सामग्री पर जाएँ
सर्वकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 324, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 324

त्रकि ढौकृ त्रौकृ ष्वष्क वस्क मस्क टिकृ टीकृ तिकृ तीकृ रवि लघि
गत्यर्थाः ॥ कङ्कते । डुढौके । तुत्रौके ॥ सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः * ॥
ष्वष्कते । पष्वष्के ॥ अत्र तृतीयो दन्त्यादिरित्येके ॥ लघि भोजननिवृत्तावपि ॥ ३४ ॥
अघि वधि मधि गत्याक्षेपे । आक्षेपो निन्दा गतौ गत्यारम्भे चेत्यन्ये । अङ्घते । आ-
नङ्घे । वङ्घते । मङ्घते । मवि कैतवे च । ३७ ॥ राघृ लाघृ द्राघृ सामर्थ्ये । राघते
॥ ३८ ॥ लाघते ॥ ३९ ॥ द्राधृ इत्यपि केचित् । द्राघृ आयामे च । आयामो दैर्घ्यम् ।
द्राघते ॥ ४१ ॥ श्लाघृ कथने श्लाघते ॥ ४२ ॥ * ॥ अथ परस्मैपदिनः पञ्चा-
शत् ॥ फक्क नीचैर्गतौ । नीचैर्गतिर्मन्दगमनमसद्व्यवहारश्च । फक्कति । पफक्क ॥ १ ॥ तक
हसने । तकति ॥ २ ॥ तकि कृच्छ्रजीवने । तङ्कति ॥ ३ ॥ बुक्क भषणे । भषणं श्वरवः ॥
बुक्कति ॥ ४ ॥ कख हसने । प्रनिकखति ॥ ५ ॥ ओख् राखृ लाखू द्राखृ धाखृ
शोषणालमर्थयोः । ओखति । ओखांचकार ॥ १० ॥ शाखृ श्लाखृ व्याप्तौ । शाखति
॥ १२ ॥ उख उखि वख वखि मख मखि णख णखि रख रखि लख लखि
इख इखि ईखि वल्ग रगि लगि अगि वगि मगि तगि त्वगि श्रगि श्लगि
इगि रिगि लिगि गत्यर्थाः । द्वितीयान्ताः पञ्चदश । तृतीयान्तास्त्रयोदश । इह खान्तेषु
रिख त्रख त्रिखि शिखि इत्यपि चतुरः केचित्पठन्ति ॥ अभ्यासस्यासवर्णे ।
६।४।७८ ॥ अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि ॥ उवोख । संनिपातपरिभा-
षया इजादेरित्याम् ॥ ऊखतुः । ऊखुः । ईह सवर्णदीर्घस्याभ्यासग्रहणेन ग्रहणाद्ध्रस्वः प्राप्तो
न भवति सकृत्प्रवृत्तत्वात् । आङ्गत्वाद्धि पर्जन्यवल्लक्षणप्रवृत्त्या ह्रस्वे कृते ततो दीर्घः ।
१ ननु “ष्वष्कते” इत्यादौ “धात्वादेः” इति सत्वं कुतो नेति शङ्कायामाह-“सुब्धातु” इति ।
सुब्धातोरुदाहरणम्--“षण्डीयति” इत्यादि ॥ भाष्ये तु “धात्वादेः” इति सूत्रे उपदेशपदसम्बन्धेन
तत्रत्यं धातुग्रहणमेतद्वार्तिकस्थसुब्धातुग्रहणं च प्रत्याख्यातम् । यदि तु ष्ठिवुप्रभृतीनामपि यादित्वादेव सिद्धि-
रिति विभाव्यते तदा तेषां ग्रहणमप्यनावश्यकम् । इति बोध्यम् ॥ २ उवोखेति । “द्विर्वचनेऽचि”
इति निषेधात् पूर्वं द्वित्वे कृते उकारस्य वार्णादङ्गस्य बलीयस्त्वात् सवर्णदीर्घं बाधित्वा गुणे कृते उवङ् । पूर्व-
स्यैव विधौ स्थानिवत्त्वेन सवर्णदीर्घे कर्तव्ये न गुणस्य स्थानिवत्त्वम् । उवडि कर्तव्येऽपि न स्थानिवत्त्वम्,
असवर्णग्रहणसामर्थ्यात् । एतत्प्रवृत्तिकालेऽचः परस्मिन्नित्यस्य प्रवृत्तौ असवर्णपरत्वाभावेन तद्वैयर्थ्यं स्पष्टमेव ॥
३ ननु ‘उवोख’ इत्यत्र गुणे (‘ऊखतुः’ इत्यादौ कृते सवर्णदीर्घे) कृते इजादिगुरुमत्त्वेन “इजादेश्च
गुरुमतः-” इत्यामा भाव्यमित्याशङ्कायामाह-सन्निपातेति । आमि सति “आमः” इति लुकि धातो
र्णल्(लिट्)परत्वव्याघातः स्यादिति भावः ॥ ४ ननूखतुरित्यादौ “अन्तादिवच्च” इति पूर्वस्यान्तवत्त्वेनाऽ-
भ्यासत्वाद् “ह्रस्वः” इति ह्रस्वापत्तिरित्याशङ्क्य समाधत्ते-इहेति । ऊखतुरित्यादावित्यर्थः ॥ ह्रस्वाप्रवृत्तौ
हेतुमाह-सकृत्प्रवृत्तत्वादिति । “लक्ष्ये लक्षणं सकृदेव प्रवर्तते” इति परिभाषाप्रवृत्तेरिति भावः ॥
५ प्राक् तत्प्रवृत्तिमेव दर्शयति-आङ्गत्वादिति । आङ्गत्वात् पूर्वं ह्रस्वे कृते ततो दीर्घ इत्यन्वयः ॥ ननु
“अकृतकारि खल्वपि शास्त्रमग्निवत्” इति न्यायेन ह्रस्वस्य ह्रस्वो न स्यादत आह-पर्ज्जन्येति ।
“पर्जन्यवल्लक्षणप्रवृत्तिः” इति परिभाषया ह्रस्वस्यापि ह्रस्व इति भावः ॥ तदुक्तम्-“इको झल्”
इति सूत्रे भाष्ये “कृतकारि खल्वपि शास्त्रं पर्जन्यवत्” इति ॥ नच ‘लक्ष्ये लक्षणस्य सकृदेव
प्रवृत्तिः’ इत्यत्र न मानमिति वाच्यम्, “समो वा लोपमेके” इति लोपेनैकसकारस्य द्वित्वेन द्विसकारस्य
पुनर्द्वित्वेन च त्रिसकारस्य सिद्धौ “समस्सुटि” इति सूत्रस्यैव मानत्वात् ॥
१८