सामग्री पर जाएँ
सर्वकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 390, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 390

रिफ कत्थनयुद्धनिन्दाहिंसादानेषु । रिफति । रिरिफ ॥ रिहेत्येके । ' शिशुं न विप्रा मतिभी
रिहन्ति' ॥ १६ ॥ तृप तृम्फ तृप्तौ ॥ आद्यः प्रथमान्तः । द्वितीयो द्वितीयान्तः । द्वावपि
द्वितीयान्तावित्यन्ये । तृपति । ततर्प । तर्पिता ॥ 'स्पृशमृशेति सिज्विकल्पः पौपादिकस्यैव ।
अङपवादत्वात् । तेनात्र नित्यं सिच् । अतर्पीत् । तृम्फति । शस्य ङित्त्वादनदितामिति न-
लोपे ॥ शे तृम्फादीनां नुम्वाच्यः * ॥ आदिशब्दः प्रकारे । तेन येऽत्र नकारानुषक्तास्ते
तृम्फादयः । तृम्फति । ततृम्फ । तृफ्यात् ॥ १७ ॥ तुप तुम्प तुफ तुम्फ हिंसायाम् ।
तुपति । तुम्पति । तुफति । तुम्फति ॥ २१ ॥ दृप दृम्फ उत्क्लेशे । प्रथमः प्रथमान्तः ।
द्वितीयो द्वितीयान्तः । प्रथमो द्वितीयान्त इत्येके । दृपति । दृम्फति ॥ २३ ॥ ऋफ
ऋम्फ हिंसायाम् । ऋफति । आनर्फ । ऋम्फति । ऋम्फांचकार ॥ २५ ॥ गुफ गुम्फ
ग्रन्थे । गुफति । जुगोफ । गुम्फति । जुगुम्फ ॥ २७ ॥ उभ उम्भ पूरणे । उभति ।
उवोभ । उम्भति । उम्भांचकार ॥ २९ ॥ शुभ शुम्भ शोभार्थे । शुभति । शुम्भति
॥ ३१ ॥ दृभी ग्रन्थे । दृभति ॥ ३२ ॥ चृती हिंसाग्रन्थनयोः । चर्तिता । सेसिचीति
वेट् ॥ चर्तिष्यति । चर्त्स्यति । अचर्तीत् ॥ ३३ ॥ विध विधाने । विधति । वेधिता ॥ ३४ ॥
जुड गतौ । जुडति ॥ तवर्गपञ्चमान्त इत्येके । 'मरुतो जुनन्ति' ॥ ३५ ॥ मृड सुखने ।
मृडति । मर्डिता ॥ ३६ ॥ पृड च । पृडति ॥ ३७ ॥ पृण प्रीणने । पृणति । पपर्ण ॥
॥ ३८ ॥ वृण च । वृणति ॥ ३९ ॥ मॄण हिंसायाम् ॥ ४० ॥ तुण कौटिल्ये । तु-
तोण ॥ ४१ ॥ पुण कर्मणि शुभे । पुणति ॥ ४२ ॥ मुण प्रतिज्ञाने ॥ ४३ ॥ कुण
शब्दोपकरणयोः ॥ ४४ ॥ शुन गतौ ॥ ४५ ॥ हूण हिंसागतिकौटिल्येषु ॥ ४६ ॥
घुण घूर्ण भ्रमणे ॥ ४८ ॥ षुर ऐश्वर्यदीप्त्योः । सुरति । सुषोर । आशिषि-सूर्यात् ॥ ४९ ॥
कुर शब्दे । कुरति । कुर्यात् । अत्र 'न मकुर्छुराम्' इति निषेधो न । कँरोतेरेव तत्र ग्रहणा-

१ रिह्धातोः सद्भावे वेदवाक्यं प्रमाणयति-शिशुं न विप्रा इति । अत्र "न" इत्युपमार्थीयः ।
"नेति प्रतिषेधार्थीयो भाषायाम् ।" भाषायां लोके । यथा घटो नास्ति पटो नास्ति" इत्यत्र नश-
ब्दोऽस्तित्वं प्रतिषेधति ॥ "उभयमन्वध्यायम्" । अन्वध्यायम्=छन्दसि वेदे, उभयम्=प्रतिषेधार्थीय
उपमार्थीयश्च इत्यर्थः । "प्रतिषेधार्थीयः पुरस्तादुपचारस्तस्य यत्प्रतिषेधति ।" यो हि प्रतिषेधार्थीयो
भवति, तस्य पुरस्तात्=प्रथमम्, उपचारः=प्रयोगो भवति । कस्मात् यत्प्रतिषेधति तस्मादित्यर्थः यथा
"नेन्द्रं देवममंसत" इति । निषेधार्थीयः प्रथमं पाठात् । "उपमार्थीय उपरिष्टादुपचारस्तस्य
येनोपमिमीते ।" येन=अर्थेन, उपमेयमर्थमुपमिमीते स उपमार्थीयः । तस्य उपरिष्टात्=उपरि, उपचारः=
पाठ इत्यर्थः यथा प्रकृते । इति यास्कोक्तेः ॥ विप्राः=मेधाविनो ब्राह्मणा (इमं सोमम्) इति शेषः ॥
शिशुं न=शिशुमिव बालमिव, मतिभिः=मतिपूर्वाभिर्वाग्भिः, रिहन्ति=स्तुवन्ति । यथा बालं कश्चिल्लालयति
तथा सोमं स्तोत्रशस्त्ररूपाभिर्वाग्भिः स्तुवन्तीति वेदवाक्यार्थः ॥ २ अङपवादत्वादिति । "उत्सर्गसमा-
नदेशा अपवादाः" इति न्यायादिति भावः ॥ ३ आदिशब्दः प्रकारे इति । "आदिशब्दं तु मेधावी
चतुर्ष्वर्थेषु भाषते । सामीप्ये च व्यवस्थायां प्रकारेऽवयवे तथा" इत्यभियुक्तोक्तेरिति भावः । "प्रकारो
भेदसादृश्ये" इत्यमरोक्तेरत्र नकारवत्त्वेन सादृश्यं गृह्यते तदाह-तेनेति ॥ ४ करोतेरेवेति । ननु करोतेः
"कुर" इति रूपस्य लाक्षणिकत्वात् प्रतिपदोक्तत्वेन "कुर शब्दे" इत्यस्यैव तत्र ग्रहणमुचितमिति चेन्न,
"विदाङ्कुर्वन्वित्यन्यतरस्याम्" इति निर्देशात् करोतेरेव तत्र ग्रहणमित्याशयात् ॥