सामग्री पर जाएँ
सर्वकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 261, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 261

( २१० ) सिद्धान्तकौमुद्याम्-
मापर्णिकम् ॥ अण् Aमहिष्यादिभ्यः । ४ । ४ । ४८ ॥ महिष्या धर्म्यं माहिषम् । याजमा-
नम् ॥ ऋतोऽञ् । ४ । ४ । ४९ ॥ यातुर्धर्म्यं यात्रम् ॥ नराच्चेति वक्तव्यम् * ॥ नरस्य
धर्म्यं नारी ॥ विशासितुरिड्लोपश्चाश्च वक्तव्यः * ॥ विशासितुर्धर्म्यं वैशस्त्रम् ॥ विभाज-
यितुर्णिंलोपश्चाश्च वाच्यः * ॥ विभाजयितुर्धर्म्यं वैभाजित्रम् ॥ अवक्रयः । ४।४।५० ॥
षष्ठ्यन्ताट्ठक् स्यादवक्रयेऽर्थे ॥ आपणस्यावक्रय आपणिकः । राजग्राह्यं द्रव्यमवक्रयः ॥
तदस्य पण्यम् ।४।४।५१ ॥ अपूपाः पण्यमस्य आपूपिकः ॥ लवणाट्ठञ् । ४ । ४।५२ ॥
लावणिकः ॥ Bकिसरादिभ्यः ष्ठन् । ४ । ४ । ५३ ॥ किसरं पण्यमस्य किसरिकः ।
षित्त्वान्ङीष् । किसरिकी । किसर, उशीर, नलद इत्यादि किसरादयः सर्वे सुगन्धिद्रव्य-
विशेषवाचिनः ॥ शलालुनोऽन्यतरस्याम् । ४ । ४ । ५४ ॥ ष्ठन्स्यात् पक्षे ठक् ॥ शला-
लुकः । शलालुकी । शालालुकः । शालालुकी । शलालुः सुगन्धिद्रव्यविशेषः ॥ शिल्पम्
।४।४।५५ ॥ मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः ॥ मड्डुकझर्झरादणन्यतरस्याम् । ४ ।
।४।५६ ॥ मड्डुकवादनं शिल्पमस्य माड्डुकः । माड्डुकिकः । झार्झरः । झार्झरिकः ॥ प्रहरणम् ।
।४।४।५७ ॥ तदस्येत्येव । असिः प्रहरणमस्य आसिकः । धानुष्कः ॥ परश्वधाट्ठञ् ।४।४।
५८ ॥ पारश्वधिकः ॥ शक्तियष्ट्योरीकक् । ४ । ४ । ५९ ॥ शाक्तीकः । याष्टीकः ॥
अस्ति नास्ति दिष्टं मतिः । ४।४।६० ॥ तदस्येत्येव ॥ अस्ति परलोक इत्येवं मति-
र्यस्य स आस्तिकः । नास्तीति मतिर्यस्य स नास्तिकः । दिष्टमिति मतिर्यस्य स दैष्टिकः ॥
शीलम् ।४।४।६१ ॥ अपूपभक्षणं शीलमस्य आपूपिकः ॥ Cछत्रादिभ्यो णः ।४।४।
६२ ॥ गुरोर्दोषणामावरणं छत्रं तच्छीलमस्य छात्रः ॥ कार्मस्ताच्छील्ये ।६।४।१७२॥
कार्म इति ताच्छील्ये णे टिलोपो निपात्यते ॥ कर्मशीलः कार्मः । 'नस्तद्धिते' इत्येव सिद्धे
'अण्कार्यं ताच्छीलिके णेऽपि' । तेन चौरी तापसीत्यादि सिद्धम् ॥ ताच्छील्ये किम् ?
कार्म्मणः ॥ कर्माध्ययने वृत्तम् । ४ । ४ । ६३ ॥ प्रथमान्तात्षष्ठ्यर्थे ठक् स्यादध्ययने वृत्ता
या क्रिया सा चेत्प्रथमान्तस्यार्थः । ऐकान्यिकः । यस्याध्ययने प्रवृत्तस्य परीक्षाकाले विपरी-
तोच्चारणरूपं स्खलितमेकं जातं सः ॥ बह्वचपूर्वपदाट्ठञ् । ४ । ४ । ६४ ॥ प्राग्विशये ॥
द्वादशान्यानि कर्माणिध्ययने वृत्तान्यस्य द्वादशान्यिकः । द्वादशापपाठा अस्य जाता इत्यर्थः ॥
हितं भक्षाः । ४ । ४ । ६५ ॥ अपूपभक्षणं हितमस्मै आपूपिकः ॥ तदस्मै दीयते नियु-
क्तम् । ४ ।४।६६ ॥ अग्रभोजनं नियतं दीयते अस्मै आग्रभोजनिकः ॥ श्राणामां-
सौदनाट्टिठन् ।४।४।६७ ॥ श्राणा नियुक्तं दीयतेऽस्मै श्राणिकः । श्राणिकी ॥ मांसौदन-
A महिषी, प्रजापति, प्रजावती, प्रलेपिका, विलेपिका, अनुलेपिका, पुरोहित, मणिपाली, अनुचारक,
होतु, यजमान । इति महिष्यादिः ॥
B किसर ( किन्नर ), नरद, नलद, स्थागल, तगर, गुग्गुल, उशीर, हरिद्रा, हरिद्रु, पर्णी। इति किसरादिः॥
C छत्र, शिक्षा, प्ररोह, स्था, बुभुक्षा, चुरा, तितिक्षा, उपस्थान, कृषि, कर्मन्, विश्रन्था, तपस्, सत्य,
अनृत, विशिखा, भक्षा, उदस्थान, पुरोडा, विक्षा, चुक्षा, मन्द्र । इति छत्रादिः ॥