तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 800, कुल 914 में से
संदर्भ में पढ़ें[ अनु० १ ] सायणाचार्यविरचितमाधवीयभाष्यसमन्विता [ दशमप्रपाठकः । ] ७३५
सत्यस्य परब्रह्मणस्तत्त्वमविच्छेदेन दर्शयन् विस्तृतं विस्तीर्णं यथा भवति तथा [विवृत्य]
विवृत्य गुहायाम्मुक्तान्विभज्य तस्य ^परम् तत्त्वमपश्यद्यः साक्षात्कृतवान्स एव प्रजासु मध्ये
तद्रूपतत्त्वमभवत् । तथा च श्रुत्यन्तरम्— " ब्रह्मविद्ब्रह्मैव भवति " इति ।
" अम्भस्येत्यादिना तदभवत्प्रजास्त्वित्यन्तेन ग्रन्थेन प्रतिपादितां ब्रह्मविद्यामुप-
संहरति—
परीत्य॑ लो॒कान्परी॑त्य भू॒तानि॒ परी॑त्य॒ सर्वाः॑ प्र॒दिशो॒ दिश॑श्च ।
प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्या॒ऽऽत्मना॒ऽऽत्मान॑म॒भिसं॑ब॒भूव॑, इति ।
ऋतस्य सत्यस्य ब्रह्मणः प्रथमजाः प्रथमकार्यभूतः प्रजापतिर्हिरण्यगर्भो रूपा-
( लोका ) न्भूरादीन्भूतानि देवमनुष्यादिप्राणिदेहान्प्रदिश आग्नेय्याद्या दिशश्च
प्राच्याद्याः [ परीत्य ] सर्वतो व्याप्य सृष्टिकाले सृष्ट्वा पुनरपि परीत्य स्थितिकाले रक्षि-
त्वाऽऽत्मना स्वस्वरूपेण तद्विषयतत्त्वज्ञानेनेत्यर्थः । आत्मानं सत्यज्ञानादिलक्षणमभि-
संबभूव सम्यक्सर्वतः प्राप्तवान् ।
तदेवं ब्रह्मविद्या प्रतिपादिता । अतस्तत्प्राप्तिसाधनभूताः सोपाधिकब्रह्मज्ञानजपध्या-
नादिकर्माङ्गभूता मन्त्राः कर्मकाण्डे पूर्वमनुक्ता अस्मिन्खिलकाण्डेऽभिधीयन्ते । तत्र
केन मन्त्रेण ब्रह्मप्राप्त्यर्थं [ * मन्तर्यामिणं प्रार्थयते—
सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् ।
सनिं॑ मे॒धाम॑यासिषम् , इति ।
सीदत्यस्मिन्नव्याकृते कारणे सर्वं जगदिति सदः, तस्य पतिं पालक मन्तर्यामिणम-
यासिषमहं प्राप्तवानस्मि । शीघ्रं प्राप्तवानित्यनया विवक्षया भूतार्थ ] निर्देशः । कीदृशं
सदसस्पतिम्द्भुतमाश्चर्यरूपम् । मनसाऽप्यचिन्त्यरचनारूपस्य जगतोऽनायासेन निर्मा-
तृत्त्वमद्भुतत्वम् । इन्द्रस्य देवराजस्यापि प्रियम् । सोऽप्यन्तर्यामिणं कदा प्राप्स्यामी-
त्येवमाशास्ते । अत एव सर्वैरन्यैः काम्यमपेक्षणीयम् । सनिं कर्मफलस्य दातारम् ।
मेधां श्रुत्यादि ( ताधीत ) ग्रन्थधारणशक्तिं प्रयच्छन्तमिति शेषः ।
अथ बह्व्युपाधिकं परमेश्वरं प्रतिष्ठार्थं प्रार्थयते—
उद्दी॑प्यस्व जातवेदो॒ऽपमृ॒णन्निर्कृ॑तिं॒ मर्म॑ ( ४ )
प॒शूंश्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश, इति ।
जाते प्राणिशरीरे जाठराग्निरूपेण विद्यतेऽवतिष्ठत इति [ जातवेदाः । हे ] जातवेदो
मदनुग्रहार्थमुत्कर्षेण दीप्यस्व । किं कुर्वन् । ममानिष्टकारिणीं निर्ऋतिं पापदेवताम-
- एतच्चिह्नान्तर्गतं चतुःषष्ट्यनुवाकभाष्येऽन्तर्गृहीतम् । ... न साम्यात् ।