सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 810, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 810

मे मां श्रीर्गतान्तलक्ष्मीर्भजतु । मे मत्संबन्धिन्यलक्ष्मीर्ज्येष्ठा देवी नश्यतु ।
अस्मत्तोऽस्मत्कुलीनतोऽस्मद्बन्धुवर्गंतोऽस्मद्ग्रामतोऽस्मद्राष्ट्रतो बहुयोजनान्तरितं दुरित-
(दूरी भ)वत्वित्यर्थः । किंच ये विष्णुमुखा लक्ष्मीपतिप्रधाना देवाश्छन्दोभिर्वेदवि-
हितैः साधनैर्रिमान्(न)ध्यक्ष्वांश्चतुर्दशसंख्याकाँल्लोकानभ्यजयन् । चिरायोपभोगाय
लेभिरे । अभिपूर्वो जयतिर्लब्धिकर्मा । कथम् । अनपजय्यं रक्षोनायकैरपजेतुमशक्यं
यथा तथा। ते ना(चा)भीष्टप्रदा भूयासुरिति वाक्यशेषः । वै प्रसिद्धौ । अपि च
वज्रबाहुरिन्द्रोऽपि नः शर्म यच्छतु । कीदृशः । महांस्त्रिलोकीपूज्यः । षोडश कला
अस्य सन्तीति षोडशी राकाचन्द्रः । लुप्तोपमा, स यथा सर्वाभीष्ट [प्रद]स्तथेन्द्र इति ।
यद्वा षोडशीति षोडशाक्षरा श्रीविद्योच्यते तैज्जपीय(पस्य)