सामग्री पर जाएँ
सर्वकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 56, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 56

अच्सन्धिप्रकरणम् । (७)
१।१।५२ ॥ षष्ठीनिर्दिष्टस्यान्त्यस्याल आदेशः स्यात् ॥ ङिच्च ।१।१।५३॥ अयमप्यन्त्यस्यैव
स्यात् । सर्वस्येत्यस्यापवादः ॥ आदेः परस्य । १।१।५४ ॥ परस्य यदिहितं तत्तस्यादेर्बोध्यम् ।
अलोऽन्त्यस्येत्यस्यापवादः ॥ अनेकाल् शित्सर्वस्य ।१।१।५५ ॥ स्पष्टम् । अलोऽन्त्यसू-
त्रापवादः । अष्टाभ्य औशित्यादावादेः परस्येत्येतदपि परत्वादनेन बाध्यते ॥ स्वरितेनाधि-
कारः ।१।३।११ ॥ स्वरितत्वयुक्तं शब्दस्वरूपमधिकृतं बोध्यम् ॥ *परनित्यान्तरङ्गापवादाना-
मुत्तरोत्तरं बलीयः॥असिद्धं बहिरङ्गमन्तरङ्गे॥ अकृतव्यूहाः पाणिनीयाः॥ निमित्तं विनाशो-
न्मुखं दृष्ट्वा तत्प्रयुक्तं कार्यं न कुर्वन्तीत्यर्थः ॥
इति परिभाषाप्रकरणम् ॥
अथाच्सन्धिप्रकरणम् ।