सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 306, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 306

तैत्तिरीयब्राह्मणम् (१.६.६) २७७
चाव॑भृथमवै॑ति । वरु॑णगृहीतेनै॒व वरु॑णमव॑जयते ।
अ॒पोऽव॑भृथमवै॑ति (५)। अ॒प्सु वै वरु॑णः । सा॒क्षादे॒व
वरु॑णमव॑जयते । प्रतियुतो वरु॑णस्य॒ पाश॒ इत्या॑ह ।
व॒रु॒ण॒पा॒शादे॒व निर्मु॑च्यते । अप्र॑तीक्षमाय॑न्ति ।
वरु॑णस्यान्तर्हि॑त्यै । एधो॑ऽस्येधीषीमहीत्या॑ह ।
स॒मिधै॒वाग्निं नम॑स्यन्त । उपा॒र्यन्ति॑ । तेजो॑ऽसि॒ तेजो॒ मयि॑
धे॒हीत्या॑ह । तेज॑ ए॒वाऽऽत्मन्ध॑त्ते (६) ।
क॒रोति॑ ग्राहयत्याहवनी॒यस्तिष्ठ॑ञ्जुहोत्यपो॑ऽवभृथमवै॑ति धत्ते ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
षष्ठाध्याये पञ्चमोऽनुवाकः ॥ ५ ॥
अथ षष्ठप्रपाठके षष्ठोऽनुवाकः ।
दे॒वासु॑राः सं॒यत्ता॑ आसन् । सोऽग्नि॒रब्र॑वीत् ।
ममे॒यमनी॑कवती त॒नूः । तां प्री॑णीत ।
अथासु॑रा॒नभि॑भविष्य॒थेति॑ । ते दे॒वा अ॒ग्नयेऽनी॑कवते
पु॒रोडाश॑म॒ष्टाक॑पालं॒ निर॑वपन् । सोऽग्नि॒रनी॑कवान्त्स्वेन॑
भा॒ग॒धेये॑न प्री॒तः । च॒तुर्धाऽनी॑कान्यजनयत् । ततो॑ दे॒वा
अभ॑वन् । पराऽसु॑राः(१), यद॒ग्नयेऽनी॑कवते
पु॒रोडाश॑म॒ष्टाक॑पालं॒ निर्व॑पति । अ॒ग्निमे॒वानी॑कवन्त॒ꣳ स्वेन॑
भा॒ग॒धेये॑न प्रीणाति । सोऽग्नि॒रनी॑कवान्त्स्वेन॑ भा॒ग॒धेये॑न
प्री॒तः । च॒तुर्धाऽनी॑कानि जनयते । अ॒सौ वा
आ॑दि॒त्योऽग्नि॒रनी॑कवान् । तस्य॑ र॒श्मयोऽनी॑कानि । सा॒क ँ
सूर्ये॑णोद्य॒ता निर्व॑पति । सा॒क्षादे॒वास्मा॒ अनी॑कानि
जनयति । ते सु॑राः परा॑जिता॒ यन्तः॑ । द्यावा॑पृथि॒वी
उपा॑श्रयन् (२) । ते दे॒वा म॒रुद्भ्य॑: सांत॒पने॑भ्यश्च॒रुं
निर॑वपन् । तान्द्यावा॑पृथि॒वीभ्या॑मे॒वोभय॑तः॒ समर्त्तृपन् ।
यन्म॒रुद्भ्य॑: । सांत॒पने॑भ्यश्च॒रुं निर्व॑पति ।