तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 53, कुल 940 में से
संदर्भ में पढ़ें४८ तैत्तिरीये आरण्यके
त्वादृतूनां नानो॒सूर्य॑त्वं^(१६)। ।^(१७)अ॒ष्टौ तु व्यवसिता
इति॑^(१७)। ।^(१८)सूर्य॑मण्ड॒लान्य॒ष्टात् ऊ॒र्ध्वम्। तेषा॑मे॒षा
भव॑ति^(१८)।(१९)चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं। चक्षु॑र्मि॒त्रस्य॑
तदानीं वसन्ताद्यृतूनां नानालिङ्गत्वं न स्यात् न हि कारण-
भेदमन्तरेण कार्यभेदः सम्भवति । तस्मादृतुधर्मवैलक्षण्यसि-
द्धये बहुसूर्यत्वमभ्युपेयं ॥
कथन्तर्हि पूर्वत्रकश्यपोऽष्टम इत्येवं सूर्याणामष्टसङ्ख्या स्वी-
कृतेत्याशङ्क्य तदभिप्रायं दर्शयति। (१७)“अष्टौ तु व्यवसिता
इति”(१७) इति । बाढं । सन्त्येव तत्तल्लिङ्गकल्पा अनन्ताः सूर्याः
किन्तु तत्रास्ति कश्चिद्विशेषः, ‘व्यवसिताः’ निश्चिताः, सूर्याः
‘अष्टौ’ इत्येवंविधः पञ्चकर्णसप्तकर्णाभ्यां सप्तानां सूर्याणां प्रत्य-
क्षेण दृष्टत्वात् प्राणवातेनाष्टमस्यापि दृष्टत्वात् ॥
अष्टसङ्ख्यां निगमयति । (१८)“सूर्य्यमण्डलान्यष्टात ॰ तेषा-
मेषा भवति”(१८) इति । ‘तेषां’ अनेकसूर्य्यमण्डलानां, प्रतिपा-
दिकेयमृग्विच्यते ॥
तामेतामृचं दर्शयति। (१९)“चित्रं देवानामुदगादनीकं ॰
सूर्य्य आत्माजगतस्तस्थुषश्चेति”(१९) इति । ‘चित्रं’ बहुमण्डल-
रूपत्वेन विचित्रं, ‘देवानामकनीकं’ अन्धकाररूपवृत्रशरीरा-
त्मकस्य शत्रोर्विनाशकत्वेन देवसैन्यरूपमादित्यमण्डलमुदगात्
पूर्व्वस्यां दिश्युदेति तच्च मण्डलजातं मित्रादीनां चक्षूरूपं ।