तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 339, कुल 914 में से
संदर्भ में पढ़ें३३६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा० ४ अनु० ३०]
गृध्रः पक्षिविशेषः । हे गृध्र त्वं विधावसि विविधं धावनं करोषि, शवमभि-
च्छन्नसर्वत्र संचरसि । कीदृशः । असृङ्मुखोऽसृग्रक्तं मुखे यस्यासौ तादृशः । पा¹-
स्वीकृतेन रुधिरेण मुखस्य सर्वस्य लेपितत्वादव्यक्तः, ईदृग्जातिरिति निश्चेतुमशक्यः
यमस्य दूतो यमो हि मारयितुं गृध्रं प्रेषयति । श्ववत्पद्यते शवं गच्छतीति श्वपात्
त्वं रक्तमांसयोर्गन्धेन तृषया युक्तत्वादगृध्रः । शोभनौ पणौ³ शीघ्रपतनक्षमौ यस्य
सुपर्णः । तादृशस्त्वं कुणपं शवं निषेवसे नितरां सेवसे । सोऽयं गृध्रो यमस्य
प्रेताधिपतिदेवस्य भवस्य परमेश्वरस्यान्तर्यामिण उभयोरेतयोर्दूतः । भवो हि २
प्रेषयति यमश्च गृध्रम् । अतः साक्षात्परम्परया चोभयोर्दूतः सन्निह प्रहितः प्रेषितः
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यकभाष्ये चतुर्थप्रपाठके एकोनत्रिंशोऽनुवाकः ॥ २९ ॥
अथ चतुर्थे त्रिंशोऽनुवाकः ।
अथ⁴ शालावृकविषयमनुवाकमाह--
यदे॒तद्वृ॑क॒सो भू॒त्वा । वाग्दे॒व्य॒भि॒राया॑सि । द्वि॒षन्तं॑ मे॒ऽभि॒-
रा॑य । तं मृ॒त्यो मृ॒त्यवे॑ नय । स आर्त्याऽऽर्ति॒मा॑र्च्छतु, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके चतुर्थप्रपाठके
त्रिंशोऽनुवाकः ॥ ३० ॥
वृकः क्रोष्टा । हे वाग्देवि ध्वनिदेवते वृकसो भूत्वा वृकादुत्पन्नाभिराय
भिमुख्येन शब्दं करोषीति⁵ यत्तदेतन्मे द्विषन्तमभिलक्ष्य राय शब्दं कुरु
मृत्यो वृकरूपं तं द्विषन्तं मृत्यवे मारकाय देवाय नय प्रापय । स द्विषन्नार्त्या
णाऽऽर्तिं दुःखमार्च्छतु प्राप्नोतु ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यकभाष्ये चतुर्थप्रपाठके त्रिंशोऽनुवाकः ॥ ३० ॥
१ ग. ॰पित्वा' । २ क. ख. ॰ति । शवष° । ३ ग. शीघ्रं । ४ क. ख. ॰थ स
५ क. ख. ॰ति तदे° ।