सामग्री पर जाएँ
सर्वकोश
तैत्तिरीयोपनिषद् (शाङ्करभाष्य सहित)

तैत्तिरीयोपनिषद् (शाङ्करभाष्य सहित)

Taittiriya Upanishad with Shankara Bhashya

आदि शङ्कराचार्य द्वारा

स्रोत: Gita Press Gorakhpur · Gita Press, Gorakhpur (उद्गम)

DevanagariSanskritpublished261 पृष्ठ

पृष्ठ 19, कुल 261 में से

संदर्भ में पढ़ें
पृष्ठ 19

ॐ
तत्सद्ब्रह्मणे नमः
तैत्तिरीयोपनिषद्
मन्त्रार्थ, शाङ्करभाष्य और भाष्यार्थसहित
सर्व्वाशाध्वान्तनिर्मुक्तं सर्व्वाशाभास्करं परम्।
चिदाकाशावतंसं तं सद्गुरुं प्रणमाम्यहम्॥
शान्तिपाठ
ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा ।
शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।
नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि ।
सत्यं वदिष्यामि । तन्मामवतु तद्वक्तारमवतु । अवतु
माम्। अवतु वक्तारम्॥ ॐ शान्तिः शान्तिः शान्तिः॥