सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 385, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 385

३७२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ५ अनु० ६]
दि॒वि दे॒वेषु॒ होत्रां॒ यच्छेत्या॑ह । होत्रा॑भिरे॒वेमाँल्लो॒का-
न्त्संद॑धाति ( २२ ) ।
वि॒श्वासां॒ भुवां॑ पत॒ इत्या॑ह । हैम॒न्तिका॒वेवा॒स्मा॑ ऋ॒तू
क॑ल्पयति ( २३ ) ।
दे॒व॒श्रूस्त्वं दे॒व घ॑र्म दे॒वान्पा॒हीत्या॑ह । शैशि॒रावेवा॒स्मा॑
ऋ॒तू क॑ल्पयति ( २४ ) ।
त॒पो॒जां वाच॑म॒स्मे निय॑च्छ दे॒वायु॒वमित्या॑ह । या वै मेध्या॑
वाक् । सा त॑पो॒जाः । तामे॒वाव॑रुन्धे ( ७ ) । ( २५ ) ।
गर्भो॑ दे॒वाना॒मित्या॑ह । गर्भो ह्येष दे॒वाना॑म् ( २६ ) ।
पि॒ता म॑ती॒नामित्या॑ह । प्र॒जा वै म॒तय॑ः । तासा॑मे॒ष
ए॒व पि॒ता । यत्प्र॑व॒र्ग्यः॑ । तस्मा॑दे॒वमा॑ह ( २७ ) ।
पति॑: प्र॒जाना॒मित्या॑ह । पति॒र्ह्येष॑ प्र॒जाना॑म् ( २८ ) ।
म॒तिः क॑वी॒नामित्या॑ह (८) । म॒तिर्ह्येष॑ क॑वीना॑म् (२९) ।
सं दे॒वो दे॒वेन॑ सवित्राऽथ॑तिष्ठ॒ सꣳ सूर्ये॑णारुक्तेत्या॑ह ।
अ॒मुं चै॒वाऽऽदि॒त्यं प्र॑व॒र्ग्यं॑ च॒ सं शा॑स्ति ( ३० ) ।
आयु॑र्दास्त्वम॒स्मभ्यं॑ घर्म॒ वर्चो॒दा अ॒सीत्या॑ह । आशि॑-
षमे॒वैतामाशा॑स्ते ( ३१ ) ।
पि॒ता नो॒ऽसि पि॒ता नो॑ बोधेत्या॑ह । बोधय॑त्ये॒वैन॑म् (३२) ।
२२ द्वाविंशतितमविभागस्य भाष्यं २७० पृष्ठे द्रष्टव्यम् ।
२३ त्रयोविंशविभागस्य भाष्यं २७० पृष्ठे द्रष्टव्यम् ।
२४ चतुर्विंशविभागस्य भाष्यं २७० पृष्ठे द्रष्टव्यम् ।
२५ पञ्चविंशतितमविभागस्य भाष्यं २७१ पृष्ठे द्रष्टव्यम् ।
२६ षड्विंशतितमविभागस्य भाष्यं २७१ पृष्ठे द्रष्टव्यम् ।
२७ सप्तविंशतितमविभागस्य भाष्यं २७१ पृष्ठे द्रष्टव्यम् ।
२८ अष्टाविंशतितमविभागस्य भाष्यं २७२ पृष्ठे द्रष्टव्यम् ।
२९ एकोनत्रिंशत्तमविभागस्य भाष्यं २७२ पृष्ठे द्रष्टव्यम् ।
३० त्रिंशत्तमविभागस्य भाष्यं २७२ पृष्ठे द्रष्टव्यम् ।
३१ एकत्रिशत्तमविभागस्य भाष्यं २७२ पृष्ठे द्रष्टव्यम् ।
३२ द्वात्रिंशत्तमविभागस्य भाष्यं २७३ पृष्ठे द्रष्टव्यम् ।