तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 89, कुल 940 में से
संदर्भ में पढ़ें८४ तैत्तिरीये आरण्यके
प्र॒भुर्गात्रा॑णि॒ पर्ये॑षि वि॒श्वत॑: । अत॑प्ततनू॒र्न तदामो॑
अ॒श्नुते । शृ॒तास॒ इद्वह॑न्त॒स्तत्स॑माश॒त⁽२⁾ । ⁽३⁾ब्र॒ह्मा दे॒-
वानां॑⁽३⁾ । ⁽४⁾अ॒सतः॒ सद्ये तत॑क्षुः ॥ १ ॥
सन्, 'विश्वतः' सर्वतः, 'गात्राणि' यज्ञाङ्गानि, 'पर्येषि' व्या-
प्नोषि । पवित्रेणाशोधितस्य यज्ञाङ्गत्वं नास्ति शोधितस्य तु
सोमस्य यज्ञाङ्गत्वमस्तीत्यत्र हविरन्तरं दृष्टान्तत्वेनोपन्यस्यते ।
'अतप्ततनूः' अतप्ता तनूः स्वरूपं यस्य पुरोडाशादेः सोऽयं
अतप्ततनूः तादृशः पुरोडाशः, 'आमः' अपक्वः सन्, 'तत्'
यज्ञाङ्गत्वं 'नाश्नुते' न व्याप्नोति । यो विदग्धः स नैर्ऋतो यो-
ऽशृतः स रौद्र इति श्रुतेः । 'शृतास इत्' पक्वा एव पुरो-
डाशादयः, 'वहन्तः' यज्ञं निर्वहन्तः, 'तत्' यज्ञाङ्गत्वं, 'समा-
शत' सम्यक् प्राप्तवन्तः । यः शृतः स देव इति श्रुतेः । अपक्वस्य
पुरोडाशादेर्यज्ञाङ्गत्वं यथा नास्ति, पक्वस्य तु यथा विद्यते, तथा
पवित्रेणाशोधितस्य सोमस्य यज्ञाङ्गत्वं नास्ति, शोधितस्य तु
विद्यत इत्यभिप्रायः ॥
अथ तृतीयमन्त्रप्रतीकं दर्शयति । ⁽२⁾"ब्रह्मा देवानां"⁽२⁾
इति । ब्रह्मा देवानां पदवीः कवीनामित्ययं मन्त्रः त्वमग्ने
बृहद्वय इत्यनुवाके व्याख्यातः ॥
अथ चतुर्थमन्त्रमाह । ⁽४⁾"असतः ॰ शङ्कुतोऽवमन्"⁽४⁾ इति ।
असच्छब्देन जगत्कारणमव्यक्तावस्थापन्नमुच्यते । सच्छब्देन व्य-