सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)

Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary

आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा

DevanagariSanskritpublished86 पृष्ठ

६८ उत्तरगीतायां

तदुक्तम् ‘आलोड्य सर्वशास्त्राणि’ इत्यादि। उक्तं च हरि-
वंशे — ‘असत्कीर्तनकान्तारपरिवर्तनपांसुभिः। वाचं हरि-
कथालापगङ्गायैव पुनीमहे’ इति। तत्र दृष्टान्तमाह—हंसो
यथा अम्बुमिश्रत्वेऽपि अम्ब्त्वंशं विहाय क्षीरमेवोपादत्ते तद्व-
दिति भावः ॥

तस्मात्पाण्डित्यं निर्विद्येत्यादिश्रुत्या पाण्डित्यप्रकटनस्य
ब्रह्मोपासनाप्रतिबन्धकत्वेन सर्वमपि पाण्डित्यं हेयमित्याह—

पुराणं भारतं वेद-
शास्त्राणि विविधानि च।
पुत्रदारादिसंसारो
योगाभ्यासस्य विघ्नकृत् ॥ २ ॥

योगाभ्यासस्य आत्मैक्ययोगाभ्यासस्य। शेषं स्पष्टम् ॥
किं च आत्मविचारमन्तरेण इतरशास्त्राणि न विचारयि-
तव्यानीत्याह--

इदं ज्ञानमिदं ज्ञेयं
यः सर्वं ज्ञातुमिच्छति।
अपि वर्षसहस्रायुः
शास्त्रान्तं नाधिगच्छति ॥ ३ ॥

तृतीयोऽध्यायः । ६९
सहस्रवर्षपरिमितायुष्मानपि एकैकस्य शास्त्रस्य अन्त॑
पारं भावनिश्चयं वा नाधिगच्छति; किमुत वक्तव्यम् स-
र्वाणि शास्त्राणि नाधिगच्छतीति भावः ॥ ३ ॥
तर्हि सर्वमपि विहाय अधिगन्तव्यं वा किमित्याश-
ङ्क्याह—
विज्ञेयोऽक्षरसन्मात्रं
जीवितं चापि चञ्चलम् ।
विहाय शास्त्रजालानि
यत्सत्यं तदुपास्यताम् ॥ ४ ॥
अक्षरसन्मात्रं नाशरहितसत्तामात्रात्मक आत्मा विज्ञेयः ।
तत्र च वैराग्यार्थं जीवितमपि चञ्चलमिति विज्ञेयम् , ‘चर-
मश्वासवेलायां यत्कृत्यं तत्सद्य कुरु’ इति न्यायात् । तस्मा-
च्छास्त्रजालानि विहाय यत्सत्यं तदेवोपास्यतामिति ॥
इन्द्रियजये वैराग्यं स्वत एव जायत इत्याह—
पृथिव्यां यानि भूतानि
जिह्वोपस्थनिमित्तकम् ।
जिह्वोपस्थपरित्यागे
पृथिव्यां किं प्रयोजनम् ॥ ५ ॥

७० उत्तरगीतायां
जिह्वोपस्थनिमित्तकम् आहारव्यवायनिमित्तं सत् पृथिव्यां
यानि भूतानि सन्ति, प्रायशः तत्परित्यागी चेत्, पृथिव्यां
किं प्रयोजनम् , किमपि प्रयोजनं नास्तीत्यर्थः, 'जितं सर्वं
जिते रसे' इति न्यायात् ॥
एवमात्मसमाधिनिष्ठस्य सर्वत्र ब्रह्मदर्शनमेव, नान्यद्दर्शन-
मित्याह--
तीर्थानि तोयपूर्णानि
देवान्पाषाणमृन्मयान् ।
योगिनो न प्रपद्यन्ते
आत्मध्यानपरायणाः ॥ ६ ॥
तीर्थस्नानादिना देवतापूजादिना च अध्यात्मसमाधौ सिद्धे
पुनस्तेन किं प्रयोजनमिति भावः । स्पष्टमन्यत् ॥
योगिनः सर्वत्र ब्रह्मदर्शनमेवेत्येतत् अधिकारिभेदेनोप-
पादयति--
अग्निर्देवो द्विजातीनां
मुनीनां हृदि दैवतम् ।
प्रतिमा स्वल्पबुद्धीनां
सर्वत्र समदर्शिनाम् ॥ ७ ॥

तृतीयोऽध्यायः । ७१
द्विजातीनां कर्मकाण्डरतानाम् अग्निर्देवतम् , मुनीनां
मननशीलानां योगिनां हृदि हृत्कमलमध्यस्थिता परिच्छिन्न-
मूर्तिर्देवतम् , स्वल्पबुद्धीनां प्राकृतानां तु मृत्पाषाणादिप्रति-
मैव दैवतम् , समदर्शिनां तु आरूढानां सर्वत्र 'सर्वं खल्विदं
ब्रह्म' इति श्रुत्या सर्वमपि दैवतमेवेत्यर्थः ॥
तस्मात् ज्ञानेनैव ज्ञातव्यम् , ज्ञानाभावे ब्रह्म न पश्यती-
त्याह---
सर्वत्रावस्थितं शान्तं
न प्रपश्येज्जनार्दनम् ।
ज्ञानचक्षुर्विहीनत्वा-
दन्धः सूर्यमिवोदितम् ॥ ८ ॥
सर्वत्रावस्थितं सर्वत्र परिपूर्णमपि अज्ञः न पश्यति ; तत्र
हेतुः ज्ञानचक्षुर्विहीनत्वात् ज्ञानाख्यचक्षूरहितत्वात् , तत्र
दृष्टान्तमाह-- अन्ध इति । स्पष्टमन्यत् ॥
सर्वं ब्रह्मेत्येतदुपपादयति---
यत्र यत्र मनो याति
तत्र तत्र परं पदम् ।

७४ उत्तरगीतायां
र्वाणं मोक्षसुखात्मकं परमम् उत्कृष्टं विष्णुं व्यापकम् अव्य-
यम् नाशरहितम् सर्वतोज्योतिराकाशं सर्वतः स्वयंप्रकाशं
सर्वभूताधिवासिनं सर्वान्तर्नियामकं परमात्मानं खगाकारं
हंसात्मकं विचिन्तयेत् ध्यायेदित्यर्थः ॥
एवं चिन्तयतः पापलेशोऽपि नास्तीत्याह--
अहं ब्रह्मेति यः सर्वं
विजानाति नरः सदा ।
हन्यात्स्वयमिमान्कामा-
न्सर्वाशी सर्वविक्रयी ॥ १३ ॥
सर्वं निषिद्धं कृत्वापि कर्मभिर्न स बध्यते इति, यः
सदा सर्वं ब्रह्मेति विजानाति, सर्वाश्यपि सर्वनिषिद्धभक्ष्यपि
सर्वविक्रयी सर्वनिषिद्धविक्रय्यपि इमान् कामान् अरिषड्-
र्गान् हन्यात् जयेत्, सर्वनिषिद्धकर्म कृत्वापि तैर्निषिद्धक-
र्मभिर्न बध्यते ॥
क्षणमात्रं वा ब्रह्मध्यानरतस्य नान्यसुखचिन्तेत्याह--
निमिषं निमिषार्धं वा
शीताशीतनिवारणम् ।

तृतीयोऽध्यायः । ७५
अचला केशवे भक्ति-
र्विभवैः किं प्रयोजनम् ॥ १४ ॥
शीताशीतनिवारणं यथा तथा शीतोष्णसुखदुःखादि-
द्वन्द्वसहिष्णुतया निमिषं निमिषार्धं वा केशवे भक्तिर-
चला चेत्, विभवैः भक्त्यतिरिक्तविषयसुखैः किं प्रयोजन-
मिति ॥
एतादृशो योगी यदि मोक्षमपेक्षेत, तर्हि नान्यविषयचि-
न्तां कुर्यादित्याह—
भिक्षान्नं देहरक्षार्थं
वस्त्रं शीतनिवारणम् ।
अश्मानं च हिरण्यं च
शाकं शाल्योदनं तथा ॥ १५ ॥
समानं चिन्तयेद्योगी
यदि चिन्त्यमपेक्षते ।
योगी चिन्त्यं मोक्षं यदि अपेक्षेत, तर्हि देहरक्षणार्थमेव
भिक्षान्नं चिन्तयेत्, न त्विन्द्रियप्रीत्यर्थमित्यर्थः; वस्त्रं च शी-
तनिवारणार्थं चिन्तयेत्, न अलंकाराय; अश्मानं पाषाणं

७६ उत्तरगीतायां
हिरण्यं सुवर्णं च शाकं बाल्योद्भूतं च हेयोपादेयवैषम्यरा-
हित्येन चिन्तयेदित्यर्थः ॥
किं च—
भूतवस्तुन्यशोचित्वे ...
पुनर्जन्म न विद्यते ॥ १६ ॥
भूतवस्तुनि गतवस्तुनि अशोचित्वे गतमिति दुःखराहि-
त्ये सिद्धे, उपलक्षणमेतत्, आगामिवस्तुमिरपेक्षत्वे सिद्धे,
वर्तमानवस्तुनि लब्धे हर्षराहित्ये सिद्धे च पुनर्जन्म न
विद्यते ॥
आत्मयोगमवोचद्यो ब्रह्मयोगशिरोमणिम् ।
तं वन्दे परमानन्दं कमलगर्भमीश्वरम् ॥
इति श्रीगौडपादाचार्यविरचितायाम्
उत्तरगीताव्याख्यायाम्
तृतीयोऽध्यायः ॥

प्रस्तुत पृष्ठ पूर्णतः रिक्त (खाली/blank) है, अतः इस पर कोई पाठ (text) उपलब्ध नहीं है।

THE RAMAKRISHNA MISSION INSTITUTE OF CULTURE
LIBRARY
CALCUTTA

इस पृष्ठ/छवि में कोई पाठ (text) दिखाई नहीं दे रहा है; यह पृष्ठ पूर्णतः रिक्त (blank) है।

THE RAMAKRISHNA MISSION INSTITUTE OF CULTURE
LIBRARY
CALCUTTA

इस पृष्ठ/चित्र में कोई पाठ (Text) उपलब्ध नहीं है। यह पूर्णतः रिक्त (blank) है।