तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 423, कुल 914 में से
संदर्भ में पढ़ें४२० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०६ अनु०४]
अथ तृतीयामाह-
शीतिके॑ शीतिकावति ह्लादु॑के ह्लादुकावति
म॒ण्डूक्या॑सु॒ संग॑मये॒मꣳ स्व॑ग्निꣳ श॑म॒य॑, इति ।
शीतेन जलेन युक्ता भूमिः शीतिका, ह्लादकारिणा क्षीरेण युक्ता भूमिर्ह्लादुका । हे
शीतिके भूमे शीतिकावति शीतिकाभूमियुक्ते स्थानें, हे ह्लादुके ह्लादुकावति ह्लादु-
कायक्ते स्थानविशेषे मण्डूक्यासु मण्डूकप्लवनयोग्यास्वप्सु संगमयेमं प्रेतदेहं प्रापय ।
अग्निं च सुष्ठु शमय ।
अथ चतुर्थीमाह-
शं ते॑ धन्व॒न्या॒ आपः॒ शमु॑ ते सन्त्वनू॒क्या॑ः । शं
ते॑ समु॒द्रिया॒ आपः॒ शमु॑ ते सन्तु॒ वर्ष्या॑ः, इति ।
धन्वनि मरुदेशे भवा धन्वन्त्यास्तादृश्य आपो हे प्रेतदेह ते तव शं सन्तु सुख-
हेतवो भवन्तु । अनूपदेशे भवा अनूक्यया आपः [ते] शं (शमु) सन्तु सुखहेतव एव
भवन्तु । तथा समुद्रे भवाः समुद्रिया वर्षे भवा वर्ष्यास्ताः सर्वा अपि ते सुखहेतवो
भवन्तु ।
अथ पञ्चमीमाह-
शं ते॒ स्रव॑न्तीस्त॒नुवे॒ शमु॑ ते सन्तु॒ कूप्या॑ः । शं ते॑
नी॒हारो॑ वर्षतु॒ शमु॒ पृ॑ष्वाऽव॑शीयताम् (१), इति ।
स्रवन्तीर्नदीगता आपो हे प्रेत ते तनुवे शं सुखहेतवो भवन्तु । कूपे भवाः कूप्याः
ताश्च ते सुखहेतवो भवन्तु । नीहारो हिमरूपस्ते सुखार्थं वर्षतु वृष्टिवत्स्रवतु ।
पृष्वा जलबिन्दुः शमु सुखार्थमेवावशीयतामधः पततु ।
कल्पः-“ अत एवाङ्गारान्दक्षिणां निर्वर्त्य तिस्रः स्रुवाहुतीर्जुहोति--अवसृजेति
प्रतिमन्त्रम् ” इति । तत्र प्रथमामाह-
अव॑सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त आहु॑त॒श्चर॑ति स्व॒धाभि॑ः ।
आयु॒र्वसा॑न॒ उप॑यातु॒ शेषꣳ॒ संग॑च्छतां त॒नुवा॑ जातवेदः, इति ।
हेऽग्ने यः प्रेतः पुमानाहुतश्चितौ मन्त्रेण समर्पितः सन्स्वधाभिः स्वधाकारसमाप्ति-
तैरूदकादिभिः सह चरति । तं प्रेतं पितृभ्यः पितृप्राप्त्यर्थं पुनरवसृज भूयः प्रेरय ।
१ ख. ग. 'ने मण्डूक्यासु मण्डूकप्लवनयोग्यास्वप्सु संगमय प्रापय । हे । २ क. ख. देहं ।
३ ग. पृष्ठाऽव° । ४ म. पृष्ठा । ५ ख. ग. °णान्निर्व° ।