तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 223, कुल 914 में से
संदर्भ में पढ़ें२२० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ५ अनु० २]
जन्मोत्पत्तिर्यस्येषुधन्वसमूहस्य सोऽयं यज्ञजन्मा । यज्ञो वै विष्णुरिति श्रुतेर्यज्ञस्यैव
विष्णुरूपत्वाद्विष्णोरुत्पन्नं यज्ञादेवोत्पन्नं भवति । तस्माद्यज्ञजन्मत्वाद्विषुधन्वस्वरूपं
पुण्यजन्मेत्युच्यते यज्ञस्य पुण्यरूपत्वात् । * वामहस्ते धनुर्दक्षिणहस्ते बाणान्धृत्वाऽव-
स्थितं तं यज्ञपुरुषमेकमेव सन्तमितेरे इषुधन्वरहिता देवा बहवः सन्तोऽपि नाभ्य-
धृष्णुवन्, अभिभवितुं नाशक्नुवन्। यस्मादेवमत्र तस्माल्लोकेऽपीषुभिर्धनुषा चोपेत-
मेकं पुरुषं तद्रहिता बहवः पुरुषा अभिभवितुं न शक्नुवन्ति ।
अथ यज्ञपुरुषस्य गर्वप्रसङ्गेन दीक्षितनियमं विधत्ते--
सोऽ॑स्मयत । एकं॑ मा सन्तं॒ बह्वो नाभ्य॑धर्षिषुरिति॑ । तस्य॑ सिष्मि-
या॒णस्य॒ तेजो॑ऽपाक्रामत् । तद्दे॒वा ओष॑धीषु न्य॑मृजुः । ते श्या॒माका॑
अभवन् । स्म॒याका॒ वै नामै॒ते ( ३ ) । तत्स्म॑याकानां॑
स्मयाक॒त्वम् । तस्माद्दीक्षितेनापिगृह्य स्मेतव्यम् । तेजसो धृत्यै, इति ।
( प्र० । ५ । अ० १ । वि० ३ )
स धन्वी यज्ञपुरुषोऽस्मयत स्मयं हास्यं कृतवान् । हास्याभिप्रायश्च तेनैवोच्यते—
अहमेक एवैते तु देवाः शतसहस्रसंख्याकास्तथाऽपि मामभिभवितुं न शक्ताः, इत्येवं
सिष्मियाणस्य गर्वेण स्मयं कृतवतस्तस्य यज्ञपुरुषस्य सकाशात्तदीयं तेजोऽपाक्रा-
मत्, गर्वेण प्रयत्ने शिथिले सति सामर्थ्यमपगतम् । पुनरपि कथंचित्तत्सत्त्वी करिष्यतीति
मत्वा ते देवास्तत्तेजोऽन्यत्र नीत्वा तेन यथा न ज्ञायते तथा गूढं कर्तुं कासुचिदो-
षधीषु निमृष्टवन्तः । ते चौषधिविशेषा यज्ञसंबन्धिना तेजसा युक्ताः [ श्यामाका
अभवन् । ते च ] श्यामकाभिधां धान्यविशेषाः स्मयाका इत्येतादृशं नामार्हन्ति।
यस्मादेतस्य नाम्नो योग्यास्तस्मात्स्मयाकानां स्मयादुत्पन्नानां धान्यानां स्मयाक-
त्वम् । स्मयाकनामाभिज्ञव्यवहारे प्रसिद्धम् । यस्मादत्र स्मयं कुर्वतो यज्ञपुरुषात्तेजोऽ-
पक्रान्तं तस्मात्कारणात्तेजसः स्वस्मिन्नेवावधारणार्थं मुखमपिधाय दीक्षितेन स्मेतव्यम्।
यद्यपि दीक्षाप्रकरणे कृष्णविषाणया कण्डूयतेऽपिगृह्य स्मयत इति विधिरस्ति तथाऽपि
प्रसङ्गादत्र स एवानूद्यत इत्यवगन्तव्यम् ।
अथ प्रवर्ग्यघर्ममहावीरसम्राट्शब्दानां निर्वचनानि प्रस्तोष्यमाणहविष्प्रशंसार्थं
दर्शयति—
स धनुः प्रति॑ष्कभ्यातिष्ठत् । ता उप॒दीका॑ अब्रुवन्वरं॑ वृणामहै । अथ व
इमꣳ रन॑ध्याम । यत्र॒ क्व च खनाम॑ । तद॒पोऽभि॑तृणदामेति॑ । तस्मा-
- अत्र सकलादर्शपुस्तकेषु वामहस्ते दधद्धनुरित्येव पाठः ।
१ क ख. ॰न्तरे दे॰ । २ क. ख. ॰यं कृ॰ । ३ क. ॰याक्त॰ । ४ ख. नां स्म॰ । ५
'रेण प्र॰ । ६ क. ख. ॰स्मिन्नव॰ ।