तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 808, कुल 914 में से
संदर्भ में पढ़ें[ अनु० १ ] सभाव्यो दशमप्रपाठकः । ८०३
मधोर्वसन्तस्य वा । वसन्ते खलु रोहिणीनायकः सम्यगवभासते । पर्जन्यस्य पटलहिमा-
देस्तदानीमभावात् । शमीवृक्षो यस्य प्रियत्वेन वर्तते [ स शिमीवान् ] । शमीवानिति
वक्तव्ये शिमीवानिति प्रयोगश्छान्दसो द्रष्टव्यः । यथा बिल्ववृक्षः शैवस्तथा शमीवृ-
क्षोऽपि शैव इति हेतोर्बिल्वपत्रवच्छमीपत्राण्यपि चन्द्रशेखरमस्तके समर्प्यन्त इति शमी-
चन्द्रयोरेकाधिकरणत्वादत्योन्यप्रियत्वम् । तथा शूरमान्बहुसौरुर्यवान् । त्थर्जीषी,
अतिदीप्तिमान् । एवं सोमं स्तुत्वेन्द्रं स्तौति—अर्वाग्वचनव्यत्ययः । अर्वाञ्चि । इन्द्रा-
पेक्षया यान्यर्वाचीनानि प्रतिमानान्धुपमानानि [ तानि ] गुणपराक्रमादिभिरिन्द्रं न
देभुः । दम्भु हिंसायाम् , अस्माल्लिटि ❊बहुवचनम् । न पीडयन्ति स्मेत्यर्थः । लोके
खलु स्वस्यान्यदुपमानं दुःखावहं मत्त्तुल्यं वर्तत इति चिन्तासंपादकत्वात् । तदभावे
मत्सद्दशो नास्तीति निरतिशयमहिनप्राप्तेः । एवमनुपमानोऽनन्यतुल्यः शचीपतिरस्मा-
नवत्विति वाक्यशेषः ।
अथैकेन परात्मा प्रार्थ्यते—
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उ॒पमा॑ अस्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विव॑ः, इति ।
परे ( रं ) ब्रह्म त्रिलोकाचिन्निया ( कान्प्रति व्या ) वः स्वप्रकाशेन विवृतानकरोत् ।
“ व्यवहिताश्च ” इत्युपसर्गक्रिययोर्व्यवधानम् । लोकान्कीदृशः । सुतरां रोचन्ते
शोमन्त इति सुरुचस्तान् । ब्रह्म कीदृक् । प्रथमं सर्वदेवतादिमम् । पुरस्ता-
त्प्राच्यां दिशि सूर्यरूपेण जज्ञानं जायमानम् । विराजादिजनेः पुरस्तात्प्राग्घिरण्म-
गर्भरूपेण वा जज्ञानम् । जनेः शानाचे शपः श्लौ सति जज्ञानमिति रूपम् । तथा
वेनः । व्यत्ययेन वेनं सर्वकमनीयम् । “ वी कान्त्यादौ ” । किमारम्य सीमतः ।
द्वितीयायां तसिल् (यान्तात्तसिः) । सीमानं मर्यादाम् । भूलोकमध्यभागमारभ्य सुरुचस्त्री-
ल्लोकान्यावः प्रकाशितवानि ( वदि ) ति भावः । वी कान्त्यादावस्मान्न्याडूपूर्वाल्ल-
( ङ्लु ) ङि मध्यमैकवचनेऽपि व्यत्ययेन प्रथमपुरुषो ग्राह्यः । त्रैलोक्यप्रकाशमेव स्फुटी
करोति । स व्यत्यनेन तद्ब्रह्म बुध्नियाः प्राच्याद्या दिशः सतो विद्यमानस्य घटपटादे-
र्योनिं स्थानमसतोऽमूर्तस्य वाय्वादेश्च योनिं प्रभवं विवः प्रकाशयति । × वृणोतेः शपि
लुप्ते ल्गुणे (?) च विवरिति रूपम् । अमाङ्योगेऽपि तिङोऽडप्राप्तिश्छान्दसी । बुध्नियाः
कीदृशः । उप समीपे मान्ति तिष्ठन्ति भूतानि यासु ता उपमाः सावकाशा इत्यर्थः ।
माङ्माने वर्तने चेति धातुपाठः । अत एवास्य जगतो विष्ठा विविधस्थानभूताः । विविधं
❊ प्रथमपुरुषस्येति शेषः । × वेवेतेर्लटि शपि लुप्ते द्वित्वेऽत्वेऽगुणे चेति वक्तुं युक्तम् ।
१ क. ॰रब्रह्मदेवतया त्रिष्टुब्गायत्रवल्क्यो दृष्ट्वा ( द्रष्टा ) न्न॑ ।