तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 102, कुल 199 में से
संदर्भ में पढ़ेंअथ तर्कसङ्ग्रहन्यायबोधिन्याः
‘संस्कृत-कला’ व्याख्या
प्रत्यक्षपरिच्छेदः
विश्ववन्द्यपदपद्मरेणुभिः स्पर्शमात्रधृततारणव्रतैः।
ईश्वरस्य भवलीनमानसान् स्वान् कथं नहि पुनीमहि द्रुतम् ? ॥
यं तमीश्वरममन्यतैवं वै भिन्नधीमिरखिलोऽपि मानवः।
न्यायतोऽपि मतिमानयन्नयं तं नमंश्च कुरुते कुतूहलम् ॥
न्या.बो. शास्त्राण्यप्यञ्जसा भान्ति भास्वतो यस्य सत्तया।
पृ.१. सूर्य्यनारायणं शुक्लं गुरुं तं नौमि विश्रुतम् ॥
“समाप्तिकामो मङ्गलमाचरेदिति” श्रुतिप्रामाण्यात् चिकीर्षितस्य
ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थं मङ्गलकरणं नितरामावश्यकमिति निश्चित्य मनसि
विधीयमानं मङ्गलं शिष्या अप्येवं कुर्युुरिति बुद्ध्या ग्रन्थादौ निबध्नन् चिकीर्षितं
प्रतिजानीते—अखिलेति। अखिलानागमान् सञ्चरति तच्छीलमिति विग्रहे
‘सुप्यजातौ णिनिस्ताच्छील्ये’ इति पाणिनिसूत्रेण णिनिः। तत् = समस्तागमजन्य-
प्रतिपत्तिविषयमित्यर्थः। समस्तागमप्रतिपाद्यमिति यावत्। भूप्रभृतिभागानां
मनुष्यादिकर्तृकसञ्चाराश्रयत्ववत् आगमानां भगवत्कर्तृकयथाश्रुतसञ्चाराना-
श्रयत्वादिति भावः। कृष्ण इति आख्या यस्य तत् कृष्णाख्यम् इति पूर्वं बहुव्रीहिः
समासः, पश्चात् श्रिया युक्तं कृष्णाख्यं श्रीकृष्ण्णाख्यमिति मध्यमपदलोपिसमासः,
न तु श्रिया युक्तः कृष्णः श्रीकृष्णः, श्रीकृष्ण इति आख्या यस्य तत् श्रीकृष्ण-
ख्यमिति रीत्या समासः, श्रीशब्दस्य नामानन्तर्गतत्वात्। श्रीशब्दस्यापि नामान्त-
र्गत्वे तु हर्यादिपदानां द्व्यक्षरत्वानुपपत्तिः। परं—लोकोत्तरम्, महः—तेजः।
“तस्य भासा सर्वमिदं विभाति” इति श्रुतिबलाद् भगवतस्तेजोरूपतोक्तियुक्त्तैव।
ध्यात्वा—तद्विषयकध्यानान्तरमित्यर्थः। क्त्वाप्रत्ययस्य अव्यवहितोत्तराथंकत्वा-
दिति भावः। सुष्ठु ध्यायतीति सुधीः—विद्वान्। गोवर्धननामा सुधीः गोवर्धन-
सुधीरिरिति शाकपार्थिवादिपदवत् मध्यमपदलोपिसमासः। न्यायबोधिनीम्—
एतन्नाम्नीं न्यायपदार्थबोधिकां व्याख्यां, तनुते—विस्तारयति, विवरणग्रन्थनिर्माणेण
बहुतरसम्बद्धां करोति। तर्कसंग्रहग्रन्थस्थार्थान् भूयसः शिष्यान् बोधयतीति तु
फलितोऽर्थः।