तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 569, कुल 914 में से
संदर्भ में पढ़ेंतदत्र व्यवहितार्थवाचिना तस्मादित्यनेन तच्छब्देन परामृश्यते । संनिहितायां सू-
त्रव्याख्यानरूपायामृचि सत्यादिशब्देन निहितशब्देन च व्यवहृतं वस्तु संनिहितवाचि-
नैतस्मादित्येतच्छब्देन परामृश्यते । वैशब्दोऽवधारणार्थः । तस्मादेवैतस्मादित्यु-
क्त्यृचा सूत्रेण च प्रतिपादितमेकमेव वस्त्वित्युक्तं भवति । अथवा परोक्षवाचि-
तच्छब्देन शास्त्रगम्यो ब्रह्मत्वाकारोऽभिधीयते । वैशब्दस्तस्मिन्ब्रह्मणि सर्ववेदान्त-
सिद्धिप्रदर्शनार्थः । प्रत्यक्षवाचिनैतच्छब्देनापरोक्षानुभवगम्यः प्रत्यगात्मत्वाकारोऽ-
'धीयते तदेव विशेष्टयितुमात्मन इत्युच्यते । तस्मादेतस्मादितिपदद्वयसामानाधिक-
ण्येन प्रत्यग्ब्रह्मणोस्तादात्म्यमुच्यते । एतदेव पूर्वस्यामप्यूचि ब्रह्मणा विपश्चितेतिसा-
नाधिकरण्येनोदाहृतम् । सर्वप्राणिनां प्रत्यगात्म