सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 337, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 337

३३४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० ४ अनु० २८]
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके चतुर्थप्रपाठके
सप्तविंशोऽनुवाकः ॥ २७ ॥
भर्त्सनद्योतकाः खडादयस्त्रयोऽनुकरणशब्दाः । * हननच्छेदनभेदनवाचकानि
क्रियापदानि । इत्येतानि षड्विधानि वाचः क्रूराणि ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये चतुर्थप्रपाठके सप्तविंशोऽनुवाकः ॥ २७ ॥
अथ चतुर्थेऽष्टाविंशोऽनुवाकः ।
कल्पः—“यदि घर्मेण चरन्त्स्वैकवृक उत्तिष्ठेद्विगा इन्द्र विचरन्त्स्पाशयस्वेत्येन-
मन्त्रयते” इति । पाठस्तु —
वि॒गा इ॑न्द्र॒ विच॒॑रन्त्स्पाशयस्व । स्व॒पन्त॑मिन्द्र प॒शुम॑न्त॑मिच्छ ।
व॒ज्रेणा॑मुं बोधय दुर्वि॒दत्र॑म् । स्व॒पतो॑ऽस्य॒ प्रह॑र॒ भोज॑नेभ्यः, इति ।
एकाकित्वेनारण्ये संचरन्वत्सान्मारयति योऽरण्यश्वा सोऽयमेकंवृकः, तद्बाधार्थं
प्रार्थ्यते । हे, इन्द्र विगा वत्सानेकंवृकाद्वियोज्य तद्रक्षार्थं विशेषेण चरन्स्पाशय
तमेकंवृकं बाधितं कुरु । हे, इन्द्र पशुमन्तं वत्सान्भक्षयितुमायातैः पशुभिर्युक्तं तं
वृकं स्वपन्तं निद्राणं गच्छ । गत्वा च दुर्विदत्रं दुर्बुद्धिशीलममुमेकंवृकं वज्रेण
युधेन बोधय । यथा + स्वपन्तं सुप्तं प्रहारेण बोधयन्ति, तथा वज्रप्रहारेण तं
बोधयेत्यस्यैवार्थः स्पष्टमुच्यते । स्वपन्तमेनमेकंवृकं भोजनेभ्यो वत्सभक्षणेभ्यो
रयितुं प्रहर मारयेत्यर्थः ।
कल्पः—“उभयत आदीप्त्योल्मुकमस्मै प्रत्यस्येत् । अग्ने अग्निना संवदस्व [इति]
इति । पाठस्तु—
अ॒ग्ने अ॒ग्निना॒ संव॑दस्व । मृ॒त्यो मृ॒त्युना॑
संव॑दस्व । नम॑स्ते अस्तु भगवः, इति ।
हेऽग्न उल्मुकस्य मूलभागवर्तिन्नग्नोल्र्मुकाग्रभागवर्तिना सह संवदस्व, ए-
हन्तुमैकमत्यं प्राप्नुहि । हे मृत्यो मूलभागस्थिताग्निप्रेरित मृत्युनाऽग्रभागस्थित-

  • छेदनभेदनहननवाचकानीति युक्तं पठितुम् । + इदं पदमधिकम् ।
    १ क. ॰कसृक । २ क. ॰कसृकः । ३ क. ख. ॰नमन्त्रं प्रार्थयते । ४ क. ॰कंसृ-
    ५ क. ॰कसृकं । ६ क. ॰कसृकं । ७ क. ॰कसृकं । ८ ख. सुप्तप° । ९ क. ॰कसृकं ।