वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 205, कुल 835 में से
संदर्भ में पढ़ेंउपदशं दन्तोष्ठम् । उपदशाः दन्तोष्ठाः ॥ आनङ् ऋतो द्वन्द्वे । ६।३।२५ ॥ विद्यायोनिसंब-
न्धवाचिनामृदन्तानां द्वन्द्वे आनङ् स्यादुत्तरपदे परे ॥ होतापोतारौ । होतृपोतृनेष्टोद्गातारः ।
मातापितरौ ॥ 'पुत्रेऽन्यतरस्यामित्यतो मण्डूकप्लुत्या पुत्रे इत्यनुवृत्तेः पितापुत्रौ ॥ देवता-
द्वन्द्वे च । ६।३।२६ ॥ इहोत्तरपदे परे आनङ् ॥ मित्रावरुणौ ॥ वायुशब्दप्रयोगे प्रति-
षेधः * ॥ अग्निवायू । वाय्वग्नी ॥ पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यस्य परिग्रहार्थम् । तेन ब्रह्मप्र-
जापती इत्यादी नानङ् । एतद्धि नैकहविर्भागित्वेन श्रुतं, नापि लोके प्रसिद्धं साहचर्यम् ॥
ईदग्नेः सोमवरुणयोः । ६।३।२७ ॥ देवताद्वन्द्वे इत्येव ॥ अग्नेस्तुत्स्तोमसोमाः । ८।३।
८२ ॥ अग्नेः परेषांमेषां सस्य षः स्यात्समासे ॥ [ अग्निष्टुत् । अग्निष्टोमः ॥ ] अग्नीषोमौ ।
अग्नीवरुणौ ॥ इद्वृद्धौ । ६।३।२८ ॥ वृद्धिमत्युत्तरपदे अग्नेरिदादेशः स्याद्देवताद्वन्द्वे ॥ अग्न्यम-
रुतौ देवते अस्य आग्निमारुतं कर्म । अग्नीवरुणौ देवते अस्य आग्निवारुणम् । 'देवताद्वन्द्वे
चेत्युभयपदवृद्धिः । अलौकिके वाक्ये आनङ्मीत्त्वं च बाधित्वा इत् ॥ वृद्धौ किम् ? आग्नेन्द्रः ।
नेन्द्रस्य परस्येत्युत्तरपदवृद्धिप्रतिषेधः ॥ विष्णौ न * ॥ आग्नावैष्णवम् ॥ दिवो द्यावा । ६।३।
२९ ॥ देवताद्वन्द्वे उत्तरपदे ॥ द्यावाभूमी । द्यावाक्षामे ॥ दिवस्च पृथिव्याम् । ६।३।
३० ॥ दिव इत्येव । चाद् द्यावा । आदेशे अकारोच्चारणं सकारस्य रुत्वं मा भूदित्येतदर्थम् ।
द्यौश्च पृथिवी च दिवस्पृथिव्यौ । द्यावापृथिव्यौ ॥ छन्दसि दृष्टानुविधिः ॥ द्यावा चिदस्मै
पृथिवी । दिवस्पृथिव्योररतिरित्पन्न पदकारा विसर्गं पठन्ति ॥ उषासोषसः । ६।३।३१ ॥
उषस्शब्दस्योषासादेशो देवताद्वन्द्वे ॥ उषासासूर्यम् ॥ मातरपितरावुदीचाम् । ६।३।३२ ॥
मातरपितरौ ॥ उदीचां किम् ? मातापितरौ ॥ द्वन्द्वाच्चुदषहान्तात्समाहारे । ५।४।
१०६ ॥ चवर्गान्ताद्दषहान्ताच्च द्वन्द्वादच् स्यात्समाहारे ॥ वाक् च त्वक् च वाक्त्वचम् ।
त्वक्स्रजम् । शमीदृषदम् । वाक्त्विषम् । छत्रोपानहम् ॥ समाहारे किम् ? प्रावृट्शरदौ ॥
इति द्वन्द्वप्रकरणम् ।
अथैकशेषप्रकरणम् ।
सरूपाणाम् । रामौ । रामाः ॥ विरूपाणामपि समानार्थानाम् * ॥ वक्रदण्डश्च कुटिल-
दण्डश्च वक्रदण्डौ । कुटिलदण्डौ ॥ वृद्धो यूना तल्लक्षणश्चेदेव विशेषः । १।२।६५ ॥
१ ऋदन्तानामिति । 'ऋतो विद्यायोनिसंबन्धेभ्यः ' इत्यतः 'ऋतः ' इत्यनुवर्तमाने पुनर् 'ऋतः'
इत्युपादानसामर्थ्याद् अवधारणप्रतीत्या 'ऋदन्तानामेव द्वन्द्वे ' इत्यर्थो बोध्यः । तेन पितृपितामहादौ नैवा-
नङ् ॥ २ पुत्र इत्यनुवृत्तेरिति । 'ऋदन्तस्य पुत्रे आनङ् ' इत्यर्थाङ्गीकारेण तातपुत्रावित्यादौ नानङ्
३ षत्वोदाहरणत्वेनानयोरपि निर्देशोऽत्र ॥ ४ अन्तरङ्गत्वल्लौकिकविग्रहवाक्य इव जातम् आनङम् ईत्त्वं
च को वारयेद् अत आह-अलौकिक इति । उपसंजनिष्यमाणनिमित्तोप्यवाद उपसंजातनिमित्तम-
प्युत्सर्गं बाधते ' इति न्यायादिकारः स्वनििमित्तवृद्धेरुपसंजनिष्यमाणत्वेन उपसंजातद्वन्द्वरूपनिमित्तमपि आनङम्
ईत्त्वं च बाधते इति भावः ॥ ५ मध्ये 'चिदस्मै ' इति पददानेन सूचिते समासाभावेपि द्यावादेशदर्शनाद् वेदे
द्यावादेशे नैव द्वन्द्रापेक्षेति भावः ॥ लोके विसर्गस्थानिरुत्वबाधकत्वनेपि पदपाठे विसर्गदर्शनेन रुत्वं भवत्येवेति भावः ॥