वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 218, कुल 835 में से
संदर्भ में पढ़ेंकर्णकुन्दवराहपुच्छपदेषु दीर्घो वाच्यः* ॥ श्वादन्तः । इत्यादि ॥ प्रनिरन्तःशरेक्षुप्ल-
क्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि ।८।४।५ ॥ एभ्यो वनस्य णत्वं स्यात् ॥
प्रवणम् । कार्ष्यवणम् । इह षात्परत्वाण्णत्वम् ॥ विभाषौषधिवनस्पतिभ्यः । ८ । ४ ।
६ ॥ एभ्यो वनस्य णत्वं वा स्यात् ॥ दूर्वावणम् । दूर्वावनम् । शिरीषवणम् । शिरी-
षवनम् । द्वयच्त्र्यज्भ्यामेव * ॥ नेह—देवदारुवनम् ॥ $^A$इरिकादिभ्यः प्रतिषेधो
वक्तव्यः * ॥ नेह—इरिकावनम् । मिरिकावनम् ॥ वाहनमाहितात् । ८ । ४ । ८ ॥
आरोप्य यदुह्यते तद्वाचिस्थान्निमित्तात्परस्य वाहननकारस्य णत्वं स्यात् ॥ इक्षुवाणम् ॥ आहि-
तात्किम् ? इन्द्रवाहनम् । इन्द्रस्वामिकं वाहनमित्यर्थः । वहतेर्ल्युटि वृद्धिरिहैव सूत्रे निपात-
नात् ॥ पानं देशे ।८।४।९ ॥ पूर्वपदस्थान्निमित्तात्परस्य पानस्य नस्य णत्वं स्याद्देशे गम्ये ॥
क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सुरापाणाः प्राच्याः । पीयते इति पानम् कर्मणि
ल्युट् ॥ वा भावकरणयोः ।८।४।१० ॥ पानस्येत्येव ॥ क्षीरपानम् । क्षीरपाणम् ॥
गिरिनद्यादीनां$^B$ वा * ॥ गिरिनदी । गिरिणदी । चक्रनितम्बा । चक्रणितम्बा ॥ प्रातिप-
दिकान्तनुम्विभक्तिषु च ।८।४।११ ॥ पूर्वपदस्थान्निमित्तात्परस्य एषु स्थितस्य नस्य
णो वा स्यात् ॥ प्रातिपदिकान्ते—माषवापिणौ । नुमि—व्रीहिवापाणि । विभक्तौ—माषवापेण ।
पक्षे माषवापिनावित्यादि ॥ उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वम् । नेह—गर्गाणां भगिनी
गर्गभगिनी । अत एव नुम्ग्रहणं कृतम् । अङ्गस्य नुग्विधानात्तद्भक्तो हि नुम् नतूत्तरपदस्य ।
किंच । प्रहिण्वन्नित्यादौ हिवेर्नुमो णत्वार्थमपि नुम्ग्रहणम् । प्रेन्वनमित्यादौ तु क्षुम्भादि-
त्वात्न ॥ $^C$युवादेर्न * ॥ रम्ययूना । परिपक्वानि ॥ एकाजुत्तरपदे णः ॥ नित्यमित्युक्तम् ।
वृत्रहणौ । हरिं मानयतीति हरिमाणी । नुमि—क्षीरपाणि । विभक्तौ—क्षीरपेण । रम्यविणा ॥
कुमति च । ८।४।१३ ॥ कवर्गवत्युत्तरपदे प्राग्वत् ॥ हरिकामिणौ । हरिकामाणि । हरि-
कामेण ॥ पदव्यवायेऽपि । ८।४।३८ ॥ पदेन व्यवधानेऽपि णत्वं न स्यात् ॥ माषकुम्भ-
वापेन । चतुरङ्गयोगेन ॥ अतद्धित इति वाच्यम् * ॥ आर्द्रगोमयेण ॥ शुष्कगोमयेण ॥
A. इरिका, मिरिका, तिमिरा । इतीरिकादिराकृतिगणः ॥
B गिरिनदी, गिरिनख, गिरिनडथ, गिरिनितम्ब, चक्रनदी, चक्रनितम्ब, तूर्यमान, माषोन, आर्गेयन ः
इति गिरिनद्यादिराकृतिगणः ॥
C युवन्, पक्व, इत्यादि युवांदिरपि क्षुम्नाद्यन्तर्गण एवेति भाष्यस्वरसः ॥
१ आदिना श्वापुच्छम् । श्वापद इत्यादि । 'दृश्यते यथा तथैव साधु' इत्यर्थात् श्वपदम् श्वपुच्छमित्याद्यपि ।
२ अत एव समासरूपप्रातिपदिकान्तस्येवाग्रहणादेव उत्तरपदभूतप्रातिपदिकान्तस्यैव ग्रहणादेव ॥ ३ समासरूप-
प्रातिपदिकस्यैवाङ्गत्वेन तदुद्देशेनैव नुमो विधानान्नुम् समासावयव एव नतूत्तरपदावयव इति भावः ॥
४ इत्यादाविति । 'नुमः' इति शेषः ॥ कृन्नकारस्य तु यथा न भवति तथा तत्रैव वक्ष्यामः ॥
५ हरिं मानयतीति । ण्यन्तान्मन्यतेः क्विप् । प्राक्सुबुत्पत्तेरपि समासे नान्तत्वान्डीपि उत्तरपदभूतप्राति-
पदिकान्तत्वान् नकारस्य णत्वं भवतीति भावः ॥ ६ 'व्यवधायकपदनिमित्तिनोर्मध्ये तद्धितो न चेत्'
इत्यर्थः ॥ 'पदे व्यवायः' इति विग्रहस्वीकारेण त्वेतत्प्रत्याख्यातं भाष्ये ॥