वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 429, कुल 835 में से
संदर्भ में पढ़ेंजन्ता निपात्यन्ते । अशनायति । उदन्यति । धनायति । बुभुक्षादौ किम् ? अशनीयति ।
उदकीयति । धनीयति ॥ अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि । ७ । १ । ५१ ॥
एषां क्यचि असुगागमः स्यात् ॥ अश्ववृषयोर्मैथुनेच्छायाम् * ॥ अश्वस्यति वडवा । वृषस्यति
गौः ॥ क्षीरलवणयोर्लालसायाम् * ॥ क्षीरस्यति बालः । लवणस्यति उष्ट्रः ॥ सर्वप्रातिपदि-
कानां क्यचि लालसायां सुग्सुकौ * ॥ दधिस्यति । दध्यस्यति । मधुस्यति । मध्वस्यति ॥
काम्यच्च । ३।१।९ ॥ उक्तविषये काम्यच् स्यात् ॥ पुत्रमात्मन इच्छति पुत्रकाम्यति । इह
यस्य हल इति लोपो न । अनर्थकत्वात् । यस्येति संघातग्रहणमित्युक्तम् । यशस्काम्यति ।
सर्पिष्काम्यति । मान्ताव्थेभ्योऽप्ययं स्यादेव । किंकाम्यति । स्वःकाम्यति ॥ उपमानादा-
चारे ।३।