सामग्री पर जाएँ
सर्वकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 331, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 331

इयुः । इययिथ । इयेथ । इयाय । इयय । दीर्घस्य ल्विजादेरित्यामि आयांचकारत्याद्युदाह-
रन्ति ॥ ३५ ॥ मडि भूषायाम् ॥ ३६ ॥ कुडि वैकल्ये । कुण्डति । कुण्डत इति तु
दाहे गतम् ॥ ३७ ॥ मुड मुड मर्दने ॥ ३९ ॥ खुडि अल्पीभावे ॥ ४० ॥ मुडि
खण्डने । मुण्डति ॥ ४१ ॥ पुडिँ चेत्येके । पुण्डति ॥ ४२ ॥ रुटि लुटि स्तेये ।
रुण्टति ॥ ४३ ॥ लुण्टति ॥ ४४ ॥ रूठि लुठि इत्येके ॥ ४५ ॥ रूडि लुडि इत्यपरे ॥
॥ ४८ ॥ स्फुटिँर् विशरणे । इरित्त्वादङ् । अस्फुटत् । अस्फोटीत् ॥ ४९ ॥ स्फुटि
इत्यपि केचित् । इदित्त्वान्नुम् । स्फुण्टति ॥ ५० ॥ पठ व्यक्तायां वाचि । पेठतुः ।
पेठिथ । अपठीत् । अपाठीत् ॥ ५१ ॥ वठ स्थौल्ये । ववठतुः । ववठिथ ॥ ५२ ॥
मठ मदनिवासयोः ॥ ५३ ॥ कठ कृच्छ्रजीवने ॥ ५४ ॥ रटँ परिभाषणे ॥ ५५ ॥ रठे-
त्येके ॥ ५६ ॥ हठ प्लुतिशठत्वयोः । बलात्कार इत्येके । हठति । जहाठ ॥ ५७ ॥
रुठ लुठ उठ उपघाते । ओठति ॥ ६० ॥ ऊठेत्येके । ऊठति । ऊठांचकार ॥ ६१ ॥
पिठ हिंसासंक्लेशनयोः ॥ ६२ ॥ शठ कैतवे चॅ ॥ ६३ ॥ शुठ प्रतिघाते । शोठति
॥ ६४ ॥ शुठीति स्वामी । शुण्ठति ॥ ६५ ॥ कुठि च कुण्ठति ॥ ६६ ॥ लुठि आ-
लस्ये प्रतिघाते च ॥ ६७ ॥ शुठि शोषणे ॥ ६८ ॥ रुठिँ लुठिँ गतौ ॥ ७० ॥ चुड्ड
भावकरणे । भावकरणमभिप्रायसूचनम् । चुड्डति । चुचुड्ड ॥ ७१ ॥ अड्डू अभियोगे ।
अड्डति । आनड्ड ॥ ७२ ॥ कड्ड कार्कश्ये । कड्डति ॥ ७३ ॥ चुड्डादयस्त्रयो दोपधाः । तेन
क्विपि-चुत् । अत् । कत् इत्यादि ॥ क्रीडू विहारे । चिक्रीड ॥ ७४ ॥ तुडुँ तोडने । तोडति ।
तुतोड ७५ ॥ तूडू इत्येके ॥ ७६ ॥ हुड्डू ढूढू होडू गतौ । हुड्यात् । ढूढ्यात् । हो-
ड्यात् ॥ ७९ ॥ रौड्ड अनादरे ॥ ८० ॥ रोड्ड लोडू उन्मादे ॥ ८२ ॥ अड उद्यमे ।
अडति । आड । आडतुः । आडुः ॥ ८३ ॥ लड विलासे । लडति ॥ ८४ ॥ लडयोर्लर-
योश्चैकत्वस्मरणाल्लुलतीति स्वाम्यादयः ॥ कड मदे । कडति ॥ ८५ ॥ कडि इत्येके क-
ण्डति ॥ ८६ ॥ गडिँ वदनैकदेशे । गण्डति ॥ ८७ ॥ इति टवर्ग्यान्ताः ॥ अथ
पवर्ग्यान्ताः तत्रानुदात्तेतः स्तोभत्यन्ताश्चतुस्त्रिंशत् ॥ तिपृ तेपृ ष्टिपृ
ष्टेपृ क्षरणार्थाः । आद्योऽनुदात्तः । क्षीरस्वामी त्वयं सेडिति बभ्राम । तेपते । तितिपे । क्रादि-
१ कुडि । वैकल्यमविवेकः ॥ २ पुडि चेत्येके इति । अत एव “पुण्डरीकम्” इत्यादि सिद्धम् ॥
३ रट परिभाषणे रठेत्येके इति । अत्र “रठ परिभाषणे” इति द्वितीयटवर्गान्त एव पाठः साधीयान्,
पूर्वोत्तरसन्दर्भात् । “रट परिभाषणे” इति प्रथमतवर्गान्तस्तु “अट पट गतौ” इत्यत्र गतः । रठेत्येक इति
पाठस्तु केनचिद् विद्रूपेण पश्चाच्छोधित एवेति बोध्यम् ॥ ४ शट कैतवे चेति । चकाराद् हिंसा-
संक्लेशनयोः । ५ “रुठि लुठि” अर्थभेदात् पुनः पाठो लुष्ठेरित्याहुः । ६ “अड्डु” “अभि-
योगस्त्वभिग्रहः” इत्यमरः । ७ “तुडुँ” तोडनं दारणं हिंसन च ॥ ८ “रोड्ड् लोड्ड्” ‘उन्मादश्चि-
त्तविभ्रमः ।’ ९ “गडि” टवर्गीयप्रकरणादिह पाठस्तु युक्तः । अन्तत्यादिषु तु “पञ्चैते न तिङ्विषयाः”
इति बोधयितुं प्रसङ्गाल्लिखितः ॥