सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 100, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 100

३-४७] उत्तररामचरितं ८३
नमो नमोऽपूर्वपुण्यजनदर्शनीयाभ्यामार्यपुत्रचरणकमलाभ्याम् । ( इति
मूर्च्छति )
तमसा—वत्से समाश्वसिहि समाश्वसिहि ।
सीता—( समाश्वस्य । ) ढिअधिरं दा मेहेन्तरेण पुण्णिमाचन्दस्स दं-
सणं । [दिग्धिक वा मेधान्तरेण पूर्णमाचन्द्रस्य दर्शनम् ।
तमसा—अहो संविधानकम् ।
एको रसः करुण एव निमित्तभेदा-
द्भिन्नः पृथक्पृथगिवाश्रयते विवर्तान् ।
आवर्तबुद्बुदतरङ्गमयान्विकारा-
नम्भो यथा सलिलमेव हि तत्समस्तम् ॥ ४७ ॥
रामः—अयि विमानराज इत इतः ।
दर्शनीयाभ्यामार्यचरणाभ्याम् । सुकृतपुण्येति पुनरुक्तिविरोध । सुष्ठु
कृतपुण्या इति परिहार । ते च ते जना. । शोभनं कृत्यं कृतं येन स- सुकृतः
स चासौ पुण्यजन राक्षस विभीषण इति यावत् । ढियधिरं मे बाष्पान्तरेण
पूर्णचन्द्रस्य दर्शनम् । अन्तरेण बाष्पस्तोमात् पूरोक्षगरूपेण अवकाशेनेत्यर्थ ।
'अन्तरमवकाशे' इत्यमर । राममुखपूर्णचन्द्रस्य बाष्पसङ्कटेन मुखेन्दुदर्शनम्,
न तु सौलभ्येनेति भाव ॥ कविस्तमसापात्रव्याजेनात्मनेपुण्यं स्तुवन् नाटक-
विरुद्धमलङ्केतरदैन्यभरितकरुणरसप्राधान्यदोषं दृष्वन ( ? ) क्रमेण परिहरति-
अहो इति । अहो आश्चर्य ॥ एको रसः करुण इति ॥ ४७ ॥ निमित्त-
भेदात् कारणविच्छित्तिविशेषात् । भिन्नः भेदित- सन् । पृथक् पृथक्
अन्यरसात्मनेति यावत् । विवर्तान् विपरीतपरिणामान् आश्रयते भजति ।
'अतत्वपरिणामे स्याद्विवर्त' इति कपिलः । अत्र करुणरस एव अन्यरसभे-
नापि परिणत इति फलितोऽर्थ । क्वचिद्द्वीपे भग्नाख्यातनचेनलताद्यालेषु
स्थितेषु सन्त- कदलीवनादिर्भाव इति प्रसिद्धि तद्बद्दिहाप्युन्नेयमिति श्लेषाप-
त्त्या । 'स्यादवर्तोऽम्भसां भ्रम' इत्यमर' । यथा आश्रयते इत्यध्याहार ।
समस्तं तत् आवर्तादिकं सलिलमेव हि । तथा च आवर्तबुद्बुदतरङ्गाद्यु-
पाधिभिः भिन्नं शद्व्यव्यम्- वस्तुत एकमेव । तथा शृङ्गारादिरसोपाधिभिर्भिन्न
इव दृश्यमानोऽपि रुद्रस्य रस- अन्यत्वेनदभिन्नः सन् एक एवेति भाव ॥
अस्मिन् पद्ये केचिच्छारन्द्रागुरः 'तथापि नर न रञ्जयति' इति भर्तृहरिगिरा
दर्शयन्तीति दिक् ॥ ४७ ॥ इत इतः आगच्छेति शेष ॥ अथ मधुरैणैव
१ 'मे बाष्पान्तरेण' टी. २ 'न पूर्णचन्द्रदर्शनम्' न; 'पूर्णचन्द्रस्य दर्शनम्'
कै.