सामग्री पर जाएँ
सर्वकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 232, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 232

दाक्षायणः ॥ द्व्यचः किम् ? औपगविः ॥ त्यदादीनां फिञ् वा वाच्यः * ॥ त्यादायनिः
त्यादः ॥ उदीचां वृद्धादगोत्रात् ।४।१।१५७ ॥ आम्रगुप्तायनिः ॥ प्राचां तु—आम्र-
गुप्तिः ॥ वृद्धात्किम् ? दाक्षिः ॥ अगोत्रात्किम् ? औपगविः ॥ ᴬवाकिनादीनां कुक् च ।
।४।१।१५८ ॥ अपत्ये फिञ् वा ॥ वाकिनस्यापत्यं वाकिनकायनिः । वाकिनिः ॥ पुत्रा-
न्तादन्यतरस्याम् ।४।१।१५९ ॥ अस्माद्वा फिञ् सिद्धस्तस्मिन्परे पुत्रान्तस्य वा कुक्
विधीयते । गार्गीपुत्रकायणिः । गार्गीपुत्रायणिः । गार्गीपुत्रिः ॥ प्राचामवृद्धात्फिन्बहु-
लम् ।४।१।१६० ॥ ग्लुचुकायनिः ॥ मनोर्जातावन्यतौ षुक् च ।४।१।१६१ ॥
समुदायार्थो जातिः । मानुषः । मनुष्यः ॥ जनपदशब्दात्क्षत्रियादञ् ।४।१।१६८ ॥
जनपदक्षत्रिययोर्वाचकादञ् स्यादपत्ये ॥ दाण्डिनायनेति सूत्रे निपातनाद्विलोपः । ऐक्ष्वाकः ।
ऐक्ष्वाकौ ॥ क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत् * ॥ तद्राजमाचक्षाणस्त-
द्राज इत्यन्वर्थसंज्ञासामर्थ्यात् । पञ्चालानां राजा पाञ्चालः ॥ पूरोरण् वक्तव्यः * ॥ पौरवः ॥
पाण्डोर्डर्घञ् * ॥ पाण्ड्यः ॥ साल्वेयगान्धारिभ्यां च ।४।१।१६९ ॥ आभ्यामपत्येऽञ् ।
वृद्धेदिति ञ्यङोऽपवादः ॥ साल्वेयः । गान्धारः । तस्य राजन्यप्येवम् ॥ द्व्यञ्मगधकलि-
ङ्गशूरमसादण् ।४।१।१७० ॥ अञोऽपवादः ॥ द्व्यच्—आङ्गः । वाङ्गः । सौह्मः ॥ मागधः ।
कालिङ्गः । सौरमसः । तस्य राजन्यप्येवम् ॥ वृद्धेत्कोसलाजादाञ्ज्यङ् ।४।१।१७१ ॥
वृद्धात्—आम्बष्ठ्यः । सौवीर्यः । इत्—आवन्त्यः ॥ कौसल्यः । अजादस्यापत्यं आजाद्यः ॥
कुरुनादिभ्यो ण्यः ।४।१।१७२ ॥ कौरव्यः । नैषध्यः ॥ 'स नैषधस्यार्थपतेरित्यादौ' तु
शैषिकोऽण् ॥ साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् । ४ । १ । १७३ ॥ साल्वो
जनपदस्तदवयवा उदुम्बरादयस्तेभ्यः प्रत्यग्रथादिभ्यस्त्रिभ्यश्च इञ् । अञोऽपवादः ॥ औदु-
म्बरिः । प्रात्यग्रथिः । कालकूटिः । आश्मकिः । राजन्यप्येवम् ॥ ते तद्राजाः । ४ । १ ।
१७४ ॥ अञादयः एत्संज्ञाः स्युः ॥ तद्राजस्य बहुषु तेनैवास्त्रियाम् ।२।४।६२ ॥
बहुष्वर्थेषु तद्राजस्य लुक्स्यात्तदर्थकृते बहुत्वे न तु स्त्रियाम् ॥ इक्ष्वाकवः । पञ्चाला इत्यादि ।
कथं तर्हि 'कौरव्याः पशवः'—तस्यामेव रघोः पाण्ड्याः' इति च ? कौरव्ये पाण्ड्ये च
साधव इति समाधेयम् ॥ 'रघूणामन्वयं वक्ष्ये,' निरुध्यमाना यदुभिः कथंचिदिति तु रघुयदु-
शब्दयोस्तदपत्ये लक्ष्णया ॥ कम्बोजाल्लुक् ।४।१।१७५ ॥ अस्मात्तद्राजस्य लुक् ॥
कम्बोजः । कम्बोजौ ॥ ᴮकम्बोजादिभ्य इति वक्तव्यम्* ॥ चोलः । शकः । द्व्यञ्लक्ष-
A. वाकिन, गौधेर, कार्कश, काक, लङ्का, चर्मिन्वर्मिणोर्नेलोपश्च । इति वाकिनादिः ॥
B कम्बोज, चोल, केरल, शक, यवन । इति कम्बोजादिः ॥
१ 'कौरव्याः' 'पाण्ड्याः' इत्यत्र बहुवचनेऽपि तद्राजस्य लुक् कुतो नेति प्रश्नाशयः ॥ २ रघुयदुशब्द-
योर्जनपदसमानशब्दत्वाभावेन ततो जातस्य प्रत्ययस्य तद्राजत्वाभावेऽपि कथं लुक्' इति शङ्कामपनुदति—
रघूणामिति ॥