्र देशे ॥ इदमो हिल् । ५ । ३ । १६ ॥ सप्तम्यन्तात्काले
इत्येव । हस्यापवादः ॥ अस्मिन्काले एतर्हि ॥ काले किम् ? इह देशे ॥ अधुना । ५।३।
१७ ॥ इदमः सप्तम्यन्तात्कालवाचिनः स्वार्थेऽधुनाप्रत्ययः स्यात् ॥ इश् । यस्येति लोपः ।
अधुना ॥ दानीं च । ५।३।१८ ॥ इदानीम् ॥ तदो दा च । ५ । ३ । १९ ॥ तदा । तदा-
नीम् । तदो दावचनमनर्थकं विहितत्वात् * ॥ अनद्यतने हिलन्यतरस्याम् । ५।३।२१ ॥
कर्हि । कदा । यर्हि । यदा । तर्हि । तदा । एतस्मिन्काले एतर्हि ॥ सद्यःपरुत्परार्यै-
षमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः । ५।३।२२ ॥
एते निपात्यन्ते ॥ समानस्य सभावो द्यस् चाहनि * ॥ समानेऽहनि सद्यः ॥
पूर्वपूर्वतरयोः परः उदारौ च प्रत्ययौ संवत्सरे * ॥ पूर्वस्मिन्संवत्सरे परुत् । पूर्वतरे वत्सरे
परारि ॥ इदम इश् समसण् प्रत्ययश्च संवत्सरे * ॥ अस्मिन्संवत्सरे ऐषमः ॥ परस्मादेद्य-
व्यहनि * ॥ परस्मिन्नहनि परेद्यवि ॥ इदमोऽश् द्यश्च * ॥ अस्मिन्नहनि अद्य । पूर्वादिभ्योऽ-
ष्टभ्योऽहन्येद्युसुच् * ॥ पूर्वस्मिन्नहनि पूर्वेद्युः । अन्यस्मिन्नहनि अन्येद्युः । उभयोरह्णोरुभयेद्युः ।
द्युश्चोभयाद्वक्तव्यः * ॥ उभयद्युः ॥ प्रकारवचने थाल् । ५।३।२३ ॥ प्रकारवृत्तिभ्यः
किमादिभ्यस्थाल् स्यात्स्वार्थे ॥ तेन प्रकारेण तथा । यथा ॥ इदमस्थमुः । ५।३।२४ ॥
१ दीर्घायुरायुष्मतोर्मध्येपाठाद् ‘देवानांप्रियः’ शब्दो दीर्घायुःपर्याय एव । न मूर्खपर्यायः । अत एव
‘प्रतिज्ञो भवान् देवानांप्रियः न त्विष्टिज्ञः’ इति सूतवाक्ये ‘दीर्घायुरपि भवान् इष्टिज्ञो न’ इति
वैयाकरणहास्यं संगच्छते ॥
...)? Wait, Panini 5.3.45: द्वित्र्योश्च धमुञ्. Vartika: धमुञन्तात्स्वार्थे डदर्शनम्? Wait, from द्वैधम् -> द्वैधम् + ड = द्वैधम्? Or द्वैधम् + कन् = द्वैधकम्? Wait, the Mahabhashya says: "धमुञन्तात्स्वार्थे डदर्शनम्" or "कदर्शनम्"? No, धमुञन्तात्स्वार्थे डप्रत्ययो वक्तव्यःor something? No,डदर्शनम्! Look at the text: डदर्शनम् * ॥ पथिYes, it literally saysडदर्शनम् * ॥ पथि`.
Wait, in line 26:
स्यात् चादाच् ॥ दक्षिणाद्दि । दक्षिणा ॥
Wait, let's write दक्षिणाद्दि as printed (it clearly has द्दि).
Everything is verified and ready.( २३६ ) सिद्धान्तकौमुद्याम्-
थालोऽपवादः ॥ एतदोपि वाच्यः * ॥ अनेन एतेन वा प्रकारेण इत्थम् ॥ किमश्च । ५ ।
३।२५ ॥ केन प्रकारेण कथम् ॥
इति विभक्तिसंज्ञकप्रकरणम् ।
अथ प्रागिवीयप्रकरणम् ।
An exact, line-by-line transcription of the page into pure Markdown in Unicode Devanagari:
द्वैधानि ॥ एधाच्च ।५।३।४६॥ द्वेधा । त्रेधा ॥ याप्ये पाशप् ।५।३।४७॥ कुत्सितो
भिषक् भिषक्पाशः ॥ पूरणाद्भागे तीयादन् ।५।३।४८॥ द्वितीयो भागो द्वितीयः ।
तृतीयः । स्वरे विशेषः ॥ तीयादीकक् स्वार्थे वाच्यः *॥ १ द्वैतीयीकः । द्वितीयः । तार्ती-
यीकः । तृतीयः ॥ २ न विद्यायाः *॥ द्वितीया । तृतीया । विद्येत्येव ॥ प्रागेकादशभ्योऽ-
छन्दसि ।५।३।४९॥ पूरणप्रत्ययान्ताद्भागेऽन् ॥ चतुर्थः । पञ्चमः ॥ षष्ठाष्टमाभ्यां
ञ च ।५।३।५०॥ चादन् ॥ षष्ठो भागः षाष्ठः षष्ठः । आष्टमः । अष्टमः ॥ मान-
पश्वङ्कयोः कन्लुकौ च ।५।३।५१॥ षष्ठाष्टमशब्दाभ्यां क्रमेण कन्लुकौ स्तो माने
[
( २३८ ) सिद्धान्तकौमुद्याम्-
नेदिष्ठः । नेदीयान् । साधिष्ठः । साधीयान् ॥ स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणा-
दिपरं पूर्वस्य च गुणः ।६।४।१५६ ॥ एषां यणादिपरं लुप्यते, पूर्वस्य च गुण इष्ठा-
दिषु ॥ स्थविष्ठः । दविष्ठः । यविष्ठः । ह्रसिष्ठः । क्षेदिष्ठः । क्षोदिष्ठः । एवमीयसुन् । ह्रस्वक्षि-
प्रक्षुद्राणां पृथ्वादित्वात् ह्रसिमा । क्षेपिमा । क्षोदिमा ॥ प्रियस्थिरस्फिरोरुबहुलगुरुवृद्ध-
तृप्रदीर्घवृन्दारकाणां प्रस्थस्फवबंहिगर्षिव्रप्रद्राघिवृन्दाः ।६।४।१५७ ॥ प्रियादीनां
क्रमात्प्रादयः स्युरिष्ठादिषु ॥ प्रेष्ठः । स्थेष्ठः । स्फेष्ठः । वरिष्ठः । बंहिष्ठः । गरिष्ठः ।
वर्षिष्ठः । त्रपिष्ठः । द्राघिष्ठः । वृन्दिष्ठः ॥ एवमीयसुन् । प्रेयान् ॥ प्रियोरुबहुलगुरुदीर्घाणां
पृथ्वादित्वात्प्रेमेत्यादि ॥ बहोलोंपो भू च बहोः ।६।४।१५८ ॥ बहोः परयोरिमेयसो-
र्लोपः स्याद्वहोश्च भूरादेशः ॥ भूमा । भूयान् ॥ इष्ठस्य यिट् च ।६।४।१५९ ॥ बहोः
परस्य इष्ठस्य लोपः स्यात् यिडागमश्च ॥ भूयिष्ठः ॥ युवालपयोः कनन्यतरस्याम् ।५।
३।६४ ॥ एतयोः कनादेशो वा स्यादिष्टेयसोः ॥ कनिष्ठः । कनीयान् ॥ पक्षे यविष्ठः ।
अल्पिष्ट इत्यादि ॥ विन्मतोर्लुक् ।५।३।६५ ॥ विनो मतुपश्च लुक् स्यादिष्टेयसोः ॥
अतिशयेन स्रग्वी स्रजिष्ठः । स्रजीयान् । अतिशयेन त्वग्वान् त्वचिष्ठः । त्वचीयान् ॥ प्रशं-
सायां रूपप् ।५।३।६६ ॥ सुबन्तात्तिङन्ताच ॥ प्रशस्तः पटुः पटुरूपः । प्रशस्तं पचति
पचतिरूपम् ॥ ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ।५।३।६७ ॥ ईषदूनो विद्वान्
विद्वत्कल्पः । यशस्कल्पम् २ । यजुष्कल्पम् ३ । विद्वद्देश्यः । विद्वद्देशीयः । पचतिकल्पम् ॥
विभाषा सुपो बहुच् पुरस्तात्तु । ५ । ३ । ६८ ॥ ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताद्ब-
हुच्वा स्यात्स च प्रागेव नतु परतः ॥ ईषदूनः पटुर्बहुपटुः । पटुकल्पः ॥ सुपः किम् ?
पचतिकल्पम् ॥ प्रकारवचने जातीयर् ।५।३।६९ ॥ प्रकारवति चायम् । थाल् तु
प्रकारमात्रे ॥ पटुप्रकारः । पटुजातीयः ॥ प्रागिवात्कः ।५।३।७० ॥ 'इवे प्रतिकृतावित्यतः
प्राक् काधिकारः ॥ अव्ययसर्वनाम्नाकच् प्राक् टेः । ५ । ३ । ७१ ॥ 'तिङश्चेत्यनुव-
र्त्तते ॥ कस्य च दः । ५ । ३ । ७२ ॥ कान्ताव्ययस्य दकारोऽन्तादेशः स्यादकच्च ॥ अज्ञाते
।५।३।७३ ॥ कस्यायमश्वोऽश्वकः । उच्चकैः । नीचकैः । सर्वके । विश्वके ॥ ओकारसकार-
भकारादौ सुपि सर्वनाम्नष्टेः प्रागकच् * ॥ युवकयोः । आवकयोः । युष्मकासु ।
४ अस्मकासु । युष्मकाभिः । अस्मकाभिः ॥ ओकारेत्यादिकिम् ? त्वयका । मयका ॥ अकच्प्रक-
रणे तूष्णीमः काम्द्वक्तव्यः * ॥ मित्त्वादन्त्यादचः परः । तूष्णीकामास्ते ॥ शीले को
मलोपश्च * ॥ तूष्णींशीलस्तूष्णीकः । पचतकि । जल्पतकि । धकित् । हिरकुत् ॥ कुत्सिते
।५।३।७४ ॥ कुत्सितोऽश्वोऽश्वकः ॥ संज्ञायां कन् । ५ । ३ । ७५ ॥ कुत्सिते कन् स्यात्तद-
न्तेन चेत्संज्ञा गम्यते । शूद्रकः । राधकः । स्वराथं वचनम् ॥ अनुकम्पायाम् । ५।३।७६॥
१ आदिना वरिमा बंहिमा गरिमा द्राघिमा ॥ २ 'सोऽपदादौ' इति सत्वम् ॥ ३ 'इणः षः' इति षत्वम् ॥
४ युष्मदस्मद्रूपस्य ॥ भाष्ये अनयोरेवोदाहरणस्य दानादिति बोध्यम् ॥
पुत्रकः । अनुकम्पितः पुत्र इत्यर्थः ॥ नीतौ च तद्युक्तात् । ५।३।७७ ॥ सामदानादिना
यो नीतिस्तस्यां गम्यमानायामनुकम्पायुक्तात्कन्प्रत्ययः स्यात् ॥ हन्त ते धानकाः । गुडकाः ।
एडकि । भद्रकि ॥ पूर्वेणानुकम्प्यमानात्प्रत्ययः । अनेन तु परम्परासम्बन्धेऽपीति विशेषः ॥
बह्वचो मनुष्यनाम्नष्ठज्वा । ५।३।७८ ॥ पूर्वसूत्रद्वयविषये ॥ वानिर्लचौ च । ५।३।७९ ॥
तत्रैव ॥ ठाजादावूर्ध्वं द्वितीयादचः । ५।३।८३ ॥ अस्मिन्प्रकरणे यष्ठोऽजादि-
प्रत्ययश्च तस्मिन्प्रत्यये परे प्रकृतेर्द्वितीयादच ऊर्ध्वं सर्वं लुप्यते ॥ अनुकम्पितो देवदत्तो
देविकः । देविथः । देविलः । देवदत्तकः । अनुकम्पिनो वायुदत्तो वायुदत्तकः । ठग्रहणमुको
द्वितीयात्वे कविधानार्थम् । वायुकः । पितृकः ॥ चतुर्थादच ऊर्ध्वस्य लोपो वाच्यः * ॥
अनुकम्पितो वृहस्पतिदत्तो वृहस्पतिकः ॥ अनजादौ च विभाषा लोपो वक्तव्यः * ॥
देवदत्तकः । देवकः ॥ लोपः पूर्वपदस्य च * ॥ दत्तिकः । दत्तिथः । दत्तिलः । दत्तकः ॥
विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यः * ॥ देवदत्तः । दत्तः । देवः ॥ सत्य-
भामा ॥ भामा । सत्या ॥ उवर्णाल्लि इलस्य च * ॥ भानुदत्तः । भानुलः । ऋवर्णादपि * ॥
सवित्रियः । सवितुलः ॥
चतुर्थादनजादौ च लोपः पूर्वपदस्य च । अप्रत्यये तथैवेष्ट उवर्णाल्लिइलस्य च ॥१॥
प्राचामुपादेरडज्वुचौ च । ५।३।८० ॥ उपशब्दपूर्वात्प्रातिपदिकात्पूर्वविषये अडच्
वुच् एतौ स्तः ॥ चाद्यथाप्राप्तम् । प्राचां ग्रहणं पूजार्थम् । अनुकम्पित उपेन्द्रदत्तः उपडः ।
उपकः । उपिकः । उपियः । उपिलः । उपेन्द्रदत्तकः । षड् रूपाणि ॥ जाति-
नाम्नः कन् । ५।३।८१ ॥ मनुष्यनाम्न इत्येव । जातिशब्दो यो मनुष्यनामधेयस्तस्मात्क-
न्स्यादनुकम्पायां नीतौ च ॥ सिंहकः । शरभकः । रासभकः ॥ द्वितीयं संध्यक्षरं चेत्तदादे-
र्लोपो वक्तव्यः * ॥ अनुकम्पितः कहोडः कहिकः ॥ एकाक्षरपूर्वपदानामुत्तरपदलोपो
वक्तव्यः * ॥ वागाशीर्दत्तः वाचिकः॑ ॥ कथं षडङ्गुलिदत्तः षडिक इति? ॥ षषन्नाजादि-
वचनात्सिद्धम् * ॥ शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् ।५।३।८४ ॥
एषां मनुष्यनाम्नां ठाजादौ परे तृतीयादच ऊर्ध्वं लोपः स्यात् । पूर्वस्यापवादः ॥ अनुकम्पितः
शेवलदत्तः शेवलिकः । शेवलियः । शेवलिलः । सुपारिकः । विशालिकः । वरुणिकः । अर्यमिकः ॥
१ भाष्ये न दृश्यत इति शेखरकृत् ॥ २ वागाशीर्दत्तशब्दात् ठप्रत्यय उत्तरपदस्य आशीर्दत्तशब्दस्य
लोपे अज्झलादेशत्वेनाजमात्रदेशत्वाभावात् स्थानिवद्भावाप्रवृत्तौ अजादितद्धितनिमित्तया भसंज्ञया अन्तर्वर्ति-
विभक्तिनिमित्तापिपदसंज्ञा तुल्यावधिकतया बाध्यत एवेति पदत्वाभावान्न जश्त्वकुत्वादिरिति भावः ॥
३ षडङ्गुलिदत्तशब्दात् ठे इकादेशे च 'ठाजादावूर्ध्वं द्वितीयादचः' इति सूत्रेण द्वितीयादचः 'अङ्गुलि' शब्दा-
कारात् परस्य ङ्गुलिदत्तशब्दस्य लोपे 'षष् अ इक इत्यवस्थायाम्' 'यस्येति च' इत्यकारलोपे 'षष् इक'
इत्यत्र अकारलोपस्य षष् इत्यस्य पदत्वे आनेये स्थानिवद्भावानिषेध इति षकारान्तस्य स्वादिप्रत्ययपरत्वेन
पदसंज्ञा प्राप्नोति भत्व आनेये स्थानिवद्भावो भवतीति भसंज्ञाऽकारान्तस्य प्राप्नोति पदसंज्ञा तु षूकारान्तस्येति
भिन्नावधिकतया पदसंज्ञा भसंज्ञया न बाध्यत इति पदत्वनिमित्तकं जश्त्वं भवेत्येवेति भावः ॥
Here is the complete line-by-line transcription of the page into Unicode Devanagari:
अजिनान्तस्योत्तरपदलोपश्च ।५।३।८२ ॥ अजिनान्तान्मनुष्यनाम्नोऽनुकम्पायां कन् तस्य
चोत्तरपदलोपः ॥ अनुकम्पितो व्याघ्राजिनो व्याघ्रकः । सिंहकः ॥ अल्पे ।५।३।८५॥ अल्पं
तैलं तैलकम् ॥ ह्रस्वे ।५।३।८६ ॥ ह्रस्वो वृक्षो वृक्षकः ॥ संज्ञायां कन् ।५।३।८७ ॥
ह्रस्वहेतुका या संज्ञा तस्यां गम्यमानायां कन् । पूर्वस्यापवादः ॥ वंशकः । वेणुकः ॥ कुटी-
शमीशुण्डाभ्यो रः ।५।३।८८ ॥ ह्रस्वा कुटी कुटीरः । शमीरः । शुण्डारः ॥ कुत्वा
डुपच् ।५।३।८९ ॥ ह्रस्वा कुतूः कुतुपः । 'कुतूः कृत्तेः स्नेहपात्रं ह्रस्वा सा कुतुपः पुमान् ॥'
कासूगोणीभ्यां ष्टरच् ।५।३।९० ॥ आयुधविशेषः कासूः । ह्रस्वा सा कासूतरी ।
गो
तद्धितेषु स्वार्थिकप्रकरणम् । (२४१)
कनो लुप्त्यात् ॥ देवपथः । हंसपथः ॥ आकृतिगणोऽयम् ॥ वस्तेर्डञ् ।५।३।१०१ ॥
इवेत्यनुवर्तत एव । प्रतिकृताविति निवृत्तम् ॥ वस्तिरिव वास्तेयम् । वास्तेयी ॥ शिलाया
ढः ।५।३।१०२ ॥ शिलाया इति योगविभागाड्डञपीत्येके । शिलेव शिलेयम् । शैलेयम् ॥
ᴬशाखादिभ्यो यः ।५।३।१०३ ॥ शाखेव शाख्यः । मुख्यः । जघनमिव जघन्यः ।
अग्र्यः । शरण्यः ॥ द्रव्यं च भव्ये ।५।३।१०४ ॥ द्रव्यमयं ब्राह्मणः ॥ कुशा-
ग्राच्छः ।५।३।१०५ ॥ कुशाग्रमिव कुशाग्रीया बुद्धिः ॥ समासाच्च तद्विषयात् ।
५।३।१०६ ॥ इवार्थविषयात्समासाच्छः स्यात् ॥ काकतालीयो देवदत्तस्य वधः । इहँ काक-
तालसमागमसदृशश्चौरसमागम इति समासार्थः । तत्प्रयुक्तः काकमरणसदृशस्तु प्रत्ययार्थः ।
अजाकृपाणीयः । अतर्कितोपनत इति फलितोऽर्थः ॥ ᴮशर्करादिभ्योऽण् ।५।३।१०७ ॥
शर्करेव शार्करम् ॥ ᶜअङ्गुल्यादिभ्यष्ठक् ।५।३।१०८ ॥ अङ्गुल्येव आङ्गुलिकः । भरुजेव
भारुजिकः ॥एकशालायाष्ठञन्यतरस्याम् ।५।३।१०९ ॥ एकशाला शब्दाद्विवार्थे
ठञ्वा पक्षे ठक् ॥ एकशालेव एकशालिकः । ऐकशालिकः ॥ कर्कलोहितादीकक् ।५।
३।११० ॥ कर्कः शुक्लोऽश्वः स इव कार्कीकः । लौहीतीकः स्फटिकः ॥ पूगाञ्ज्यौऽ-
ग्रामणीपूर्वात् ।५।३।११२ इवार्थो निवृत्तः । नानाजातीया अनियतवृत्तयोऽर्थकाम-
प्रधानाः सङ्घाः पूगास्तद्वाचकात्स्वार्थे ञ्यः स्यात् ॥ लौहित्यञ्य्यः ॥ व्रातचफञोरस्त्रि-
याम् ।५।३।११३ ॥ व्राते—कापोतपाक्यः ॥ फञ्—कौञ्जायन्यः । ब्राह्मायन्यः ॥ आयु-
धजीविसङ्घाञ्ञ्यडवाहीकेष्वब्राह्मणराजन्यात् ।५।३।११४ ॥ वाहीकेषु य
आयुधजीविसङ्घस्तद्वाचिनः स्वार्थे ञ्यट् । क्षौद्रक्यः । मालव्यः । टित्त्वान्ङीप् । क्षौद्रकी ॥
आयुधेति किम् ! मल्लाः ॥ सङ्घेति किम् ! सम्राट् ॥ वाहीकेषु किम् ? शबराः ॥ अब्राह्मणेति
किम् ! गोपाहकाः । शालङ्कायनाः । ब्राह्मणे तद्विशेषग्रहणम् । राजन्ये स्वरूपग्रहणम् ॥
वृकाट्ठेण्यण् ।५।३।११५ ॥ आयुधजीविसङ्घवाचकात्स्वार्थे ॥ वार्केण्यः ॥ आयुधेति किम् !
A शाखा, मुख, शृङ्ग, जघन, मेघ, अग्र, चरण, स्कन्ध, स्कन्द, उरस्, शिरस्, अग्र, शरण ।
इति शाखादिः ॥
B शर्करा, कपालिका, कपाटिका, कनिष्ठिका, पुण्डरीक, शतपत्र, गोलोमन्, लोमन्, गोपुच्छ, नसची,
नकुल, सिकता । इति शर्करादिः ॥
C अङ्गुलि, भरुज, बभ्रु, वल्गु, मण्डर, मण्डल, शष्कुली, हरि, कपि, मुनि, रूह, खल, उदश्वित्, गोणी,
उरस्, कुलिश । इत्यङ्गुल्यादिः ॥
१ अत्र यदित्यपपाठः । उग्वादिभ्य इति सूत्रभाष्यविरोधात् ॥ २ "द्वाविवाथौँ काकागमनमिव तालप-
तनमित्र क्रकतालम् काकतालमिव काकतालीयं” इति भाष्यम् ‘वृत्तिविषये काकतालशब्दौ काकतालसमवे-
तक्रियावाचिनौ । तत्र काकागमनं देवदत्तागमनस्योपमानम्, तालपतनं दस्तूपनिपतनस्य । तालेन यः काकस्य
वधः स देवदत्तस्य दस्युना वधस्योपमानमिति वधादिः काकतालीयादिशब्दवाच्यः संपद्यते' इति प्रदीपं च
मनसि निधाय फलितमाह–इहेत्यादिना ॥
१६
(२४२) सिद्धान्तकौमुद्याम्-
जातिशब्दान्मा भूत् ॥ $^A$दामन्यादित्रिगर्तषष्ठाच्छः । ५।३।११६ ॥ दामन्यादिभ्य-
स्त्रिगर्तषष्ठेभ्यश्चायुधजीविसङ्घवाचिभ्यः स्वार्थे छः स्यात् ॥ त्रिगर्तः षष्ठो वर्गो येषां ते
त्रिगर्तषष्ठाः ॥
आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी ॥
कौष्टकिर्जालमानिश्च ब्रह्मगुप्तोऽथ जानिकः ॥ १ ॥
दामनीयः । दामनीयौ । दामनयः । औलपि-औलपीयः ॥ त्रिगर्तषष्ठाः ।
त्रैगर्तीयः । कौण्डोपरथीयः । दाण्डकीयः ॥ $^B$पर्श्वादियौधेयादि$^C$भ्योऽणञौ । ५।३।
११७ ॥ आयुधजीविसङ्घवाचिभ्य एभ्यः क्रमादणञौ स्तः स्वार्थे ॥ पार्श्वः । पार्श्वौ ।
पर्शवः । यौधेयः । यौधेयौ । यौधेयाः ॥ अभिजिद्विदभृच्छालावाच्छिखावच्छमी-
वद्पूर्णावच्छुद्मदणो यञ् । ५।३।११८ ॥ अभिजिदादिभ्योऽणन्तेभ्यः स्वार्थे यञ् स्यात् ॥
अभिजितोऽपत्यमाभिजित्यः । वैदभृत्यः । शालावत्यः । शैखावत्यः । शामीवत्यः । और्णा-
वत्यः । श्रौमत्यः ॥ ञ्यादयस्तद्राजाः । ५।३।११९ ॥ ‘पूगाञ्ञ्यः इत्यारभ्य उक्ता एत-
त्संज्ञाः स्युः ॥ तेनास्त्रियां बहुषु लुक् । लोहितध्वजाः । कपोतपाकाः । कौञ्जायनाः । ब्राध्ना-
यना इत्यादि ॥ पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च । ५।४।१ ॥ लोपव-
चनमनेमित्तिकत्वार्थम् । अतो न स्थानिवत् । ‘पादः पत्’ ‘तद्धितार्थ’ इति समासे कृते
प्रत्ययः । वुन्नन्तं क्रियामेव । द्वौ द्वौ पादौ ददाति द्विपदिकाम् द्विशतिकाम् ॥ पादश-
तग्रहणमनर्थकमन्यत्रापि दर्शनात् * ॥ द्विमोदकिकाम् ॥ दण्डव्यवसर्गयोश्च । ५।४।२ ॥
वुन् स्यात् । अवीप्सार्थमिदम् । द्वौ पादौ दण्डितः द्विपदिकाम् । द्विशतिकाम् । व्यवसृजति
ददातीत्यर्थः ॥ $^D$स्थूलादिभ्यः प्रकारवचने कन् । ५।४।३ ॥ जातीयरोऽपवादः ।
स्थूलकः । अणुकः ॥ चञ्चद्बृहतो रूपसंख्यानम् * ॥ चञ्चत्कः । बृहत्कः ॥ सुराया अहौ ॥
सुरावर्णोऽहिः सुरकः ॥ अनत्यन्तगतौ क्तात् । ५।४।४ ॥ छिन्नकम् । भिन्नकम् । अभि-
न्नकम् ॥ न सामिवचने । ५।४।५ ॥ सामिपर्याये उपपदे क्तान्तान्न कन् ॥ सामिकृतम् ।
अर्धकृतम् । अनत्यन्तगतेरिह प्रकृत्यैवाभिधानात्पूर्वेण कन् न प्राप्तः । इदमेव निषेधसूत्रमत्यन्त-
A दामनि, औलपि, बैजवापि, औदकि, औदङ्कि, आच्युतन्ति, आच्युतदन्ति, शाकुन्तकि, आकिदन्ति,
औडवि, काकदन्तकि, शात्रुन्तपि, सार्वसेनि, बिन्दु, बैन्दवि, तुलम, मौञ्जायनि, काकन्दि, सावित्रीपुत्र ।
इति दामन्यादिः ॥
B पर्शु, असुर, रक्षस्, बाह्लीक, वयस्, वसु, मरुत्, सत्वत्, दशार्ह, पिशाच, अशनि, कार्षापण ।
इति पर्श्वादिः ॥
C यौधेय, कौशेय, शौकेय, शौभ्रेय, धौर्तेय, धार्तेय, ज्याबाणेय, त्रिगर्त, भरत, उशीनर ।
इति यौधेयादिः ॥
D स्थूल, अणु, माष, इषु, कृष्ण, तिलेषु, यव, व्रीहिषु, इक्षु, तिल, पाद्य, कालावदात सुरायाम्,
‘गोमूत्र आच्छादने’ ‘सुरा अहौ’ ‘जीर्ण शालीषु’ ‘पत्रमूल, समस्तो व्यस्तश्च’ कुमारी-
पुत्र, कुमारीश्वशुर, मणि । इति स्थूलादिः ॥
?
It is '२' (digit 2)! Wait, look at footnote 2: "२ अधिकरणे ।".
And what is in L26? It says "२ द्वितीये अन्नमयो यज्ञः ।" or "‘द्वितीये अन्नमयो यज्ञः ।"?
Look at footnote 1: "१ भावे ।". In the main text: "भावेऽधिकरणे वा ल्युट् । आद्ये...".
Wait, in L26: the mark looks like a raised single quote or a '२'? It is raised, like a single quote ' or a small २. Let's look at L9: "‘निकृष्ट...". The quote there is ‘. In L26, it is २ or ‘?
Wait, look at the shape: it has a top curve and bottom horizontal: it's a small २ or a quote? Wait, in L20: "‘रात्सस्य’—चतुः ॥", "‘संयोगान्तस्येति". Those are quotes ‘.
In L26, it's ‘द्वितीये or २द्वितीये? It looks very much like a single quote ‘! But it could be a small 2. Wait, let's look at the footnotes:
The footnote numbers are 1 and 2.
Where is footnote mark 1?
Ah! Footnote 1 is at the bottom: "१ भावे ।"
Where is
( २४४ ) सिद्धान्तकौमुद्याम्-
शाष्कुलिकम् । शष्कुलीमयम् । द्वितीयेऽर्थे-मौदकिको यज्ञः । मोदकमयः ॥ अनन्ता-
वसथेतिहभेषजाञ्ञ्यः । ५।४।२३ ॥ अनन्त एवानन्त्यम् । आवसथ एवावसथ्यम् ।
इतिहेति निपातसमुदायः, ऐतिह्यम् । भेषजमेव भैषज्यम् ॥ देवत्तान्तात्तादर्थ्ये यत् ।
५।४।२४ ॥ तदर्थ एव तादर्थ्यम् । स्वार्थे ष्यञ् । अग्निदेवतायै इदम् अग्निदेवत्यम् ।
पितृदेवत्यम् ॥ पादार्घाभ्यां च । ५।४।२५ ॥ पादार्थमुदकं पाद्यम् । अर्घ्यम् ॥ नवस्य
नू आदेशः त्नतनप्खवाश्च प्रत्यया वक्तव्याः ॥ नूतनम् । नूत्नम् । नवीनम् ॥ नश्च पुराणे
भ्राट् * ॥ पुराणार्थे वर्तमानात्प्रशब्दान्नो वक्तव्यः । चात्पूर्वोक्ताः । प्रणम् । प्रत्नम् । प्रत-
नम् । प्रीणम् ॥ भागरूपनामभ्यो धेयः * ॥ भागधेयम् । रूपधेयम् । नामधेयम् ॥ आग्नी-
ध्रसाधारणादञ् * ॥ आग्नीध्रम् । साधारणम् । स्त्रियां ङीप् । आग्नीध्री । साधारणी ॥
अतिथेर्यः । ५।४।२६ ॥ तादर्थ्ये इत्येव । अतिथये इदमातिथ्यम् ॥ देवात्तल् । ५।
४।२७ ॥ देव एव देवता ॥ अवेः कः । ५।४।२८ ॥ अविरेवाविकः ॥ ^Aयावादिभ्यः
कन् । ५।४।२९ ॥ याव एव यावकः । मणिकः ॥ लोहितान्मणौ । ५।४।३० ॥
लोहित एव मणिलोहितकः ॥ वर्णे चानित्ये । ५।४।३१ ॥ लोहितकः कोपेन ॥ लोहि-
तालिङ्गबाधनं वा * ॥ लोहितिका, लोहिनिका कोपेन ॥ रक्ते । ५।४।३२ ॥ लाक्षादिना
रक्ते यो लोहितशब्दस्तस्मात्कन्स्यात् । लिङ्गबाधनं वेत्येव । लोहितिका, लोहिनिका शाटी ॥
कालाच्च । ५।४।३३ ॥ 'वर्णे चानित्ये' 'रक्ते' इति द्वयमनुवर्तते । कालकं मुखं वैलक्ष्येण ।
कालकः पटः । कालिका शाटी ॥ ^Bविनयादिभ्यष्ठक् । ५।४।३४ ॥ विनय एव वैन-
यिकः । सामयिकः ॥ उपायो ह्रस्वत्वं च * ॥ औपयिकः ॥ वाचो व्याहृतार्था-
याम् । ५।४।३५ ॥ संदिग्घार्थायां वाचि विद्यमानाद्वाक्शब्दात्स्वार्थे ठक् स्यात् ॥ 'संदेशवाग्
वाचिकं स्यात्'॥ तद्युक्तात्कर्मणोऽण् । ५।४।३६ ॥ कर्मैव कार्मणम् । वाचिकं श्रुत्वा
क्रियमाणं कर्मेत्यर्थः ॥ ओषधेरजातौ । ५।४।३७ ॥ स्वार्थेऽण् ॥ औषधं पिबति ॥ अजातौ
किम् ? ओषधयः क्षेत्रे रूढाः ॥ ^Cप्रज्ञादिभ्यश्च । ५।४।३८ ॥ प्रज्ञ एव प्राज्ञः । प्राज्ञी
स्त्री । दैवतः । बान्धवः ॥ मृदस्तिकन् । ५।४।३९ ॥ मृदेव मृत्तिका ॥ सस्नौ प्रशं-
सायाम् । ५।४।४० ॥ रूपपोऽपवादः । प्रशस्ता मृत् मृत्सा । मृत्स्ना । उत्तरसूत्रेऽन्यतर-
स्यांग्रहणान्नित्योऽयम् ॥ बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् । ५।४।४२ ॥ बहूनि
ददाति बहुशः । अल्पानि अल्पशः ॥ बह्वल्पार्थान्मङ्गलामङ्गलवचनम् * । नेह-बहूनि
^A याव, मणि, अस्थि, तालु, जानु, सान्द्र, पीत, स्तम्ब, 'ऋतावुष्णशीते' 'पशौ लूनविपाते'
'अणु निपुणे' 'पुत्र कृत्रिमे' 'ज्ञात वेदसमाप्तौ' 'शून्य रिक्ते' 'दान कुत्सिते' 'तनु सूत्रे
ईयसश्च' ज्ञात, अज्ञात, कुमारीक्रीडनकानि च । इति यावादिः ॥
^B विनय, समय, 'उपायो ह्रस्वत्वं च,' संप्रति, संगति, कथंचित्, अकस्माद्, समाचार, उपचार
समयाचार, व्यवहार, संप्रदान, समुत्कर्ष, समूह, विशेष, अत्यय । इति विनयादिः ॥
^C प्रज्ञ, वणिज्, उष्णिक्, उशिज्, प्रत्यक्ष, विद्वस्, विद्वन्, षोडन्, विद्या, मनस्, 'श्रोत्र शरीरे'
जुह्व, 'कृष्ण मृगे' चिकीर्षित, चोर, शत्रु, योध, चक्षुस्, वसु, एनस्, मरुत्, कुश्व, सत्वत, दशार्ह,
वयस्, व्युष्टि, असुर, रक्षस्, पिशाचं, अशनि, कार्षापण, देवता, बन्धु । इति प्रज्ञादिः ॥
ददात्यनिष्टेषु । अलं ददात्याभ्युदयिकेषु ॥ संख्यैकवचनाच्च वीप्सायाम् ।५।४।
४३॥ द्वौ द्वौ ददाति द्विशः । माषं माषं माषशः । प्रस्थशः । परिमाणशब्दा वृत्तावेकार्था
एव ॥ संख्यैकवचनात्किम् ? घटं घटं ददाति ॥ वीप्सायां किम् ? द्वौ ददाति ॥ कारकादि-
च्च्येव—द्वयोर्द्वयोः स्वामी ॥ प्रतियोगे पञ्चम्यास्तसिः ।५।४।४४॥ प्रतिना कर्मप्रव-
चनीयेन योगे या पञ्चमी विहिता तदन्तात्तसिः स्यात् ॥ प्रद्युम्नः कृष्णतः प्रति ॥ ^Aआद्यादिभ्य
उपसंख्यानम् * ॥ आदौ आदितः । मध्यतः । पृष्ठतः । पार्श्वतः । आकृतिगणोऽयम् ।
स्वरेण स्वरतः । वर्णतः ॥ अपादाने चाऽहीयरुहोः ।५।४।४५॥ अपादाने या पञ्चमी
तदन्तात्तसिः स्यात् ॥ ग्रामादागच्छति । ग्रामतः ॥ अहीयरुहोः किम् ? स्वर्गाद्धीयते । पर्वता-
दवरोहति ॥ अतिग्रहाऽव्यथनक्षेपेष्वकर्तरि तृतीयायाः ।५।४।४६॥ अकर्तरि
तृतीयान्ताद्वा तसिः स्यात् ॥ अतिक्रम्य ग्रहोऽतिग्रहः । चारित्रेणातिगृह्यते । चारित्रतोऽति-
गृह्यते । चारित्रेणान्यानतिक्रम्य वर्तत इत्यर्थः ॥ अव्यथनमचलनम् । वृत्तेन न व्यथते ।
वृत्ततो न व्यथते । वृत्तेन न चलतीत्यर्थः ॥ क्षेपे—वृत्तेन क्षिप्तः । वृत्ततः क्षिप्तः । वृत्तेन
निन्दित इत्यर्थः ॥ अकर्तरीति किम् ? देवदत्तेन क्षिप्तः ॥ हीयमानपापयोगाच्च ।५।४।
४७॥ हीयमानपापयुक्तादकर्तरि तृतीयान्ताद्वा तसिः ॥ वृत्तेन हीयते । वृत्तेन पापः ।
वृत्ततः । क्षेपस्याविवक्षायामिदम् ॥ क्षेपे तु पूर्वेण सिद्धम् ॥ अकर्तरि किम् ? देवदत्तेन हीयते ॥
षष्ठ्या व्याश्रये ।५।४।४८॥ षष्ठ्यन्ताद्वा तसिः स्यान्नानापक्षसमाश्रये ॥ देवा अर्जुन-
तोऽभवन् । आदित्याः कर्णतोऽभवन् । अर्जुनस्य पक्ष इत्यर्थः ॥ व्याश्रये किम् ? वृक्षस्य
शाखा ॥ रोगाच्चापनयने ।५।४।४९॥ रोगवाचिनः षष्ठ्यन्ताद्वा तसिश्चिकित्सायाम् ॥
प्रवाहिकातः कुरु । प्रतीकारमस्याः कुर्वित्यर्थः ॥ अपनयने किम् ? प्रवाहिकायाः प्रकोपनं
करोति ॥ कृब्वास्तियोगे संपद्यकर्तरि च्विः ।५।४।५०॥ अभूततद्भाव इति
वक्तव्यम् * ॥ विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानाद्विकारशब्दात्स्वार्थे च्विर्वा स्यात्करो-
त्यादिभिर्योगे ॥ अस्य च्वौ ।७।४।३२॥ अवर्णस्य ईत्स्यात् च्वौ ॥ वेर्लोपः । च्व्यन्त-
त्वादव्ययत्वम् । अकृष्णः कृष्णः संपद्यते तं करोति कृष्णीकरोति । ब्रह्मीभवति । गङ्गी-
स्यात् ॥ अव्ययस्य चावीत्त्वं नेति वाच्यम् * ॥ दोषाभूतमहः । दिवाभूता रात्रिः । एतच्चा-
व्ययीभावश्चेति सूत्रे भाष्ये उक्तम् ॥ क्यच्क्यङोश्च ।६।४।१५२॥ हलः परस्यापत्ययका-
रस्य लोपः स्यात् क्ये च्वौ च परतः ॥ गार्गीभवति ॥ च्वौ च ।७।४।२६॥ च्वौ परे
पूर्वस्य दीर्घः स्यात् ॥ शुचीभवति । पटू स्यात् । अव्ययस्य दीर्घत्वं नेति केचित्तन्निर्मूलम् ।
स्वस्ति स्यादिति तु महाभाष्याच्चेरभावात्सिद्धम् । स्वस्ती स्यादित्यपि पक्षे स्यादिति
चेदस्तु । यदि नेष्यते तर्ह्यनभिधानात् च्विरेव नोत्पद्यते इत्यस्तु ॥ रीङ्कृतः ॥ मात्रीकरोति ॥
अरुर्मनश्चक्षुश्चेतोहरोजसां लोपश्च ।५।४।५१॥ एषां लोपः स्यात् च्विश्च ॥
अरूकरोति । उन्मनीस्यात् । उच्चक्षूकरोति । विचेतीकरोति । विरहीकरोति । विरजीकरोति ॥
A आदि, मध्य, अन्त, पृष्ठ, पार्श्व । इत्याद्यादिराकृतिगणः ॥
१ 'श्राद्धादिषु' इति भाष्ये पर्यायः प्रदर्शितः । तेन श्राद्धस्यामङ्गलत्वसूचनात् परेतोद्देश्यकर्मण एव
श्राद्धशब्दार्थत्वं कथितम् ॥