सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 600, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 600

४ प्रपाठके १२ अनुवाकः । ५८१

इतिद्वादशप्रकारे मन्त्रसङ्घः प्रजापतिस्वरूपः । 'अन्नं', च प्रजा-
पतिसृष्टत्वात् प्रजापतिरूपम् । तादृशः 'प्रजापतिः', एव 'एषः'
प्रवर्ग्यरूपः । एवमस्य प्रशस्तत्वं द्रष्टव्यं ॥

वदन्ति, तनुवा, सꣳसन्नः, ह्रयमानो वाग्घृतः, दधाति,
एषः, ॥ अनु०॥ ११ ॥

इति पञ्चमप्रपाठके एकादशोऽनुवाकः ॥

अथ दिनविशेषेषु फलविशेषकथनेन प्रवर्ग्यं प्रशंसति ।
“सविता भूत्वा प्रथमेऽहन् प्रवृज्यते । तेन कामान् एति । यद्
द्वितीयेऽहन् प्रवृज्यते । अग्निर्भूत्वा देवानेति । यत्तृतीयेऽहन् प्रवृ-
ज्यते । वायुर्भूत्वा प्राणानैति । यच्चतुर्थेऽहन् प्रवृज्यते । आदित्यो
भूत्वा रश्मीनेति । यत्पञ्चमेऽहन् प्रवृज्यते । चन्द्रमा भूत्वा नक्ष-
त्राण्येति ॥१॥ यत् षष्ठेऽहन् प्रवृज्यते । ऋतुर्भूत्वा संवत्सरमेति ।
यत्सप्तमेऽहन् प्रवृज्यते । धाता भूत्वा शक्वरीरेति । यदष्टमेऽहन्
प्रवृज्यते । बृहस्पतिर्भूत्वा गायत्रीमेति । यन्नवमेऽहन् प्रवृज्यते ।
मित्रो भूत्वा विशत इमांल्लोकानेति । यद्दशमेऽहन् प्रवृज्यते ।
वरुणो भूत्वा विराजमेति ॥२॥ यदेकादशेऽहन् प्रवृज्यते । इन्द्रो
भूत्वा त्रिष्टुभमेति । यद् द्वादशेऽहन् प्रवृज्यते । सोमो भूत्वा सुत्या-
मेति” इति । (५ प्र०। १२ अ०। १ म०) । प्रथमे दिवसे 'प्रवृज्यते',
इति यत् 'तेन', अनुष्ठानेन, अयं 'सवितृदेवः 'भूत्वा', 'कामान्',
प्राप्नोति । एवमुत्तरेष्वपि वाक्येषु योजनीयं ॥