सामग्री पर जाएँ
सर्वकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 326, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 326

अथ द्विसप्ततिर्ऋज्यन्ताः परस्मैपदिनः ॥ शुच शोके ॥ शोचति ॥ १ ॥ कुच
शब्दे तारे । कोचति ॥ २ ॥ कुञ्च क्रुञ्च कौटिल्याल्पीभावयोः । अनिदितामिति नलोपः ।
कुच्यात् ॥ ३ ॥ क्रुच्यात् ॥ ४ ॥ लुञ्च अपनयने । लुच्यात् ॥ ५ ॥ अञ्चु गतिपूजनयोः ।
अच्यात् । गतौ नलोपः । पूजायां तु अञ्च्यात् ॥ ६ ॥ वञ्चु चञ्चु तञ्चु त्वञ्चु म्रुञ्चु
म्लुञ्चु स्रुञ्चु म्लुचु गत्यर्थाः । वच्यात् । चच्यात् । तच्यात् । त्वच्यात् । अम्रुञ्चीत् । अम्ल-
ञ्चीत् ॥ जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च ।३।१।५८॥ ण्यङ्लिरङ् वा स्यात् ॥
अम्रुचत् । अम्रोचीत् । अम्लचत् । अम्लोचीत् ॥ १४ ॥ ग्रुचु ग्लुचु कुजु खुजु स्तेयकरणे।
जुग्रोच । अग्रुचत् । अग्रोचीत् । जुग्लोच । अग्लोचत् । अग्लोचीत् । अक्रो-
जीत् । अखोजीत् ॥ १८ ॥ ग्लुञ्चु षस्ज गतौ । अङ् । अग्लुचत् । अग्लुञ्चीत् ॥ १९ ॥
सस्य श्चुत्वेन शः । जश्त्वेन जः । सज्जति । अयमात्मनेपद्यपि । सज्जते ॥ २० ॥ गुजि
अव्यक्ते शब्दे । गुञ्जति । गुञ्ज्यात् ॥ २१ ॥ अर्च पूजायाम् । आनर्च ॥ २२ ॥
म्लेच्छ अव्यक्ते शब्दे । अस्फुटेऽपशब्दे चेत्यर्थः । म्लेच्छति । मिम्लेच्छ ॥ २३ ॥ लच्छ
लाछि लक्षणे । ललच्छ ॥ २४ ॥ ललाञ्छ ॥ २५ ॥ वाछि इच्छायाम् ।
वाञ्छति ॥ २६ ॥ आछि आयामे । आच्छति । अत आदेरित्यत्र तपरकरणं स्वाभा-
विकह्रस्वपरिग्रहार्थम् । तेन दीर्घाभावान्न नुट् । आञ्छ । तपरकरणं मुखसुखार्थमिति
मँते तु नुट् । आनाञ्छ ॥ २७ ॥ ह्रीच्छ लज्जायाम् । जिह्रीच्छ ॥ २८ ॥
हुर्च्छा कौटिल्ये । कौटिल्यमपसरणमिति मैत्रेयः । उपधायां चेति दीर्घः ।
हूर्च्छति ॥ २९ ॥ मूर्छा मोहसमुच्छ्राययोः । मूर्च्छति ॥ ३० ॥ स्फुर्छा विस्तृतौ ।
स्फूर्च्छति ॥ ३१ ॥ युच्छ प्रमादे । युच्छति ॥ ३२ ॥ उछि उञ्छे ॥ 'उञ्छः कणश
१ कुञ्च्यादिति । कुञ्चेर्नलोपाभावस्य ऋत्विक्सूत्रे निपातनात् क्वापि नलोपो नेति भावः ॥ भाष्य-
मते तु चवर्गपञ्चमोपधत्वस्यैव “परेण घाङ्कयोः” इति सूत्रेऽङ्गीकृतत्वान्न नलोपप्राप्तिरिति बोध्यम् । तत्र हि
“सडि लत्वसलोपसंयोगादिलोपकुत्वदीर्घत्वानि” इति वार्तिकव्याख्यावसरे “कुञ्चेत्यत्र चोः कुः झलीति कुत्वं
प्राप्नोति, सडीति वचनान्न भवति । एतदपि नास्ति प्रयोजनम् । निपातनादेतत्सिद्धम् । किं निपातनम् ?
'ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चाम्' इति । इति प्रतिपादितम्। यद्ययं नकारोपधः स्यात् तदा अनुस्वार-
परसवर्णयोरसिद्धत्वान् नकार एव कुत्वविधायकशास्त्रदृष्ट्याऽस्तीति कुत्वस्य प्राप्तिरेव नास्तीति कुत्वापादनपर-
भाष्यमसङ्गतमेव स्यादिति जोपधोऽयं धातुरिति स्पष्टम् ॥ २ अञ्चु गतिपूजनयोरिति । ननु अञ्चु गति-
पूजनयोः” इत्यस्य स्थाने “अञ्चु गतौ” अचि पूजायाम् इत्येव सिद्धे “नाञ्चेः पूजायाम्” इति व्यर्थमिति
चेन्न, अव्याकुलं गच्छतीत्यर्थके “अश्वितं गच्छति” इत्यादौ नलोपाभावाय तत्सूत्रस्यावश्यकत्वात् ।
अव्याकुलगमनेन च तत्र पूजा गम्यते नत्वञ्चतेरेव सोऽर्थ इति “अञ्चोऽनपादाने” इति सूत्रे भाष्यकैयटयोः
स्पष्टत्वात् । ३ अयमात्मनेपद्यपीति । “हेतुमत्ति च” इति सूत्रे “यदभिप्रायेषु सज्जते” इति भाष्य-
प्रयोगादिति भावः । ४ इति मते त्विति । इदमेव युक्तम्, तपरकरणफलस्य भाष्येऽनुक्तत्वात् ॥
५ मूर्छा इति । आकारो निष्ठायाम्-“ आदितश्च” इतीणिनषेधार्थः । मूर्त इति ॥ ६ युच्छतीति ।
अन्तरङ्गत्वात्तकि अलघूपधत्वान्न गुणः । “वर्णादाङ्गं बलीय” इति तु आङ्गवार्णयोर्युगपत्प्राप्तावेव ॥
७ उञ्छः कणश आदानमिति । आपणादौ पतितकणानामेकशो ग्रहणमुञ्छः । क्षेत्रादौ स्वामित्यक्त-
कणिशायर्जनं शिलम् । इत्यर्थः ॥