सामग्री पर जाएँ
सर्वकोश
वैशेषिक दर्शन (प्रशस्तपाद भाष्य सहित)

वैशेषिक दर्शन (प्रशस्तपाद भाष्य सहित)

Vaisheshika Darshan with Prashastapada Bhashya

महर्षि कणाद / महर्षि प्रशस्तपाद द्वारा

स्रोत: चौखम्बा संस्कृत सीरीज · चौखम्बा संस्कृत सीरीज · 1950 (उद्गम)

DevanagariSanskritpublished759 पृष्ठ

पृष्ठ 62, कुल 759 में से

संदर्भ में पढ़ें
पृष्ठ 62

संशोधननिवेदनम् ५७
एवमेव सप्तषष्ट्युत्तर-षट्शततमपृष्ठे (पृ. ६६७) मुद्रितः 'क्षत्रियस्य सम्यक्...
स्वकीयाश्च संस्काराः' भाष्यांशोऽष्टषष्ट्युत्तर-षट्शततमपृष्ठे (पृ. ६६८) मुद्रितः
'शूद्रस्य पूर्ववर्णपारतन्त्र्यम् अभ्यञ्नादिवर्जनं च' भाष्यांशो नवषष्ट्युत्तर- -
षट्शततमपृष्ठे (पृ. ६६९) विहितः ।
तथा च नवषष्ट्युत्तरषट्शततमपृष्ठे (पृ. ६६९) मुद्रितः 'विद्याव्रतस्नात-
कस्य......महायज्ञानां' भाष्यांशः सर्वैरेव भाषानुवादेन सह सप्तत्युत्तरषट्शत-
तमपृष्ठे (पृ. ६७०), एवमेव एकसप्तत्युत्तर-षट्शततमपृष्ठस्थः (पृ. ६७१) 'ब्रह्म-
चारिणो गृहस्थस्य वा ....वानप्रस्थस्य' भाष्यांशस्तथा द्व्यधिकसप्तत्युत्तरषट्शतत-
मपृष्ठस्थः (पृ. ६७२) 'वनस्थस्य धर्मसाधनं कथयति ....हुतशेषभोजनम्' कन्द-
ल्यंशश्च सर्वत्रैव द्व्यधिकसप्तत्युत्तर-षट्शततमपृष्ठे (पृ. ६७२) परिवर्तितः ।
इत्थमेव सप्तनवत्युत्तर-षट्शततमपृष्ठे (पृ. ६९७) शिवस्तवबोधकस्य 'जगदङ्कूर-
बीजाय चन्द्रार्धार्धेन्दुमौलय' इति कन्दलीस्थश्लोकस्य स्पष्टार्थावगमको हिन्दी-
भाषानुवादो वाक्येनैकेनाङ्कितः ।
एकचत्वारिंशदुत्तर-सप्तशततमपृष्ठे (पृ. ७४१) 'यजन्ति जगदुत्पत्तिस्थितिसंहृति-
हेतवः तन्निषेधार्थमाह-' इति कन्दल्यंशादधोलिखितः 'मणियों का चोर की तरफ
जाना ....कर्मनिरूपण समाप्त हुआ' इति हिन्दीभाषानुवादांशस्तत्रैव पृष्ठे 'च प्रक्षोभणं
चलनम् ......कर्मपदार्थः समाप्तः' इति कन्दल्यांशदत्तसङ्ख्यतया परिवर्तितः ।
तथैव पञ्चषष्ट्युत्तर-सप्तशततमपृष्ठे (पृ. ७६५) 'चतुर्युगचतुर्विद्या ......उत्पाद-
विना-' इति कन्दल्यंशस्तत्रैव पृष्ठे 'अप्रत्यक्ष व्यक्तियों में भी प्रवृत्ति...... सामान्य-
निरूपण समाप्त हुआ' इति हिन्दीभाषानुवादांशादधो न्यायकन्दलीति लिखित्वा
परिवर्तितः ।
प्रकृतग्रन्थे मूलं प्रशस्तपादभाष्यं तद् दुरवग्राह्यार्थावबोधिका न्यायकन्दलीति टीका
च भूतपूर्वानुसन्धानसहायकैः श्रीदुर्गाधरझा-महोदयैरपि तदुभयभाष्यटीकयोः सम्यग्-
र्थविबोधाय्यातिसरलहिन्दीभाषानुवादेनालङ्कृता । अत्र प्राचीनपरम्परया चूंकि-अगर-
मगर-प्रभृतियावनभाषामिश्रितशब्दानां प्रयोगो बाहुल्येन कृतो विद्यते, इतः पूर्वं
तेषामेव मिश्रितभाषाशब्दानां हिन्दीभाषाप्राशस्त्यात् । अतः क्वचन तत्तत्स्थलेषु
यतः-यदि-किन्तु-प्रभृतिशब्दानां प्रयोगप्रयासः कृतो वर्तते ।
ईदृक्प्रशस्तग्रन्थविषयविशेषे सहयोगिनस्तथा ग्रन्थमुद्रणकालमध्ये ममातर्किता-
स्वस्थतायां प्रायो मासद्वयं यावदीक्ष्यपत्र-संशोधनकर्मदत्तावधानाश्चेमे पं. श्रीरामगोविन्द-
शुक्लमहोदयास्तेऽवश्यं धन्यवादर्हाः । तथैव ग्रन्थस्यास्य प्रशस्तप्रकाशनकर्मणि
शैघ्योत्पादनाय प्रकाशनाधिकारि-डॉ. हरिश्चन्द्रमणित्रिपाठिमहोदयाश्चापि सततं
साधुवादर्हाः सन्तीति निवेद्यते ।
वसन्त-पञ्चमी
२०३४ वैक्रमाब्दे उमाशङ्करत्रिपाठी
१२-२-७८ खैस्ताब्दे अनुसन्धानसहायकः
सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः