सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 426, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 426

प्रपा०६अनु०५] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४२३
· द्वितीयानुवाके व्याख्यातो मन्त्रः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये षष्ठप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥
अथ षष्ठे पञ्चमोऽनुवाकः ।
आया॑तु दे॒वः सु॒मना॑भिरू॒तिभि॑र्य॒मो ह॑ वे॒ह प्रय॑ताभिर॒क्ता ।
आसी॑दताꣳ सु॒प्रय॑ते ह ब॒र्हिष्यूर्जाय॑ जा॒त्यै मम॑ शत्रुह॒त्यै ।
पञ्चमेऽनुवाके यमयज्ञोऽभिधीयते । स च कल्पसूत्र एवमुपक्रान्तः—
“ यज्ञमयं स्वयं प्रोक्तं प्रवक्ष्ये बलिमुत्तमम् ।
मासि मासि तु कर्तव्योऽन्तकाय तु बलिस्तथा ” इति ।
तत्र मन्त्रविनियोग एवमभिहितः—“आयातु देवः सुमनाभिरूतिभिर्यमो ह वेह प्रय-
ताभिरक्ता । आसीदताꣳसुप्रयते ह बर्हिष्यूर्जाय जात्यै मम शत्रुहत्योमिति यममावा-
हयति” [इति]। तत्राऽऽवाहनार्थः प्रणवोऽध्याहृतः । मन्त्रे हशब्दः प्रसिद्धयर्थः, वाशब्दः
समुच्चये । प्रसिद्धो यमो देवः सुमनाभिः सौमनस्ययुक्तै(क्ताभि)रूतिभिरस्मदीय-
रक्षणैः सहित इह यमयज्ञाख्ये कर्मण्यायातु । तथा प्रयताभिर्नियताभिरूतिभिरक्ता
प्रसिद्धा यमी चाऽऽयातु । मम यजमानस्योर्जाय्यान्नसिद्धये जात्या उत्तमजातिसिद्धये
शत्रुहत्यै शत्रुवधाय च सुप्रयते सुष्ठुनियते बर्हिषि । ह प्रसिद्धौ । एतौ दंपती आसी-
दतामुपविशताम् ।
कल्पः—“ यमे इव यतमाने यदैतमिति च ” इति । आवाहयतीत्यनुवर्तते ।
ऋक्तु—
य॒मे इ॑व॒ यत॑माने॒ यदैतं॒ प्र वां॑ भरन्मानु॒षा दे॒वयन्तः॑ । आसी॑-
दतं॒ꣳ स्वम॑ लो॒कं वि॑दा॒ने स्वास॒स्थे भ॑वतम॒िन्दवे॑ नः , इति ।
इवशब्द् एवकारार्थः । यद्यदा यतमाने प्रयत्नं कुर्वाणे यमे इव यमो यमी चेत्येते
युवामैतस्मिन्कर्मण्यागच्छतम् । तदानीं देवयन्तो देवानात्मन इच्छन्तो मानुषा
मानवा वां युवां प्रभरन्प्रकर्षेण भरन्तु पोषयन्तु । स्वमु लोकं स्वोचितमेव स्थानं
विन्दाने जानत्यौ युवामासीदतमुपविशतम् । नोऽस्माकमिन्दव आह्लादाय स्वासस्थे
सुखनस्थाने भवतं तिष्ठतम् ।
१ क. ख. ॰हत्या इति । २ क. ख. ॰मस्मात्कर्म॑ ।