वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 536, कुल 835 में से
संदर्भ में पढ़ेंकृतिः ॥ इच्छा । ३ । ३ । १०१ ॥ इषेर्भावे श्यो यगभावश्च निपात्यते ॥ इच्छा ॥ परिचर्या-
परिसर्यामृगयाटाट्यानामुपसंख्यानम् * ॥ श्यो यक् च निपात्यते ॥ परिचर्या पूजा ।
परिसर्या परिसरणम् । अत्र गुणोऽपि । मृग अन्वेषणे चुरादावदन्तः । अतो लोपाभावोऽपि । शे
यकि णिलोपः । मृगया । अटतेः शे यकि ट्यशब्दस्य द्वित्वं पूर्वभागे यकारनिवृत्तिर्दीर्घश्च ।
अटाट्या ॥ जागर्तेरकारो वा * ॥ पक्षे शः ॥ जागरा । जागर्या ॥ अ प्रत्ययात् । ३ । ३ ।
१०२ ॥ प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारप्रत्ययः स्यात् ॥ चिकीर्षा । पुत्रकाम्या ॥ गु-
रोश्च हलः । ३ । ३ । १०३ ॥ गुरुमतो हलन्तात् स्त्रियामकारः स्यात् ॥ ईहा । ऊहा । गुरोः
किम् ? भक्तिः । हलः किम् ? नीतिः ॥ निष्ठायां सेट् इति वक्तव्यम् * ॥ नेह । आतिः ।
तितुत्रेति नेट्