तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 108, कुल 199 में से
संदर्भ में पढ़ेंन्यायबोधिनी-संस्कृत-कला ९९
तच्चैकमिति मूलोक्ते प्रमाणमाह—अनेकत्वे मानाभावादिति । आकाशं
विभ्विति मूले प्रोक्तम्, तत्र किं विभुत्वमिति जिज्ञासायामाह—सर्वेति । सर्वैः
मूर्तैः द्रव्यैः संयोगोऽस्यास्तीति सर्वमूर्तद्रव्यसंयोगी, तस्य भावः सर्वमूर्तद्रव्यसंयो-
गित्वम् । इदमेव विभुत्वमिति भावः । ननु किं मूर्तत्वं ? तत्राह—मूर्तत्वञ्चेति ।
तथा च क्रियावत्वात् पृथिव्यप्तेजोवायुमनांसि मूर्तानि कथ्यन्ते । पृथिव्यप्ते-
जोवाय्वाकाशानि पञ्च लक्षितानि, एतान्येव पञ्च भूतानि सन्तीत्याह—भूतपद-
वाच्यमिति । भूतलक्षणमाह—भूतत्वं नामेति । बहिरिन्द्रियग्राह्यविशेषगुण-
वत्त्वमिति । बहिरिन्द्रियैः—चक्षूरसनघ्राणत्वक्श्रोत्रैः ग्राह्या ये विशेषगुणाः—
रूपरसगन्धस्पर्शशब्दास्तद्वत्त्वमित्यर्थः ।
न्या.बो. अतीतादिव्यवहारहेतुत्वं मूलकारकृतं काललक्षणम् । अत्रादिपदेन वर्तमान-
पृ.१०. भविष्यतोर्ग्रहण्म् । अत्रैव लक्षणेऽतीतादीति विशेषणस्य फलमाह बोधिनीकारः—
व्यवहारहेतुत्वस्येति । अयं भावः—यदि व्यवहारहेतुत्वमात्रं लक्षणं स्यात्
तदा 'अयं घट' इत्यस्य वाक्यप्रयोगस्यापि व्यवहारत्वात्, तत्र च विषयविधया
घटस्यापि हेतुत्वात्, घटेऽतिव्याप्तिरतोऽतीतादीति पदम् । तथा चातीतमिति
व्यवहारहेतुत्वस्य काले एव सत्त्वान्न घटेऽतिव्याप्तिरिति भावः ।
न्या.बो. मूलकारकृतं दिग्लक्षणं व्याख्यातुमाह—दिशो लक्षणमाहेति । प्राच्या-
पृ.११. दिसंज्ञायां हेतुमाह—उदयाचलेति । एतत् सुस्पष्टम् ।
मूलकृता कृतमात्मनिरूपणं व्याख्यातुमाह—आत्मानं निरूपयतीति ।
ज्ञानाधिकरणमितीति । अत्र ज्ञानाधिकरणमिति कथनेनात्मनि प्रमाणमपि
दर्शितं भवति । तथा हि—गुणा गुणिनमाश्रित्य तिष्ठन्तीत्यस्ति नियमः । ज्ञान-
मपि गुण एवास्ति । तस्याप्यवश्यं केनचिदाश्रयेण भवितव्यम् । तत्र पृथिव्यप्ते-
जोवाय्वाकाशकालदिङ्मनसां ज्ञानाश्रयत्वासंभवेन आत्मैव तदधिकरणत्वेन
निश्चीयते ।
ननु ज्ञानवानात्मेत्येव वक्तव्यम् लाघवात्, अधिकरणपदन्तु किमर्थं दत्त-
मित्यत आह—अधिकरणपदमिति । अयं भावः—पदार्था हि विभिन्नसम्बन्धेन
विभिन्नस्थाने तिष्ठन्ति । सम्बन्धास्तावत् न्यायनये संयोगसमवायकालिक-
स्वरूपाख्याः मुख्याः । तादात्म्य, विषयित्व, विषयत्वादयस्त्वमुख्याः । तत्र
संयोगसम्बन्धः पृथक्सिद्धद्रव्ययोरेव भवति । यथा घटः संयोगेन भूतले वर्तत इति ।
समवायसम्बन्धश्च गुणगुणिनोरवयवावयविनोः, क्रियाक्रियावतोः, जातिजाति-
मतोः, नित्यद्रव्यविशेषयोश्च भवति । गुणगुणिनोर्यथा-नीलरूपं घटे समवायेन
वर्तते । अवयवावयविनोर्यथा-घटः कपालयोः पटश्च तन्तुषु समवायसम्बन्धेन वर्तते ।
क्रियाक्रियावतोर्यथा—गमनक्रिया वाजिनि समवायेन वर्तते । जातिजाति-