तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 65, कुल 940 में से
संदर्भ में पढ़ें६० तैत्तिरीये आरण्यके
द्वाणः । दीर्घ॑श्रुत्त॒मो भ॑वति । क॒श्यप॑स्याति॒थिः सि॒द्ध-
र्गम॑नः सि॒द्धाग॑मनः^{(१८)} । ^{(१९)}तस्यै॒षा भ॑वति^{(१९)}। ^{(२०)}आ
यस्मि॑न्त्स॒प्त वास॑वाः । रोह॑न्ति पू॒र्व्या रुहः॑ ॥ ७ ॥
ऋषि॑र्ह दीर्घ॑श्रुत्त॒मः । इन्द्र॑स्य घ॒र्मो अति॑थिरि-
भिज्ज्ञः सन्, 'दीर्घश्रुत्तमो भवति' दीर्घं चिरकालं कश्यपोप-
श्रूयते, सम्यगनुष्ठाताऽयमिति ततोऽप्यतिशयो बहूनां देवानां
मुखाच्छ्रवणं बहवोऽपि देवाः कश्यपसमीपं गत्वा ब्राह्मणोऽय-
मारुणकेतुकं सम्यगनुतिष्ठति इति पुनः पुनः कथयन्ति अतोऽयं
दीर्घश्रुत्तमः । परलोके 'कश्यपस्यातिथिः', इव पूज्यो भवति ।
किञ्च स ब्राह्मणः स्वेच्छया कश्यपसमीपगमनागमनयोः समर्थो
भवति ॥
अथ ब्राह्मणोक्तार्थस्य प्रतिपादिकामृचमवतारयति ।
^{(१९)}“तस्यैषा भवति”^{(१९)} इति ॥
तामेतामृचं दर्शयति । ^{(२०)}“आ यस्मिन्सप्त ० अतिथिरिति”^{(२०)} इति । 'यस्मिन्' कश्यपे, सप्तसङ्ख्याका आरोग्यादयः
सूर्याः 'आरोहन्ति', कश्यपादेवोत्पद्य स्थितिं लभन्त इत्यर्थः ।
कीदृशाः सप्त सूर्याः, 'वासवाः' जगन्निवासहेतवः, 'पूर्व्यासः'
सृष्ट्यादावुत्पन्नतया प्रथमाङ्कुरभूताः, तस्य 'इन्द्रस्य' परमैश्वर्य-
युक्तस्य कश्यपस्य, 'दीर्घश्रुत्तमनामकः', कश्चित् 'ऋषिः', 'घर्मः'
दीप्यमानः सन्, 'अतिथिः', सम्पन्नः । इत्यनयेष्टकामुपदध्यात् ।
अतएव बौधायनः । आ यस्मिन्नग्ने नयेति द्वे इति ॥