तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
DevanagariSanskritpublished914 पृष्ठ
पृष्ठ 855, कुल 914 में से
संदर्भ में पढ़ेंपृष्ठ 855८५० परिशिष्टत्वेन संगृहीतः— [ अनु० ३१ ]
८५० परिशिष्टत्वेन संगृहीतः— [ अनु० ३१ ]
हस्त्येति शेषः । ततो मामापः पुनन्तु । तथाऽसतां शूद्रादीनां प्रतिग्रहं च मया कृतं
पुनन्तु । तदर्थमिदमभिमन्त्रितमुदकं स्वाहा मदीयवक्त्राग्नौ सुहुतमस्तु ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये त्रिंशोऽनुवाकः ॥ ३० ॥
अथैकत्रिंशोऽनुवाकः ।
सायंसंध्याकाले जलपानार्थं मन्त्रमाह—
अ॒ग्निश्च॑ मा म॒न्युश्च॑ मन्यु॒पत॑यश्च मन्यु॒कृते॑भ्यः॑ ।
पापेभ्यो॑ रक्षन्ताम् । यदह्ना॒ पाप॑मका॒र्षम् । मन॑सा
वा॒चा हस्ता॑भ्याम् । प॒द्भ्यामु॒दरे॑ण॒ शिश्ना॑ । अह॒स्त-
दव॑लुम्पतु । यत्किंच॑ दु॒रितं मयि॑ । इ॒दम॒हं माम-
मृतयो॑नौ । सत्ये ज्योति॑षि जुहो॑मि स्वाहा, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिष-
द्येकत्रिंशोऽनुवाकः ॥ ३१ ॥
योऽयमग्निरस्ति यश्च मन्युः क्रोधाभिमानी देवो ये च मन्युपतयः क्रोध