तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 858, कुल 914 में से
संदर्भ में पढ़ें[ अनु० ३५ ] सभाष्यो दशमप्रपाठकः । ८५३
अथ पञ्चत्रिंशोऽनुवाकः ।
गायत्र्या आवाहनमन्त्रमाह-
ओजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि॒ भ्राजो॑ऽसि दे॒वानां॒
धाम॒नामा॑ऽसि॒ विश्व॑मसि वि॒श्वायुः सर्व॑मसि सर्वा॑-
यु॒रभि॒भूरों गाय॒त्रीमावा॑हयामि सावित्रीमावा॑ह-
यामि॒ सर॑स्वतीमावा॑हयामि॒ छन्द॑र्षीनावा॑हयामि
श्रिय॒मावा॑हयामि गायत्रिया गाय॒त्री छन्दो॑
वि॒श्वामित्र॒ ऋषिः॑ सवि॒ता दे॒वता॒ऽग्निर्मुखं॑ ब्रह्मा॒
शिरो॒ विष्णु॑र्हृद॑य॒ꣳरुद्रः॑ शिखा पृ॑थि॒वी योनिः॑ प्राणा-
पानव्यानोदानसमाना सप्राणा श्वेतवर्णा सांख्या-
यनसगोत्रा गायत्री चतुर्विꣳशत्यक्षरा त्रिपदा॑
षट्कुक्षिः पञ्चशीर्षोपनयने वि॑नि॒योगः॑,--इति।
हे गायत्रि त्वमोजोऽसि बलहेतुभूताष्टमधातुरूपाऽसि । सहोऽसि शत्रूनभिभवितुं
शक्तिरसि । बलमसि शरीरगतव्यवहारसामर्थ्यरूपार्डास । भ्राजोऽसि दीप्तिरू-
पाऽसि । देवानामग्नीन्द्रादीनां धाम तेजो यदस्ति तन्नामाऽसि तदेव त्वन्नामेत्यर्थः ।
देवानां[धा] मासीत्यर्थः । विश्वं सर्वजगद्रूपं त्वमेवाऽसि । विश्वायुः संपूर्णायुःस्वरूपाऽसि।
उक्तस्यैव व्याख्यानं सर्वमसि सर्वायुरिति । अभिभूः सर्वस्य पापस्य तिरस्कारहेतुः ।
ॐ प्रणवप्रतिपाद्यपरमात्माऽसि । तादृशीं गायत्रीं मदीये मनस्येवाऽऽवाहयामि ।
※ अन्यत्स्पष्टम् ।
* सावित्रीमावाहयामीत्यवशिष्टग्रन्थाथों दत्तात्रेयदिगम्बरातुचरविरचितनारायणोपनिषत्प्रकाशा-
त्संगृह्यते--“सावित्रीं सवितुर्ब्रह्म साक्षात्कारयितुर्ज्ञानप्रकाशकस्य परमात्मन इमामावाहयामि सरस्वतीं
ब्रह्मजलधारणप्रक्षोतनाभ्यां वेदाः सरांसि तन्मयत्वात्तद्वतीं सरस्वतीं चतुर्विंशत्यक्षरमन्त्ररूपामावाहयामि ।
तदङ्गानि च्छन्दुषींगायत्र्याः सर्वमन्त्रमयत्वेन सर्वाणि च्छन्दांसि सर्वांश्चर्षीन्देवताश्च सर्वा आवाह-
यामि । श्रियं गायत्री सर्ववेदमयी तस्मात्सर्ववेदानां श्रियमावाहयामि । इत्येकगायत्र्यावाहनेनाऽऽत्मनि
सर्वमावाहयामीति संकल्पं कृत्वा तामावाह्य तच्छन्दादि स्मृत्वा ध्यानमाचरेत् । तत्र मन्त्रः--
गायत्रिया गायत्री छन्दो विश्वामित्र ऋषिः सविता देवताऽग्निर्मुखं ब्रह्मा शिरो विष्णुर्हृदयꣳ रुद्रः
शिखा पृथिवी योनिः प्राणापानव्यानोदानसमाना सप्राणा श्वेतवर्णा सांख्यायनसगोत्रा गायत्री चतु-
र्विꣳशत्यक्षरा त्रिपदा षट्कुक्षिः पञ्चशीर्षोपनयने विनियोगः । इति । गायत्र्या गायत्री छन्दः । विश्वा-
मित्र ऋषिमैन्त्रद्रष्टा । सविता सर्वे प्रसुवानः परमात्मा देवता तन्मन्त्रत्वात् । इति च्छन्दर्षिदेवतास्मर-
णम्। ध्यानम्--अग्निः प्रसिद्धो मुखं मुखस्थानीयो गायत्र्या इति संबध्यते । ब्रह्मा चतुर्मुखः शिरः शिर-
स्थानीयः प्रथमजत्वात् । विष्णुर्हृदयं सर्वस्य(त्र) सूक्ष्मत्वेन स्थितिरतः स्थितेः कर्ता विष्णु-
र्हृदयम् । रुद्रः शिखा यथा शिखा सर्वावयवातीता तथा रुद्रः प्रलयकरणादतः शिखास्थानीयः ।