वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 472, कुल 835 में से
संदर्भ में पढ़ें( ४२४ ) सिद्धान्तकौमुद्याम्-
अज्झिदित्युक्तेर्न ङित्त्वम् । कोटकः । विज इट् ' । विजिता । 'हनस्तोऽचिण्णलोः' ।घातकः ।
'आतो युक्'-दायकः । 'नोदात्तोपदेशस्येति न वृद्धिः-शमकः । दमकः । अनिट्स्तु निया-
मकः ॥ 'जनिवध्योश्च' । जनकः । 'वधँ हिंसायाम्' वधकः ॥ 'रधिजभोरचि' रन्धकः ।
जम्भकः । 'नेट्यलिटि रधेः' । रधिता । रद्धा । 'मस्जिनशोरिति नुम्' । मङ्क्ता । नंष्टा । नशिता ।
'रमेरशब्लिटोः' रम्भकः । रन्धा । 'लभेच' लम्भकः । लब्धा । 'तीषसह' एषिता । एष्टा ।
सहिता । सोढा । 'दरिद्रातेरालोपः'-दरिद्रिता । ण्वुलि न । दरिद्रायकः ॥ 'कृत्यल्युट' इत्येव
सूत्रमस्तु । यत्र विहितास्ततोऽन्यत्रापि स्युरित्यर्थात् । एवं च बहुलग्रहणं योगविभागेन कृन्मा-
त्रस्यार्थव्यभिचारार्थम् । पादाभ्यां ह्रियते पादहारकः । कर्मणि ण्वुल् ॥ क्रमेः कर्त्र्यात्मने-
पदविषयात्कृत इण्निषेधो वाच्यः * ॥ प्रक्रन्ता । कर्त्तरीति किम् ? प्रक्रमितव्यम् । आत्म-
नेपदेति किम् ? संक्रमिता ॥ अनैन्यभावे विषयशब्दः । तेन 'अनुपसर्गाद्वेति विकल्पार्हस्य न
निषेधः । क्रमिता । तदर्हत्वमेव तद्विषयत्वम् । तेन क्रन्तेत्यपीति केचित् ॥ गमेरिडित्यत्र
परस्मैपदग्रहणं तङानयोरभावं लक्षयति । सञ्जिगमिषिता ॥ एवं 'न वृद्भ्यश्चतुर्भ्यः' । विवृ-
त्सिता ॥ यङन्तात् ण्वुल् । अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । पापचकः । यङ्लुगन्तात्तु पाँपा-
चकः ॥ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः । ३ । १ । १३४ ॥ नन्द्यादेर्ल्युर्ग्रहादेर्णिनिः
पचादेरच् स्यात् ॥ नन्दयतीति नन्दनः । जन॑म॑र्दयतीति जनार्दनः । मधुसूदनः । विशेषेण
भीषयते इति विभीषणः । लवणः । नन्द्यादिगणे निपातनाण्णत्वम् ॥ ग्राही । स्थायी । मन्त्री ।
१ वध हिंसायामिति । अत एव “जनिवध्योः-” इत्यत्र वधिग्रहणं चरितार्थम्, वधादेशे तल्लोपस्य
स्थानिवद्भावात्सिद्धम् । एतेनार्धधातुके प्रयोगो नेत्यपास्तम् । इदं सर्वं वृत्तौ स्पष्टम् ॥ परे तु-एवं सति “चक्षिङ्”
इति सूत्रे “बहुलं तण्यन्नवधकगात्रविचक्षणाजिरायर्थम्” इति वार्तिके “वधक” ग्रहणवैयर्थ्यापत्तिः, अनेन
धातुना सिद्धत्वात् । “घातकः” इति स्विष्यत एव, बाहुलकाद् वधकमित्युपादाय “ण्वुलि वधादेशः” इति
कैयटः । तथा स्थानिवत्सूत्रे वार्तिकम्-“वध्यादेशे वृद्धितत्वयोः प्रतिषेधो वक्तव्यः” “वधकं पुष्करम्” इति ।
“अन्योऽयं किदौणादिको वधकशब्दो रुचक इति यथा” इति भाष्यं चासङ्गतं स्यात् । तस्मादयं निर्मूलः ।
आर्धधातुके वा प्रयोगो निर्मूलः । “जनिवध्योश्च” इति सूत्रे वधिग्रहणं तु “आदेशो हलन्तः” इत्यभिप्रायेण ।
अत एव “हनो वध-” इति सूत्रे “किमयमदन्त आहोस्वित् व्यञ्जनान्तः, किञ्चातः, यदि व्यञ्जनान्तः, वृद्धि-
तत्वप्रतिषेध इड्विधिश्च, अथादन्तो न दोषः” इति भाष्यमुपादाय कैयट आह-“अवधीदित्यत्र हलन्तलक्षणा
वृद्धिः प्राप्नोति, तत्प्रतिषेधो वक्तव्यः वधक इति ण्वुलि “बहुलं तणि” इति वधादेशे “अत उपधायाः” इति
प्राप्ता वृद्धिः “जनिवध्योश्च” इति प्रतिषिध्यते, स्थानिवद्भावाद् “हनस्त-” इति तत्वं प्राप्तं तत्प्रतिषेधो
वक्तव्यः, अवधीदित्यादौवेकाच्त्वादिणन्निषेधे प्राप्ते इड् विधेयः, अदन्तत्वे तल्लोपस्य स्थानिवद्भावाद् वृद्ध्याद्य-
भाव इड्भावश्च” इति । एवञ्चादन्तवत्पक्षे “वधिग्रहणं सूत्रे न कर्तव्यम्” इति स्पष्टमेवोक्तमिति वृत्तिश्वि-
न्त्येत्याहुः ॥ ( इति ल० शे० ) ॥ २ अनन्यभाव इति । वर्तत इति शेषः । तदन्याविषयत्वे सति
तद्विषयत्वमनन्यभावः ॥ ३ तङानयोरभावमिति । फलोपहिततङाननिमित्तवाभावं लक्षयतीत्यर्थः ॥
४ पापाचक इति । यङ्लुकोऽत्रानैमित्तिकत्वात् “न धातु-” इति निषेधो न, इग्लक्षणत्वाभावाच्च ॥
५ जनमर्द्दयतीति । 'अर्द हिंसायाम् ॥ ६ मधुसूदन इति । मधुर्नामासुरस्तं सूदयतीति मधुसूदनः ।
“सात्पदाद्योः” इति षत्वनिषेधः ॥