ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 398, कुल 518 में से
संदर्भ में पढ़ेंवीतये' इति । तथा रुक्मत्, रुचिधातुयुक्तम् , तेजस्वत् तेजःप्रतिपाद-
कशब्दोपेतम् । युञ्जानं युजिधातुयुक्तं एतान्यपि रूपाणि प्रथमेऽहनि
विनियुज्यमानासु स्तोत्रीयास्वन्यत्र विद्यमानायां गायत्र्यां द्रष्टव्यानि,
अहरादिषु साधारणत्वात् रूपाणाम् । अत एवाऽन्यत्र गायत्र्यां ‘दविद्यु-
तत्या रुचे’ति रुचिधातुयोगो दृश्यते । अस्मिंश्चाऽहनि(१) ‘अयं सूर्य्य इ-
वोपदृगि'ति तेजःप्रतिपादकसूर्य्यशब्दश्रवणात् तदभिप्रायेण तेजस्वदि-
ति रूपम् (२)‘ब्रह्माणस्त्वा युजा वयं’ (३)‘‘आ त्वा ब्रह्म युजा हरी’’ इति
युजिधातुयोगाश्च दृष्टः । एतदभिप्रायेण तेजस्वदिति रूपं ‘ब्रह्माणस्त्वा-
युजा वय’मित्युपन्यस्तम् । यद्वा युञ्जानं योजनमेव कुर्व्वन्ति सम्बन्धो
नियोगः लोटो लिटश्च मध्यमपुरुषप्रयोगः । एतावत् प्रथमस्याऽहो