उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 109, कुल 439 में से
संदर्भ में पढ़ें९० उत्तररामचरितं [ ४-८
कष्टं यतान्यदिव दैववशेन जाता
दुःखात्मकं किमपि भूतमहो विपाकः ॥ ६ ॥
य एव मे जनः पूर्वमासीन्मूर्तो महोत्सवः ।
क्षते क्षारमिवासह्यं जातं तस्यैव दर्शनम् ॥ ७ ॥
( ततः प्रविशत्यरुन्धती कौसल्या कञ्चुकी च । )
अरन्धती--ननु ब्रवीमि द्रष्टव्यः स्वयमुपेत्यैव वैदेह इत्येष वः कुलगु-
रोरादेशः । अत एव चाहं प्रेषिता । तत्कोऽयं पदे पदे महाननध्यवसायः ।
कञ्चुकी—देवि संस्तम्भात्मानमनुरुध्यस्व भगवतो वसिष्ठस्यादेशमिति
विज्ञापयामि ।
कौसल्या--ईरिसे काले मिहिलाहिवो मए दिट्ठव्वो त्ति समं जेव्व
सव्वाइं दुक्खाईं समुब्भवन्ति । ता ण सक्कुणोमि उव्वट्टमाणमूलबन्धणं
हिअअं पज्जवस्थावेदुम् । [ईदृशे काले मिथिलाधिपो मया द्रष्टव्य इति सममेव
सर्वाणि दुःखानि समुद्भवन्ति । तन्न शक्नोम्युद्वर्त्तमानमूलबन्धनं हृदयं पर्यवस्था-
पयितुम् ।
अरुन्धती--अत्र कः सन्देहः ।
निवृत्ता यद्येते
त्ति सन्तानवाहिन्यपि मानुषाणां
दुःखानि सम्बन्धिवियोगजानि ।
॥ ६ ॥ पदेन फलेन । कष्टं खेदकरि । चिन्तात्मकं चिन्तास्वरूपम् ।
अन्यत् जगद्विलक्षणम् । किमपि भूतं जन्तुरिव जाता बतेत्यर्थः । 'कष्टं
त्रिषु स्यात्खेदकारिनि' इत्यमरमाला । अत एव 'कष्टा रन्ध्रव्यथा वत्थ' इति
मुरारिः । 'चिन्ता हृदयसन्ताप' इति, 'भूतं क्ष्मादौ च जन्तौ च' इति,
'वतानुकम्पने' इति हैमविश्वहडावुभा । अहो विपाकः विरुद्धपरिणाम इति
यावत् । अत्र युक्तायुक्तास्तावदवगमनभ्रान्तिभ्या शिरसि दोलायन्ते ॥ ६ ॥
य एव मे जन इति ॥ ७ ॥ जनः कौसल्या । 'स्त्रीपुंसी कथयेज्जनः' इति
काव्यदीपिकायां दण्डी व्याजहार ॥ ७ ॥ गुरोर्वसिष्ठस्य । अध्यवसायः
निश्चय । पदे पदे इत्यनेन प्रतिक्षणं भिन्नभिन्न इति व्यज्यते । संस्तभ्य
स्थिरीकृत्य । अनुरुध्यस्व अनुवर्त्तस्व ॥ ईदृशे काले मिथिलाधिपो मया
द्रष्टव्य इति सममेव सर्वदुःखानि समुद्भवन्ति । तस्मान्न शक्नोमि उद्वर्त्तमानमूल-
बन्धनं हृदयं व्यवस्थापयितुम् । समं युगपत् । उद्वर्त्तमानं चेष्टमानं मूल-
१ 'विकार' न. २ अस्मात्पूर्वं 'अवमपरः पापो दशाविपर्यास.' इत्यधिकं
क-घ-पुस्तक्रयोः । ३ 'महानध्यवसाय.' न-टी. ४ 'उप्पट्टमाण' घ-घ.
५ 'सकण्णु' क-घ-घ.