तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)
Tantrasara of Mahamaheshvara Abhinavagupta with Commentary
महामाहेश्वर अभिनवगुप्त द्वारा
पृष्ठ 103, कुल 294 में से
संदर्भ में पढ़ेंचतुर्थमाह्निकम्
अथ शाक्तोपायः ।
तत्र यदा विकल्पं क्रमेण संस्करुते समनन्तरोक्तस्वरूपप्रवेशाय, तदा
भावनाक्रमस्य सत्तर्कसदागमसद्गुरूपदेशपूर्वकस्य अस्ति उपयोगः ।
तथाहि—विकल्पबलात् एव जन्तवो बद्धम् आत्मानम् अभिमन्यन्ते, स
अभिमानः संसारप्रतिबन्धहेतुः, अतः प्रतिद्वन्द्विरूपो विकल्प उदितः
संसारहेतुं विकल्पं दलयति इति अभ्युदयहेतुः । स च एवं-रूपः समस्तेभ्यः
परिच्छिन्नस्वभावेभ्यः शिवान्तेभ्यः तत्त्वेभ्यो यत् उत्तीर्णम् अपरिच्छिन्न-
संविन्मात्ररूपं तदेव च परमार्थः, तत् वस्तुव्यवस्थास्थानं, तत् विश्वस्य
ओजः, तेन प्राणिति विश्वम्, तदेव च अहम्, अतो विश्वोत्तीर्णो विश्वात्मा
च अहम् इति । स च अयं मायानन्धानां न उत्पद्यते सत्तर्कादीनाम् अभा-
वात् । वैष्णवाद्या हि तावन्मात्र एव आगमे रागवत्त्वेन नियमिता इति न
ऊर्ध्वदर्शनेऽपि तदुन्मुखतां भजन्ते, ततः सत्तर्कसदागमसद्गुरूपदेशद्वेषिण
'वैष्णवाद्याः समस्तास्ते विद्यारागेण रञ्जिताः ।
न विन्दन्ति परं तत्त्वं सर्वज्ञज्ञानवर्जिताः ॥' इति
एव । यथोक्तं पारमेश्वरे इति। तस्मात् शाम्भवदृढशक्तिपाताविद्धा
एव सदागमादिक्रमेण विकल्पं संस्कृत्य परं स्वरूपं प्रविशन्ति । ननु
इत्थं परं तत्त्वं विकल्परूपं स्यात् ? मैवम्—विकल्पस्य द्वैताधिवास-
भङ्गमात्रे चरितार्थत्वात्, परं तत्त्वं तु सर्वत्र सर्वरूपतया स्वप्रकाशमेव
इति न तत्र विकल्पः कस्यैचित् उपक्रियायै खण्डनायै वा । तत्र अतिदृढ-
शक्तिपाताविद्धस्य स्वयमेव सांसिद्धिकतया सत्तर्क उदेति, योऽसौ
देवीभिः दीक्षित इति वक्ष्यते । अन्यस्य आगमक्रमेण इत्यादि सविस्तरं
शक्तिपातप्रकाशने वक्ष्यामः । किं तु गुरोरागमादिश्रवणे व्यापारः,
आगमस्य च निःशङ्कसजातीयतत्प्रबन्धप्रसवस्निबन्धनसमुचितविकल्पोदये
व्यापारः, तथाविधविकल्पप्रबन्ध एव सत्तर्क इति उक्तः, स एव च
भावना भण्यते अस्फुटत्वात् भूतमपि अर्थम् अभूतमिव स्फुटत्वापादनेन
भाव्यते यया इति । न च अत्र सत्तर्कात् शुद्धविद्याप्रकाशरूपात् ऋते