तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 82, कुल 940 में से
संदर्भ में पढ़ें१ प्रपाठके १० अनुवाकः ॥ ७७
यैः श॒तप॑द्भिः ष॒डश्वैः॑।(६)। (७)स॒वि॒तारं॒ वित॑न्वन्तं॑। अनु॑-
ब॒ध्नाति॑ शाम्ब॒रः। आप॑पूर॒ष् शम्ब॑रश्चैव। स॒वि॒ता रे-
प॒सो भव॑त्।(७)। (८)त्यꣳ सु॒तृप्तं॑ वि॑दि॒त्वैव॑। ब॒हुसो॑म॒गि-
रं व॑शी ॥ ३ ॥
'धन्वन्' निर्जले मरुदेशे। कीदृशैर्मेघैः, 'त्रिभिः' तत्तद्देशमनु-
सृत्योत्तममध्यमाधमभावेन त्रिविधैः, 'रथैः' रथसदृशैः। यथा
रथा उपरि महान्तं भारं वहन्ति तथा बहुजलभारवाहिन
इत्यर्थः। 'शतपद्भिः' शतसङ्ख्याकाः पदाः जलधाराः पाद-
सदृशा येषां तादृशैः, अनन्तधारैरित्यर्थः। 'षडश्वैः' षट्प्रकार-
व्याप्तियुक्तैः, उत्तमादीनां त्रयाणामागमनार्थास्तिस्रो व्याप्तयः
पुनर्गमनार्थास्तिस्र इत्येवं षड्विधव्याप्तयः ॥
अथ सप्तमीमाह। $^{(७)}$“सवि॒तारं॑ ॰ रेप॑सो भव॒त्”$^{(७)}$ इति।
शम्बरमुदकं तस्योदकस्य धारको मेघः 'शाम्बरः', स च 'वित-
न्वन्तं' वृष्ट्यर्थं रश्मीन् विस्तारयन्तं, 'सवि॒तारम्' आदित्यम्,
'अनुबध्नाति' स्वानुग्रहार्थमाश्रयति। 'आपपूर' आपशब्दो जल-
वाची तेन जलेन पूर्णः, 'शम्बरः' पूर्वोक्तः शाम्बरो मेघो यः
सोऽपि, 'अपरेपसः' पापरहितायाः सर्वानुग्राहिकाया वृष्टेः,
'सविता', 'भवदेव' उत्पादयिता भवत्येव ॥
अथाष्टमीमाह। $^{(८)}$“त्यꣳ सु॒तृप्तं॑ ॰ सोमतृत्सुषु”$^{(८)}$ इति।
'सुतृप्तं' सुष्ठु वृष्टियुक्तं, उदकपूर्णमित्यर्थः। 'बहुसोमगिरं' बहवः