वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 478, कुल 835 में से
संदर्भ में पढ़ें( ४३० ) सिद्धान्तकौमुदीम्-
दिवाकरः । विभाकरः । निशाकरः । कस्कादित्वात्सः । भास्करः । बहुकरः । बहुशब्दस्य वैपु-
ल्यार्थं संख्यापेक्षया पृथग्ग्रहणम् । लिपिलिबिशब्दौ पर्यायौ । संख्याः-एककरः । द्विकरः ।
कस्कादित्वादहस्करः । ' नित्यं समासेऽनुत्तरपदस्थस्येति षत्वम् । धनुष्करः । अरुष्करः ॥
-मन्त्रार्थः-ये (पूर्वासः) पूर्वे पितरः (ईयुः) स्वर्गं जग्मुः, ये च (उपरासः) उपरमन्ते विरमन्ति ते
उपराः, उपरतव्यापाराः कृतकृत्याः सन्तः परं ब्रह्म प्रापुः । यद्वा-ये (पूर्वासः) यजमानोत्पत्तेः पूर्वमेवोत्पन्ना
ज्येष्ठभ्रातृपितामहादयः, ये च (उपरासः) यजमानजन्मन उपर्युत्पन्नाः कनिष्ठभ्रातृस्वपुत्रादयः ( ईयुः )
पितृलोकं प्राप्ताः, येऽप्यन्ये (पार्थिवे रजसि) पृथिवीसम्बन्धिनि रजोगुणकार्येऽस्मिन्