सामग्री पर जाएँ
सर्वकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 540, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 540

( ४९० ) सिद्धान्तकौमुद्याम्-
भावे कर्मणि च । कृच्छ्रे । दुष्करः कटो भवता । अकृच्छ्रे । ईषत्करः । सुकरः ॥ निमिमी-
लियां खल्योरत्त्वं नेति वाच्यम् * ॥ ईषन्निमयः । दुष्प्रमयः । सुविलयः । निमयः ।
मयः । लयः ॥ उपसर्गात् खल्घञोः । ७ । १ । ६७ ॥ उपसर्गादेव लभेर्नुम् स्यात् ॥
ईषत्प्रलम्भः । दुष्प्रलम्भः । सुप्रलम्भः । उपालम्भः । उपसर्गात्किम् ? ईषल्लभः । लाभः ॥
न सुदुर्भ्यां केवलाभ्याम् । ७ । १ । ६८ ॥ उपसर्गान्तररहिताभ्यां सुदुर्भ्यां लभेर्नुन्न स्यात्
खल्घञोः ॥ सुलभम् । दुर्लभम् । केवलाभ्यां किम् ? सुप्रलँम्भः । अतिदुर्लभः । कथं तर्हि
‘अतिसुलभमतिदुर्लभमिति । यदौ स्वती कर्मप्रवचनीयौ तदा भविष्यति ॥ कर्तृकर्मणोश्च
भूकृञोः । ३।३।१२७ ॥ कर्तृकर्मणोरीषदादिषु च उपपदेषु भूकृञोः खल् स्यात् ॥ यथा-
संख्यं नेष्यते । कर्तृकर्मणी च धातोरव्यवधानेन प्रयोज्ये । ईषदादयस्तु ततः प्राक् ॥ कर्तृकर्म-
णोश्च्व्यर्थयोरिति वाच्यम् * ॥ खित्त्वान्मुम् ॥ अनाढ्येनाढ्येन दुःखेन भूयते दुराढ्यम्भ-
वम् । ईषदाढ्यम्भवम् । स्वाढ्यम्भवम् । ईषदाढ्यङ्करः । दुराढ्यङ्करः । स्वाढ्यङ्करः । च्व्यर्थयोः
किम् ? आढ्येन सुभूयते ॥ आँतो युच् । ३ । ३।१२८ ॥ खलोपवादः ॥ ईषत्पानः सोमो
भवता । दुष्पानः । सुपानः ॥ भाषायां शासियुविदृशिधृषिमृषिभ्यो युङ्वाच्यः * ॥
दुःशासनः । दुर्योधन इत्यादि ॥ षात्पदान्तात् । ८ । ४।३५ ॥ नस्य णो न ॥ निष्पानम् ।
सर्पिष्पानम् । षात्किम् ? निर्णयः । पदान्तात्किम् ? पुष्णाति । पदे अन्तः पदान्त इति सप्त-
मीसमासोऽयम् । तेनेह न । सुसर्पिष्केण ॥ आँवश्यकाधमर्ण्ययोर्णिनिः । ३।३।१७०॥
अवश्यङ्कारी । शतन्दायी ॥ कृत्याश्च । ३ । ३।१७१ ॥ आवश्यकधमर्ण्ययोरित्येव ॥ अवश्यं
हरिः सेव्यः । शतं देयम् ॥ क्तिच्क्तौ च संज्ञायाम् । ३ । ३ । १७४ ॥ धातोः क्तिच्
क्तश्च स्यादाशिषि संज्ञायाम् ॥ तितुत्रेति नेट् । भवतात् भूतिः ॥ न क्तिचि दीर्घश्च ।
। ६ । ४ । ३९ ॥ अनिदां वनतितनोत्यादीनां च दीर्घानुनासिकलोपौ न स्तः क्तिचि परे ॥
यन्तिः । रन्तिः । वन्तिः । तन्तिः ॥ सनः क्तिचि लोपश्चास्यान्यतरस्याम् ।
।६।४।४५ ॥ सनोतेः क्तिचि आत्त्वं वा स्याल्लोपश्च वा ॥ सनुतात् सातिः । सतिः । सन्तिः ।
देवा एनं देयासुर्देवदत्तः ॥ अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा । ३ । ४ । १८ ॥
१ निमिमीति । मीनाति-इति “ विभाषा लीयतेः ” इति चात्त्वं निषिध्यते ॥
२ उपसर्गादेवेति । “ लभेश्च ” इत्येव सिद्धे नियमोऽयमिति भावः ॥ ३ तृतीया पञ्चमी
वेयम्, आद्ये प्रत्युदाहरति-सुप्रलम्भ इति । द्वितीये आह-अतिदुर्लम्भ इति । इति शेखरकृतः ॥
४ यदा स्वती कर्मप्रवचनीयाविति । अतेः कर्मप्रवचनीयत्वे उपसर्गान्तरराहित्यमस्त्येव, कर्मप्रवच-
नीयसंज्ञया उपसर्गसंज्ञाबाधकत्वात् । सोः कर्मप्रवचनीयत्वे तु उपसर्गात् परत्वमेव नास्तीत्यभिप्राये-
णोभयोरुपादानम् । “ अतिरतिक्रमणे च ” सुः पूजायाम् ” इत्याभ्यां कर्मप्रवचनीयसंज्ञा ॥
५ आत इति । ईषदादयोऽनुवर्तन्ते । ६ षादिति । निष्पानं सर्पिष्पानमित्यत्र “ कृत्यच ” इत्यनेन
“ वा भावकरणयोः ” इत्यनेन वा प्राप्तस्य णत्वस्यानेन प्रतिषेधः । प्रकृतेऽस्योपन्यासस्तु दुष्पाने णत्वस्य
व्यावृत्तयेरिति ॥ पदेऽन्त इति । सप्तमीसमासे चान्तग्रहणमेव मानम् । अन्यथा “ षात् पदात् ” इत्युच्यमा-
नेऽपि “ षात् ” इत्यस्य पदविशेषणत्वेन तदन्तविधिना “ षान्तात् पदात् ” इत्यर्थेनापि सिद्धेः फलांशे विशे-
षाभाव इति बोध्यम् ॥ ७ आवश्यकेति । अवश्यंभाव आवश्यकम् । अवश्यंभावविशिष्टे आधमर्ण्य-
विशिष्टे च कर्त्तरि वाच्ये धातोर्णिनिः स्यात् ॥